महाभारतम्-11-स्त्रीपर्व-005
← स्त्रीपर्व-004 | महाभारतम् स्त्रीपर्व महाभारतम्-11-स्त्रीपर्व-005 वेदव्यासः |
स्त्रीपर्व-006 → |
विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम्।। 1 ।।
धृतराष्ट्र उवाच।
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते।
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे।। 11-5-1a
विदुर उवाच।
अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे।
यथा संसारगहनं वदन्ति परमर्षयः।। 11-5-2a
कश्चिन्महति कान्तारे वर्तमानो द्विजः किल।।
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम्।। 11-5-3a
सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा।। 11-5-4a
समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम्।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्।। 11-5-5a
अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः।। 11-5-6a
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति।
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः।
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते।। 11-5-7a
अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम्।
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया।। 11-5-8a
11-5-8b
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः।
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्।। 11-5-9a
वनमध्ये च तत्राभूदुदपानः समावृतः।
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः।। 11-5-10a
पपात स द्विजस्तत्र निगूढे सलिलाशये।
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले।। 11-5-11a
पनसस्य यथा जातं वृन्तबद्धं महाफलम्।
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः।। 11-5-12a
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः।
कूपमध्ये महानागमपश्यत महाबलम्।। 11-5-13a
कूपपीनाहवेलायामपश्यत् महागजम्।। 11-5-14a
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्।। 11-5-15a
तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः।
नानारूपा मधुकरा घोररूपा भयावहाः।। 11-5-16a
आसते मधु संवृत्य पूर्वमेव निकेतजाः।
भूयोभूयः समीहन्ते मधूनि भरतर्षभ।। 11-5-17a
स्वादनीयानि भूतानां यैर्बालो न वितृप्यते।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा।। 11-5-18a
आलम्बमानः स पुमान्धारां पिबति सर्वदा।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे।। 11-5-19a
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः।
न चास्य जीविते राजन्निर्वेदः समजायत।। 11-5-20a
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः।। 11-5-21a
व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया।
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च।। 11-5-22a
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम्।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्।। 11-5-23a
एवं स वसते तत्र क्षिप्तः संसारसागरे।
न चैव जीविताशायां निर्वेदमुपगच्छति।। 11-5-24a
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि पञ्चमोऽध्यायः।। 5 ।।
स्त्रीपर्व-004 | पुटाग्रे अल्लिखितम्। | स्त्रीपर्व-006 |