रामायणम्/उत्तरकाण्डम्/सर्गः ९
← सर्गः ८ | रामायणम् सर्गः ९ वाल्मीकिः |
सर्गः १० → |
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ।। ७.९.१ ।।
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।। ७.९.२ ।।
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।
तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ।। ७.९.३ ।।
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।
तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ।। ७.९.४ ।।
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।
इत्येवं चिन्तयामास राक्षसानां महामतिः ।। ७.९.५ ।।
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।
अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ७.९.६ ।।
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते ।
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ।। ७.९.७ ।।
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.९.८ ।।
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ७.९.९ ।।त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ।। ७.९.१० ।।
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।
भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ।। ७.९.११ ।।
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।
तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। ७.९.१२ ।।
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।
तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। ७.९.१३ ।।
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। ७.९.१४ ।।
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।
विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। ७.९.१५ ।।
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।
अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। ७.९.१६ ।।
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।
किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। ७.९.१७ ।।
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।
आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। ७.९.१८ ।।
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। ७.९.१९ ।।
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। ७.९.२० ।।
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। ७.९.२१ ।।
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। ७.९.२२ ।।
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। ७.९.२३ ।।
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः ।
नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। ७.९.२४ ।।
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।
उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। ७.९.२५ ।।
पश्चिमो यस्तव सुतो भविष्यति शुभानने ।
मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। ७.९.२६ ।।
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। ७.९.२७ ।।
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ।
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। ७.९.२८ ।।
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः ।
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। ७.९.२९ ।।
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः ।
प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। ७.९.३० ।।
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।
अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। ७.९.३१ ।।
अथ नामाकरोत्तस्य पितामहसमः पिता ।
दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। ७.९.३२ ।।
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ७.९.३३ ।।
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना ।
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ७.९.३४ ।।
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। ७.९.३५ ।।
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।
वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। ७.९.३६ ।।
तौ तु तत्र महारण्ये ववृधाते महौजसौ ।
कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। ७.९.३७ ।।
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।
त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। ७.९.३८ ।।
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।
स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। ७.९.३९ ।।
अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।
आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। ७.९.४० ।।
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।
आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। ७.९.४१ ।।
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।
भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ।। ७.९.४२ ।।
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।
यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ।। ७.९.४३ ।।
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ।। ७.९.४४ ।।
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा ।
भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ।। ७.९.४५ ।।
ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।
चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ।। ७.९.४६ ।।
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च ।
आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ।। ७.९.४७ ।।
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।
अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ७.९.४८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ।। ९ ।।