रामायणम्/उत्तरकाण्डम्/सर्गः ९९
← सर्गः ९८ | रामायणम् सर्गः ९९ वाल्मीकिः |
सर्गः १०० → |
रजन्यां तु प्रभातायां समानीय महामुनीन् ।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.१ ।।
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.२ ।।
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.३ ।।
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.४ ।।
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.५ ।।
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.६ ।।
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.७ ।।
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.८ ।।
दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.९ ।।
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.१० ।।
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.११ ।।
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.१२ ।।
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.१३ ।।
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।
नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.१४ ।।
अथ दीर्घस्य कालस्य राममाता यशस्विनी ।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.१५ ।।
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.१६ ।।
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।
समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.१७ ।।
तासां रामो महादानं काले काले प्रयच्छति ।
मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.१८ ।।
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।
चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.१९ ।।
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।
यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.२० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ।। ९९ ।।