← सर्गः ३५ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ३७ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


भूय एव महातेजा हनुमान् मारुतात्मजः । 
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।। 

वानरो ऽहं महाभागे दूतो रामस्य धीमतः । 
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।। 

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । 
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।। 

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । 
भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।। 

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । 
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।। 

ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता । 
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।। 

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । 
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।। 

शतयोजनविस्तीर्णः सागरो मकरालयः । 
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।। 

नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । 
यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।। 

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । 
यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।। 

प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् । 
पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।। 

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः । 
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।। 

कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् । 
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।। 

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे । 
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।। 

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते । 
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।। 

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । 
कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.३६.१६।। 

द्विविधं त्रिविधोपायमुपायमपि सेवते । 
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।। 

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । 
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।। 

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः । 
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।। 

कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः । 
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।। 

सुखानामुचितो नित्यमसुखानामनूचितः । 
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।। 

कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च । 
अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।। 

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः । 
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।। 

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः । 
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।। 

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति । 
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।। 

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । 
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।। 

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे । 
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।। 

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि । 
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।। 

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् । 
नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।। 

न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा । 
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।। 

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा । 
श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।। 

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः । 
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।। 

न त्वामिहस्थां जानीते रामः कमललोचने । 
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।। 

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । 
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।। 

विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् । 
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।। 

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ।। 
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।। 

तवादर्शनजेनार्ये शोकेन स परिप्लुतः । 
न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।। 

मलयेन च विन्ध्येन मेरुणा मन्दरेण च । 
दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।। 

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । 
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।। 

क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ । 
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।। 

न मांसं राघवो भुङ्क्ते न चापि मधु सेवते । 
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।। 

नैव दंशान्न मशकान् न कीटान्न सरीसृपान् । 
राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।। 

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः । 
नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।। 

अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः । 
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।। 

दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् । 
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।। 

स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः । 
दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।। 

सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका । 
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ५.३६.४७।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ।। ५.३६।।
</poem>