रामायणम्/उत्तरकाण्डम्/सर्गः १०४
← सर्गः १०३ | रामायणम् सर्गः १०४ वाल्मीकिः |
सर्गः १०५ → |
शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.१ ।।
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।
मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.२ ।।
पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.३ ।।
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.४ ।।
भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.५ ।।
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.६ ।।
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.७ ।।
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.८ ।।
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.९ ।।
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.१० ।।
स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.११ ।।
दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.१२ ।।
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.१३ ।।
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.१४ ।।
अथ वा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.१५ ।।
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.१६ ।।
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.१७ ।।
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।
भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.१८ ।।
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.१९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ।। १०४ ।।