← सर्गः २९ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ३१ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः । 
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।। 

अवेक्षमाणस्तां देवीं देवतामिव नन्दने । 
ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।। 

यां कपीनां सहस्राणि सुबहून्ययुतानि च । 
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।। 

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । 
गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।। 

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता । 
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।। 

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । 
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।। 

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । 
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।। 

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् । 
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।। 

गते हि मयि तत्रेयं राजपुत्री यशस्विनी । 
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।। 

मया च स महाबाहुः पूर्णचन्द्रनिभाननः । 
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।। 

निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् । 
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।। 

अनेन रात्रिशेषेण यदि नाश्वास्यते मया । 
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।। 

रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः । 
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।। 

सीतासन्देशरहितं मामितस्त्वरया गतम् । 
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।। 

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् । 
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।। 

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः । 
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।। 

अहं त्वति तनुश्चैव वानरश्च विशेषतः । 
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।। 

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । 
रावणं मन्यमाना मां सीता भीता भविष्यति । 
वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।। 

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । 
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।। 

सेयमालोक्य मे रूपं जानकी भाषितं तथा । 
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।। 

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी । 
जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।। 

सीतया च कृते शब्दे सहसा राक्षसीगणः । 
नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।। 

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः । 
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।। 

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । 
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।। 

मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् । 
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।। 

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि । 
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।। 

ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः । 
आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।। 

संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् । 
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।। 

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः । 
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।। 

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । 
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।। 

उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते । 
सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।। 

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । 
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।। 

विमृशंश्च न पश्यामि यो हते मयि वानरः । 
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।। 

कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् । 
नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।। 

असत्यानि च युद्धानि संशयो मे न रोचते । 
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।। 

प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे । 
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।। 

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः । 
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।। 

अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते । 
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।। 

न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् । 
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।। 

कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा । 
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।। 

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् । 
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।। 

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । 
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।। 

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् । 
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।। 

इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः । 
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। ५.३०.४४।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः ।। ५.३०।।
</poem>