रामायणम्/उत्तरकाण्डम्/सर्गः १०८
← सर्गः १०७ | रामायणम् सर्गः १०८ वाल्मीकिः |
सर्गः १०९ → |
ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। ७.१०८.१ ।।
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। ७.१०८.२ ।।
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। ७.१०८.३ ।।
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ।
श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। ७.१०८.४ ।।
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। ७.१०८.५ ।।
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। ७.१०८.६ ।।
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.७ ।।
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।
आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.८ ।।
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.९ ।।
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.१० ।।
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।
ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.११ ।।
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.१२ ।।
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.१३ ।।
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.१४ ।।
न चान्यदपि वक्तव्यमतो वीर न शासनम् ।
विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.१५ ।।
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.१६ ।।
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.१७ ।।
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.१८ ।।
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.१९ ।।
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।
तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.२० ।।
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.२१ ।।
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। ७.१०८.२२ ।।
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।
प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.२३ ।।
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.२४ ।।
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।
वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.२५ ।।
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.२६ ।।
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.२७ ।।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.२८ ।।
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.२९ ।।
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। ७.१०८.३० ।।
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।
आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.३१ ।।
तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। ७.१०८.३२ ।।
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.३३ ।।
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।
तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.३४ ।।
एवमुक्तस्तु हनुमान्राघवेण महात्मना ।
वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.३५ ।।
यावत्तव कथा लोके विचरिष्यति पावनी ।
तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.३६ ।।
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ।। ७.१०८.३७ ।।
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। ७.१०८.३८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टोतरशततमः सर्गः ।। १०८ ।।