← सर्गः ४० रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४२ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥५-४१॥

एकचत्वारिंशः सर्गः श्रूयताम्

स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया।
तस्माद् देशादपाक्रम्य चिन्तयामास वानरः॥ १॥

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते॥ २॥

न साम रक्षःसु गुणाय कल्पते
न दानमर्थोपचितेषु युज्यते।
न भेदसाध्या बलदर्पिता जनाः
पराक्रमस्त्वेष ममेह रोचते॥ ३॥

न चास्य कार्यस्य पराक्रमादृते
विनिश्चयः कश्चिदिहोपपद्यते।
हतप्रवीराश्च रणे तु राक्षसाः
कथंचिदीयुर्यदिहाद्य मार्दवम्॥ ४॥

कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥ ५॥

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः।
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥ ६॥

इहैव तावत्कृतनिश्चयो ह्यहं
व्रजेयमद्य प्लवगेश्वरालयम्।
परात्मसम्मर्दविशेषतत्त्ववित्
ततः कृतं स्यान्मम भर्तृशासनम्॥ ७॥

कथं नु खल्वद्य भवेत् सुखागतं
प्रसह्य युद्धं मम राक्षसैः सह।
तथैव खल्वात्मबलं च सारवत्
समानयेन्मां च रणे दशाननः॥ ८॥

ततः समासाद्य रणे दशाननं
समन्त्रिवर्गं सबलं सयायिनम्।
हृदि स्थितं तस्य मतं बलं च
सुखेन मत्वाहमितः पुनर्व्रजे॥ ९॥

इदमस्य नृशंसस्य नन्दनोपममुत्तमम्।
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्॥ १०॥

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।
अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः॥ ११॥

ततो महत्साश्वमहारथद्विपं
बलं समानेष्यति राक्षसाधिपः।
त्रिशूलकालायसपट्टिशायुधं
ततो महद्युद्धमिदं भविष्यति॥ १२॥

अहं च तैः संयति चण्डविक्रमैः
समेत्य रक्षोभिरभङ्गविक्रमः।
निहत्य तद् रावणचोदितं बलं
सुखं गमिष्यामि हरीश्वरालयम्॥ १३॥

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः।
ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत्॥ १४॥

ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥ १५॥

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्॥ १६॥

नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः।
ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः॥ १७॥

न बभौ तद् वनं तत्र दावानलहतं यथा।
व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥ १८॥

लतागृहैश्चित्रगृहैश्च सादितै-
र्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः।
शिलागृहैरुन्मथितैस्तथा गृहैः
प्रणष्टरूपं तदभून्महद् वनम्॥ १९॥

सा विह्वलाशोकलताप्रताना
वनस्थली शोकलताप्रताना।
जाता दशास्यप्रमदावनस्य
कपेर्बलाद्धि प्रमदावनस्य॥ २०॥

ततः स कृत्वा जगतीपतेर्महान्
महद् व्यलीकं मनसो महात्मनः।
युयुत्सुरेको बहुभिर्महाबलैः
श्रिया ज्वलंस्तोरणमाश्रितः कपिः॥ २१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ।। ५.४१।।

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।