रामायणम्/सुन्दरकाण्डम्/सर्गः ५२
← सर्गः ५१ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ५३ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-२॥
स तस्य वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः॥ १॥ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नानुमेने विभीषणः॥ २॥ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ ३॥ निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः॥ ४॥ क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मे वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः॥ ५॥ राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्॥ ६॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्॥ ७॥ गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः। ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥ ८॥ तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्॥ ९॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्॥ १०॥ न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादिमं वधिष्यामि वानरं पापकारिणम्॥ ११॥ अधर्ममूलं बहुदोषयुक्त- मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः॥ १२॥ प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुष्व। दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥ १३॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः॥ १४॥ वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति॥ १५॥ कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः॥ १६॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि। विद्येत कश्चित्तव वीर तुल्य- स्त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ १७॥ पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयाप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः॥ १८॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते॥ १९॥ न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ २०॥ साधुर्वा यदि वासाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान् न दूतो वधमर्हति॥ २१॥ अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम्। इह यः पुनरागच्छेत् परं पारं महोदधेः॥ २२॥ तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति॥ २३॥ अस्मिन् विनष्टे नहि भूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ। युद्धाय युद्धप्रिय दुर्विनीता- वुद्योजयेद् वै भवता विरुद्धौ॥ २४॥ पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वया मनोनन्दन नैर्ऋतानां युद्धाय निर्नाशयितुं न युक्तम्॥ २५॥ हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु। मनस्विनः शस्त्रभृतां वरिष्ठाः कोपप्रशस्ताः सुभृताश्च योधाः॥ २६॥ तदेकदेशेन बलस्य तावत् केचित् तवादेशकृतोऽद्य यान्तु। तौ राजपुत्रावुपगृह्य मूढौ परेषु ते भावयितुं प्रभावम्॥ २७॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्। जग्राह बुद्ध्या सुरलोकशत्रु- र्महाबलो राक्षसराजमुख्यः॥ २८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५.५२॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।