महाभारतम्-10-सौप्तिकपर्व-002

← सौप्तिकपर्व-001 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-002
वेदव्यासः
सौप्तिकपर्व-003 →

कृपेण द्रौणिम्प्रति कर्तव्योपदेशः।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
कृप उवाच। 10-2-1x
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज।।
10-2-1a
10-2-1b
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते।।
10-2-2a
10-2-2b
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः।।
10-2-3a
10-2-3b
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः।।
10-2-4a
10-2-4b
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्।।
10-2-5a
10-2-5b
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः।।
10-2-6a
10-2-6b
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी।।
10-2-7a
10-2-7b
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः।।
10-2-8a
10-2-8b
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च।।
10-2-9a
10-2-9b
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्।।
10-2-10a
10-2-10b
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्।
अभलं दृश्यते लोके सम्यगप्युपपादितम्।।
10-2-11a
10-2-11b
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते।।
10-2-12a
10-2-12b
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्।।
10-2-13a
10-2-13b
चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि।।
10-2-14a
10-2-14b
शक्नोति जीवितुं दक्षो नालसः सुखमेधते।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः।।
10-2-15a
10-2-15b
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति।।
10-2-16a
10-2-16b
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः।।
10-2-17a
10-2-17b
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः।।
10-2-18a
10-2-18b
हीनं पुरुषकारेण यदि दैवेन वा पुनः।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्।।
10-2-19a
10-2-19b
हीनं पुरुषकारेण कर्म त्विह न सिध्यति।। 10-2-20a
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते।।
10-2-21a
10-2-21b
सम्यगीहा पुनरियं या बृद्धानुपसेवते।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः।।
10-2-22a
10-2-22b
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते।।
10-2-23a
10-2-23b
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्।।
10-2-24a
10-2-24b
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः।।
10-2-25a
10-2-25b
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः।।
10-2-26a
10-2-26b
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः।।
10-2-27a
10-2-27b
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः।।
10-2-28a
10-2-28b
अनुवर्तामहे यत्तु तं वयं पापपूरुषम्।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्।।
10-2-29a
10-2-29b
अेन तु ममाद्यापि व्यसनेनोपतापिता।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते।।
10-2-30a
10-2-30b
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति।।
10-2-31a
10-2-31b
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्।।
10-2-32a
10-2-32b
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्।
उपपृच्छामहे गत्वा विदुरं च महामतिम्।।
10-2-33a
10-2-33b
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः।।
10-2-34a
10-2-34b
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्।। 10-2-35a
कृते पुरुषकारे तु येषां कार्यं न सिध्यति।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा।।
10-2-36a
10-2-36b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।

10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः। तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति। आरम्भा मानुषाः सर्वे इति क.पाठः।। 10-2-6 उत्थानमिति। दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः।। 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः।। 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति।। 10-2-14 दुर्दर्शौ दुर्लभौ।। 10-2-16 स्पर्शं चास्याधिगच्छतीति छ.पाठः। तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः।। 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ.पाठः। तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः।। 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम्। अन्यथा तयोरन्यतरालम्बनेन।। 10-2-23 योगे अलब्धलाभे।। 10-2-25 अनीशः अजितचित्तः। अवमानी परमवजानन्।। 10-2-2 द्वितीयोऽध्यायः।।

सौप्तिकपर्व-001 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-003