रामायणम्/उत्तरकाण्डम्/सर्गः ४२
← सर्गः ४१ | रामायणम् सर्गः ४२ वाल्मीकिः |
सर्गः ४३ → |
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।
प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.१ ।।
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.२ ।।
चम्पकाशोकपुन्नागमधूकपनसासनैः ।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.३ ।।
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।
मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.४ ।।
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि ।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.५ ।।
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.६ ।।
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.७ ।।
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.८ ।।
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.९ ।।
सुरभीणि च पुष्पाणि माल्यानि विविधानि च ।
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.१० ।।
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः ।
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। ७.४२.११ ।।
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः ।
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। ७.४२.१२ ।।
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ।
तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। ७.४२.१३ ।।
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ।
तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। ७.४२.१४ ।।
प्रस्तराः पुष्पशबला नभस्तारागणैरिव ।
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।
तथाभूतं हि रामस्य काननं सन्निवेशनम् ।। ७.४२.१५ ।।
बह्वासनगृहोपेतां लतागृहसमावृताम् ।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ।। ७.४२.१६ ।।
आसने च शुभाकारे पुष्पप्रकरभूषिते ।
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ।। ७.४२.१७ ।।
सीतामादायं हस्तेन मधुमैरेयकं शुचि ।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ।। ७.४२.१८ ।।
मांसानि च समृष्टानि फलानि विविधानि च ।
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ।। ७.४२.१९ ।।
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ।। ७.४२.२० ।।
मनोभिरामा रामास्ता रामो रमयतां वरः ।
रमयामास धर्मात्मा नित्यं परमभूषितः ।। ७.४२.२१ ।।
स तया सीतया सार्धमासीनो विरराज ह ।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ।। ७.४२.२२ ।।
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ।। ७.४२.२३ ।।
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ।। ७.४२.२४ ।।
दशवर्षसहस्राणि गतानि सुमहात्मनोः ।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। ७.४२.२५ ।।
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।
शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। ७.४२.२६ ।।
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै ।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। ७.४२.२७ ।।
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। ७.४२.२८ ।।
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.४२.२९ ।।
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ।
अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। ७.४२.३० ।।
किमिच्छसि वरारोहे कामः किं क्रियतां तव ।। ७.४२.३१ ।।
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ।। ७.४२.३२ ।।
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ७.४२.३३ ।।
एष मे परमः कामो यन्मूलफलभोजिनाम् ।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ।। ७.४२.३४ ।।
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। ७.४२.३५ ।।
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। ७.४२.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विचत्वारिंशः सर्गः ।। ४२ ।।