रामायणम्/उत्तरकाण्डम्/सर्गः १०
← सर्गः ९ | रामायणम् सर्गः १० वाल्मीकिः |
सर्गः ११ → |
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। ७.१०.१ ।।
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् ।
तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। ७.१०.२ ।।
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। ७.१०.३ ।।
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। ७.१०.४ ।।
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ७.१०.५ ।।
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ७.१०.६ ।।
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। ७.१०.७ ।।
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। ७.१०.८ ।।
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।
दशवर्षसहस्राणि गतानि नियतात्मनः ।। ७.१०.९ ।।
दशवर्षसहस्रं तु निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। ७.१०.१० ।।
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ७.१०.११ ।।
अथ वर्षसहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। ७.१०.१२ ।।
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। ७.१०.१३ ।।
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः ।
कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। ७.१०.१४ ।।
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। ७.१०.१५ ।।
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। ७.१०.१६ ।।
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। ७.१०.१७ ।।
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। ७.१०.१८ ।।
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।
अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। ७.१०.१९ ।।
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। ७.१०.२० ।।
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं देवः सह देवैः पितामहः ।। ७.१०.२१ ।।
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। ७.१०.२२ ।।
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। ७.१०.२३ ।।
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। ७.१०.२४ ।।
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।
भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। ७.१०.२५ ।।
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।
अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। ७.१०.२६ ।।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।
विभीषणमथोवाच वाक्यं लोकपितामहः ।। ७.१०.२७ ।।
विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।
परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। ७.१०.२८ ।।
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। ७.१०.२९ ।।
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् ।
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। ७.१०.३० ।।
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।
अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। ७.१०.३१ ।।
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।
सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। ७.१०.३२ ।।
एष मे परमोदार वरः परमको मतः ।
नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। ७.१०.३३ ।।
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ७.१०.३४ ।।
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ७.१०.३५ ।।
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। ७.१०.३६ ।।
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। ७.१०.३७ ।।
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश ।
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। ७.१०.३८ ।।
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।
तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। ७.१०.३९ ।।
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ ।
लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। ७.१०.४० ।।
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः ।
चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। ७.१०.४१ ।।
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।
इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। ७.१०.४२ ।।
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।
वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ७.१०.४३ ।।
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।
कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। ७.१०.४४ ।।
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। ७.१०.४५ ।।
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।
देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। ७.१०.४६ ।।
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।
विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। ७.१०.४७ ।।
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।
ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। ७.१०.४८ ।।
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः ।
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। ७.१०.४९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ।। १० ।।