रामायणम्/उत्तरकाण्डम्/सर्गः ११०
← सर्गः १०९ | रामायणम् सर्गः ११० वाल्मीकिः |
सर्गः १११ → |
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। ७.११०.१ ।।
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।
आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। ७.११०.२ ।।
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। ७.११०.३ ।।
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। ७.११०.४ ।।
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।
स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। ७.११०.५ ।।
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। ७.११०.६ ।।
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। ७.११०.७ ।।
ततः पितामहो वाणीमन्तरिक्षादभाषत ।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। ७.११०.८ ।।
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।
यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।
वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। ७.११०.९ ।।
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।
ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।
त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। ७.११०.१० ।।
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। ७.११०.११ ।।ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।
विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। ७.११०.१२ ।।
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। ७.११०.१३ ।।
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। ७.११०.१४ ।।
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।
साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। ७.११०.१५ ।।
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। ७.११०.१६ ।।
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। ७.११०.१७ ।।
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। ७.११०.१८ ।।
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।
प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। ७.११०.१९ ।।
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। ७.११०.२० ।।
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।
येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। ७.११०.२१ ।।
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।
पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। ७.११०.२२ ।।
तथोक्तवति देवेशे गोप्रतारमुपागताः ।
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। ७.११०.२३ ।।
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।
मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। ७.११०.२४ ।।
तिर्यग्योनिगतानां च शतानि सरयूजलम् ।
सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। ७.११०.२५ ।।
गत्वा तु सरयूतोयं स्थावराणि चराणि च ।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। ७.११०.२६ ।।
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।
ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। ७.११०.२७ ।।
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। ७.११०.२८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ।। ११० ।।