← अध्यायः ३२ पुरुषोत्तमसंहिता
अध्यायः ३३
[[लेखकः :|]]
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्रांतर्गत श्रीपुरुषोत्तमसंहितायां
त्रयत्रिंशोथ्यायः
मद्रालक्षणं.
मद्रालक्षणश्रवणे
ब्रह्म-
ब्रह्म प्रश्नः
मुद्राणां लक्षणं ब्रूहि देवदेवदयानिधे
मुद्राकदाप्रकर्तव्यातस्याः किंतु प्रयोजनम्. 1
भगवत्प्रतिवचनं
श्रीभगवान्-
मुद्राशब्दार्थ निर्वचनं
मुदं समस्ततत्त्वानां तक्षणाद्द्रावयिष्यति
तस्मादस्वर्थनामा भूदेषा गोप्या चतुर्मुख. 2
नबहिर्दर्शये न्मुद्रां क्षिप्रंदेवप्रसादिनीम्
गंधलिप्तौ करौकृत्वा मुद्राबंधन माचरेत्. 3
शंखमुद्रा
मुष्टिनावामहस्तस्य नव्यां गुष्टं निबध्य च
आंगुष्ठतर्जनी योगश्शंख मुद्रेति कीर्तिता. 4
चक्रमुद्रा
अधोमुखं करं कृत्वा दक्षिणं वामहस्तके
उत्तानेमणि बंभेतु मणिबंधंतु योजयेत्. 5
चक्रवद्भ्रमणादेवं चक्रमुद्रेतिकीर्तिता
गदामुद्रा
मुष्ठिं बथ्वातु हस्ताभ्यांनंश्लिष्टौ मध्यमांगुळीः. 6
कूर्परौतु समौकृत्वा गदामुद्रेय मीरिता
शार्ञ्गमुद्रा
अग्रेणमध्यमांगुळ्या स्तर्जन्यग्रं स्पृसेद्यति. 7
शार्ञ्गमुद्रेति कधिता नर्वदुष्टभयंकरी
मुसल मुद्रा
सोर्ध्वांगुष्ठं वाममुष्टिं दक्षिणेवतु मुष्ठिवा. 8
आबथ्यांगुष्ट मूर्थ्वंतु न्यसाचेन्मुसलं भवेत्
खड्गमुद्रा
तर्जनीमध्यमाहीरा मुष्टिः खड्गेतिकीर्तिता. 9
पद्ममुद्रा
अंगुळीविरळाः कृत्वाकरयोरुभयोरपि
संश्लिष्टकूर्परौयत्त त्पद्ममुद्रानि गद्यते. 10
वनमालामुद्रा
संश्लिष्टश्चांगुळीः कृत्वा करयोरुभयोरपि.
लंबये द्वनमालास्या त्कथ्यतेनंतमुद्रिका. 11
अनंत मुद्रा
सर्वांगुळीभिराकुं च्य फणवत्क्रियतेयदि
गरुडमुद्रा
हस्तरुभयो स्पृष्टा संश्लिष्टा च कनिष्टिकौ. 12
तथा चतर्जनीयुग्मं बथ्वांगुष्टौ समौकृतौ
पक्षवच्चलनं कुर्या दित रांगुळिभिस्तथा. 13
विष्वक्चेन मुद्रा
विमुक्ततर्जनी मुष्टिर्विष्वक्चेनस्य प्रीतिदा
ब्रह्ममुद्रा
सर्वांगुळीनां संस्पृष्टि रुभयोः करयोरपि. 14
ब्रह्ममुद्रेति कधिता विष्णुमुद्रानि गद्यते
विष्णुमुद्रा
अनामिकामध्यमाभ्यां विमुक्तासैवपद्मज. 15
रुद्रदामु
अंगुष्ठद्वय संस्सृष्टिः रुद्रमुद्रा प्रकीर्तिता.
मुष्टिमुद्रेति
मुष्टिमुद्रेति कधिता मुष्टिं बध्वाबलि क्षिपेत्. 16
गंध मुद्रा
कनिष्ठानामिकामुक्ता मुष्टिस्वाद्गंधमुद्रिका.
पुष्प मुद्रा
सर्वांगुळीनां संकोचः विमुक्तामध्यमाचसा. 17
पुष्पमुद्रेति कधिता पुष्पाणां च समर्पणे.
यज्ञोपवीतमुद्रा
अंगुष्टस्याग्र पर्वंतु मध्यमांगुळिनास्पृसेत्
यज्ञोपवीतमुद्रास्या द्देवदेवस्य प्रीतिदा. 19
आभरणमुद्रा
कनिष्ठिकाग्रपर्वंतु न्पृशेदं गुष्टकेसतु
मुद्राचाभरणं ज्ञेयं अलंकारासनेमतम्. 20
धूपमुद्रा
सच्छिद्रमंगुळीनांतु समाश्लिष्टाग्रबंधनम्
ऊर्थ्वांगुष्ठौ तथाकृत्वाधूपमुद्रा(तुसाभवेत्)प्रकीर्तिता. 21
दीपमुद्रा
सर्वांगुळीश्च संहृत्य मध्यमेद्वे प्रदर्शयेत्
हस्तयो रुभयोश्चापि दीपमुद्रा प्रकीर्तिता. 22
ग्रासमुद्रा
अंगुळीनांतु पंचानां अग्रंसंयोज्ययत्नतः
दक्षिणेन करेणैव मुद्रासाग्राससंजिका. 23
प्रतिमामुद्रा
सोर्थ्वांगुष्थॆतु यामुष्टी मुद्रासाप्रतिमास्मृता
स्वागतमुद्रा
उत्तानाभ्यां च हस्ताभ्यां किंचिदाकुं च्शचांगुळीः.
पृथक्कृत्वातथांगुष्ठौ ज्ञेयास्त्वागतमुद्रिका
दहनमुद्रा
वामहस्ते त्रिकोणाग्निं ध्यात्वाद्रव्योपरिस्यसेत्.
एषादहनमुद्रास्या त्सर्वद्रव्य विशोधिनी
अप्यायसमुद्रा
नव्यहस्ते तधापद्मं षोडशच्छद संयुतम्. 27
अमृतमुद्रा?
तस्मिन् चंद्रंस्थितः थ्यात्वापीयूषस्राविनंतथा
अवाङ्मुखेन हस्तेन द्रव्याणामु परिस्यसेत्.
आप्यायनस्य मुद्रैषा द्रव्यपावन कारिणी
सुरभिमुद्रा
अनामीका मध्यमयोः मनिष्ठातर्जनी क्रमात्. 28
संस्पृष्टिश्चेत्त थान्योन्य करयोरुभयोरपि
मुद्रैषासुरभि र्ञेया सर्वकामार्धसिद्धिदा. 89
अवाहनमुद्रा
विरळांजलि बंधस्तु मुद्राचावाहनाख्यका
किरीटमुद्रा
अंगुष्टाभ्यां चकरयो स्संपुटीकृत्यदेशिकः
अनामिकेच तर्जन्यौ संकोच्यशिरसिन्यसेत्. 31
श्रीवत्समुद्रा
किरीटेकथितामुद्रा श्रीवत्सं कध्यतेधुवा
उत्तानं वामहस्तं चकृत्वांगुष्ठेन संस्पृशेत्
शांस्तुभमुद्रा
दक्षीणस्य च हस्तस्य तर्जन्यातु कनिष्ठिकं
सव्यहस्त कनिष्टॆन बथ्वा तत्तर्जनीं नयेत्. 34
पूर्वांगुळित्रयं देशं कौंस्तुभं परिकीर्तितं
ज्ञानमुद्रा
तर्जन्यं गुष्टयोरेव संयोगोज्ञानमुद्रिका, 35
तत्त्वमुद्रा
सैवश्रीवत्समुद्रास्यात्तत्वमुद्रा प्रकीर्तिता
अग्निप्राकारमुद्रा
अंगुष्टाग्रेन संस्पृश्य तर्जनी मध्यपर्वकं
संहारमुद्रा
मध्यमामूर्थ्वतःकृत्वातर्जन्यौवेष्ठयेत्क्रमात्
अनामिकांकनिष्ठां च तथांगुष्टॆन देशिकः
संहारमुद्राभिहिता तत्वसंहरणेमता. 38
सृष्टिमुद्रा
तर्जनिमूर्थ्वतः कृत्वा अंगुळीनां च संगतिः
सृष्टिमुद्रेति कधिता तत्वन्यासादि केमता.
शिखामुद्रा
अंगुष्ठं मध्यतः कृत्वामुष्टिंबथ्वाहृदिन्यसेत्
तर्जन्यं गुष्ठयोगेन शिरसिन्यसनं भवेत्. 40
पश्चाच्छिखायां संस्पृस्येदूर्थ्वांगुष्टेन मुष्टिना
कवचमुद्रा
करयो रुभयोंगुष्टा संकुच्यांगुळिभिस्तथा
भुजप्रभृतिपादांतं न्यसेत्कवचमुद्रिका
नेत्रमुद्रा
शिखामुद्रा मधःकृता भृवोर्मध्येनिवेशयेत्
नेत्रमुद्रेति कधिता तर्जन्यंगुष्ठयोस्तधा
अस्त्रमुद्रा
स्फोटनं चैवसर्वत्र अस्त्रमुद्रेति कीर्तिता. 43
षडंगन्यासमुद्राणां विनियोगःप्रदर्शितः
[अधिकपाठानि
वसिष्टः-
इत्येवं हरिणाशृत्वा पुराकमल संभवः
हृष्टचेतो जगन्नाधं प्रणिपद्यमुहुर्मुहुः
जगत्सृष्टिं समारेभॆचाज्ञयातु जगत्पतेः
मयाशृतं यथापूर्वं मत्पित्रा ब्रह्मणाद्विजाः
तत्सर्वं संग्रहेणैवतुभ्यमद्य सुबोथितं
लोकानुग्रहकामेन निगूढं भगवत्प्रियं
महाशास्त्रं पांचरात्र नामकं परमोत्तमं.
नाशिष्यायन भक्तायन वैष्णव बुधायच
नकदापि प्रवक्तव्यं गोप्यं गोप्यं मनीषिभिः
यस्यश्रवणमात्रेण अघनाशोभवेद्धृवं
पठनं मननंचैव जन्मराहित्य हेतुकं
दुर्लभं सर्वलोकानां देवानांच सदाप्रियं।।
ऋषयः महच्छास्त्रमिदंशृत्वा वशिष्ठेनमहात्मना
ऋषयोहृष्टमनसास्तंस्तुवंतावभूवुः]
इतिसंक्षेवतः प्रोक्तं मुद्राणां लक्षणंपरं
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंङितायां
मुद्रालक्षणींन्नामत्रयत्रिंशोध्यायः
श्रीश्रीश्री
संपूर्णं