रामायणम्/उत्तरकाण्डम्/सर्गः ९२
← सर्गः ९१ | रामायणम् सर्गः ९२ वाल्मीकिः |
सर्गः ९३ → |
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.१ ।।
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.२ ।।
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.३ ।।
नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.४ ।।
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.५ ।।
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.६ ।।
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.७ ।।
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.८ ।।
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.९ ।।
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.१० ।।
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.११ ।।
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.१२ ।।
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.१३ ।।
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.१४ ।।
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.१५ ।।
रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.१६ ।।
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.१७ ।।
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.१८ ।।
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.१९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ।। ९२ ।।