← सर्गः १९ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः २१ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः |	
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् || ५.२०.१||	

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा |	
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा || ५.२०.२||
	
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः |	
द्रवतो मार्गमासाद्य हयानिव सुसारथिः || ५.२०.३||	

वामः कामो मनुष्याणां यस्मिन्किल निबध्यते |	
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते || ५.२०.४||
	
एतस्मात्कारणान्न तां घतयामि वरानने |	
वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् || ५.२०.५||	

परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् |	
तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः || ५.२०.६||
	
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः |	
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् || ५.२०.७||
	
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः |	
ततः शयनमारोह मम त्वं वरवर्णिनि || ५.२०.८||	

द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् |	
मम त्वां प्रातराशार्थमारभन्ते महानसे || ५.२०.९||

तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् |	
देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः || ५.२०.१०||	

ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः |	
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा || ५.२०.११||	

ताभिराश्वासिता सीता रावणं राक्षसाधिपम् |	
उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् || ५.२०.१२||
	
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः |	
निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् || ५.२०.१३||	

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः |	
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः || ५.२०.१४||
	
राक्षसाधम रामस्य भार्याममिततेजसः |	
उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे || ५.२०.१५||	

यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने |	
तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः || ५.२०.१६||	

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे |	
चक्षुषो विषयं तस्य न तावदुपगच्छसि || ५.२०.१७||
	
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले |	
क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः || ५.२०.१८||	

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च |	
कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते || ५.२०.१९||	

असन्देशात्तु रामस्य तपसश्चानुपालनात् |	
न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा || ५.२०.२०||
	
नापहर्तुमहं शक्या तस्य रामस्य धीमतः |	
विधिस्तव वधार्थाय विहितो नात्र संशयः || ५.२०.२१||
	
शूरेण धनदभ्राता बलैः समुदितेन च |	
अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् || ५.२०.२२||	


सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः |	
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत || ५.२०.२३||	

नीलजीमूतसङ्काशो महाभुजशिरोधरः |	
सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः || ५.२०.२४||	

चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः |	
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः || ५.२०.२५||	

श्रोणीसूत्रेण महता मेककेन सुसंवृतः |	
अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः || ५.२०.२६||	

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः |	
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः || ५.२०.२७||	

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः |	
उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् || ५.२०.२८||	

अनयेनाभिसम्पन्नमर्थहीनमनुव्रते |	
नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा || ५.२०.२९||	

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः |	
सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः || ५.२०.३०||	

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा |	
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् || ५.२०.३१||	

हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् |	
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् || ५.२०.३२||	

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् |	
अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् |	
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् || ५.२०.३३||
	
यथा मद्वशगा सीता क्षिप्रं भवति जानकी |	
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च || ५.२०.३४||	

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः |	
आवर्तयत वैदेहीं दण्डस्योद्यमनेन च || ५.२०.३५||	

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः |	
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् || ५.२०.३६||	
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी |	
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् || ५.२०.३७||	

मया क्रीड महाराजसीतया किं तवानया |	
अकामां कामयानस्य शरीरमुपतप्यते |	
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना || ५.२०.३८||

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली |	
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् || ५.२०.३९||	

देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः |	
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् || ५.२०.४०||	


स मैथिलीं धर्मपरामवस्थितां	
प्रवेपमानां परिभर्त्स्य रावणः |	
विहाय सीतां मदनेन मोहितः	
स्वमेव वेश्म प्रविवेश भास्वरम् || ५.२०.४१||	

</poem>