रामायणम्/उत्तरकाण्डम्/सर्गः ८९
← सर्गः ८८ | रामायणम् सर्गः ८९ वाल्मीकिः |
सर्गः ९० → |
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।
आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.१ ।।
अथ रामः कथामेतां भूय एव महायशाः ।
कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.२ ।।
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।
उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.३ ।।
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.४ ।।
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.५ ।।
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.६ ।।
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।
स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.७ ।।
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।
गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.८ ।।
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।
प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.९ ।।
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.१० ।।
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.११ ।।
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.१२ ।।
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.१३ ।।
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।
फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.१४ ।।
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।
प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.१५ ।।
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.१६ ।।
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.१७ ।।
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।
प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.१८ ।।
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.१९ ।।
न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।
संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.२० ।।
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.२१ ।।
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।
मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.२२ ।।
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।
जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.२३ ।।
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।
बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.२४ ।।
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः ।। ८९ ।।