महाभारतम्-11-स्त्रीपर्व-014

← स्त्रीपर्व-013 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-014
वेदव्यासः
स्त्रीपर्व-015 →

भीमगान्धारीसंवादः।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
वैशम्पायन उवाच। 11-14-1x
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा।।
11-14-1a
11-14-1b
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि।।
11-14-2a
11-14-2b
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम्।।
11-14-3a
11-14-3b
अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः।
निकृताश्च सदैव स्म तो विषममाचरम्।।
11-14-4a
11-14-4b
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया।।
11-14-5a
11-14-5b
एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम्।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव।।
11-14-6a
11-14-6b
सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया।।
11-14-7a
11-14-7b
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्।।
11-14-8a
11-14-8b
तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा।।
11-14-9a
11-14-9b
वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत्।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया।।
11-14-10a
11-14-10b
वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः।।
11-14-11a
11-14-11b
गान्धार्युवाच। 11-14-12x
न तस्यैवं वधस्तात यं प्रशंससि मे सुतम्।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि।।
11-14-12a
11-14-12b
हताश्वे नकुले यत्तु वृषसेनेन भारत।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम्।।
11-14-13a
11-14-13b
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर।।
11-14-14a
11-14-14b
भीम उवाच। 11-14-15x
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया।।
11-14-15a
11-14-15b
`स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति'।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः।।
11-14-16a
11-14-16b
[अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम्।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन।।
11-14-17a
11-14-17b
वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे।।
11-14-18a
11-14-18b
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते।।
11-14-19a
11-14-19b
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्।।
11-14-20a
11-14-20b
अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम्।।
11-14-21a
11-14-21b
गान्धार्युवाच। 11-14-22x
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम्।।
11-14-22a
11-14-22b
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै।।
11-14-23a
11-14-23b
शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः।।
11-14-24a
11-14-24b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः।। 14 ।।

सम्पाद्यताम्

11-14-6 उक्तवान् नहि ते पतयः सन्तीत्यादि। राजपुत्रीं च पाञ्चलीमिति झ.पाठः।। 11-14-14 चतुर्दशोऽध्यायः।।

स्त्रीपर्व-013 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-015