रामायणम्/उत्तरकाण्डम्/सर्गः ९८
← सर्गः ९७ | रामायणम् सर्गः ९८ वाल्मीकिः |
सर्गः ९९ → |
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।
चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। ७.९८.१ ।।
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।
अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। ७.९८.२ ।।
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।
क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ७.९८.३ ।।
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।
पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। ७.९८.४ ।।
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।
ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। ७.९८.५ ।।
वसुधे देवि भवति सीता निर्यात्यतां मम ।
दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। ७.९८.६ ।।
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।
कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। ७.९८.७ ।।
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।
पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। ७.९८.८ ।।
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।
न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। ७.९८.९ ।।
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।
नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। ७.९८.१० ।।
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।
ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ७.९८.११ ।।
राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।
स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। ७.९८.१२ ।।
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।
इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। ७.९८.१३ ।।
सीता हि विमला साध्वी तव पूर्वपरायणा ।
नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। ७.९८.१४ ।।
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।
अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। ७.९८.१५ ।।
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।
सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। ७.९८.१६ ।।
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।
भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। ७.९८.१७ ।।
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।
नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। ७.९८.१८ ।।
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।
दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। ७.९८.१९ ।।
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।
शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। ७.९८.२० ।।
उत्तरं नाम काव्यस्य शेषमत्र महायशः ।
तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। ७.९८.२१ ।।
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।
परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। ७.९८.२२ ।।
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।
जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। ७.९८.२३ ।।
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।
ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।
उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। ७.९८.२४ ।।
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।
श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। ७.९८.२५ ।।
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।
भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। ७.९८.२६ ।।
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।
तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।
तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.२७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ।। ९८ ।।