रामायणम्/सुन्दरकाण्डम्/सर्गः ४५
< रामायणम् | सुन्दरकाण्डम्
← सर्गः ४४ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ४६ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।। महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।। हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।। तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।। जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।। ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः । अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।। सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।। अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः । अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।। स शरान् मोघयामास तेषामाशुचरः कपिः । रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।। स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।। स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।। तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः । मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।। प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।। ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।। विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।। स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।। स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः । युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.४५।। </poem>