रामायणम्/उत्तरकाण्डम्/सर्गः ५६
← सर्गः ५५ | रामायणम् सर्गः ५६ वाल्मीकिः |
सर्गः ५७ → |
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५६.१ ।।
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ।। ७.५६.२ ।।
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ।। ७.५६.३ ।।
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। ७.५६.४ ।।
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः ।
वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। ७.५६.५ ।।
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।
पितामहमथोवाच वायुभूत इदं वचः ।। ७.५६.६ ।।
भगवन्निमिशापेन विदेहत्वमुपागमम् ।
लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ।। ७.५६.७ ।।
सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।
लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो ।
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।। ७.५६.८ ।।
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ।
मित्रावरुणजं तेज प्रविश त्वं महायशः ।। ७.५६.९ ।।
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ।। ७.५६.१० ।।
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ।। ७.५६.११ ।।
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ।। ७.५६.१२ ।।
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।
यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ।। ७.५६.१३ ।।
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।
आविशत्परमो हर्षो वरुणं चोर्वशीकृते ।। ७.५६.१४ ।।
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणो वरयामास मैथुनायाप्सरोवराम् ।। ७.५६.१५ ।।
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।
मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। ७.५६.१६ ।।
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।
इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ।। ७.५६.१७ ।।
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।
कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ।। ७.५६.१८ ।।
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ।। ७.५६.१९ ।।
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ।। ७.५६.२० ।।
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।
ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ।। ७.५६.२१ ।।
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।
तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ।। ७.५६.२२ ।।
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।
पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ।। ७.५६.२३ ।।
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।। ७.५६.२४ ।।
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः ।
तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ।। ७.५६.२५ ।।
ततः सा शापदोषेण पुरूरवसमभ्यगात् ।
प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ।। ७.५६.२६ ।।
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।
नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ।। ७.५६.२७ ।।
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे ।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ।। ७.५६.२८ ।।
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।
बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ।। ७.५६.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्पञ्चाशः सर्गः ।। ५६ ।।