रामायणम्/उत्तरकाण्डम्/सर्गः २६
← सर्गः २५ | रामायणम् सर्गः २६ वाल्मीकिः |
सर्गः २७ → |
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.१ ।।
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।
प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.२ ।।
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।
स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.३ ।।
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.४ ।।
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।
चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।
तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.५ ।।
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।
एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।
किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.६ ।।
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। ७.२६.७ ।।भिरुद्भासितवनान्तरे ।
विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।
योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.८ ।।
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।
अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.९ ।।
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.१० ।।
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।
प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.११ ।।
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.१२ ।।
रावणस्तु महावीर्यः कामस्य वशमागतः ।
विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.१३ ।।
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।
सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.१४ ।।
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.१५ ।।
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.१६ ।।
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। ७.२६.१७ ।।
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।
नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.१८ ।।
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।
ऊरू करिकराकारौ करौ पल्लवकोमलौ ।
सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.१९ ।।
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।
करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.२० ।।
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।
कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.२१ ।।
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।
सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.२२ ।।
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।
कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.२३ ।।
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।
अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.२४ ।।
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। ७.२६.२५ ।।
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।। ७.२६.२६ ।।
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।। ७.२६.२७ ।।
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।
भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। ७.२६.२८ ।।
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। ७.२६.२९ ।।
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।
तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.३० ।।
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.३१ ।।
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.३२ ।।
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।
विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.३३ ।।
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.३४ ।।
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।
तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.३५ ।।
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। ७.२६.३६ ।।
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ७.२६.३७ ।।
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।
तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.३८ ।।
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।
माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.३९ ।।
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।
स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।
देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.४० ।।
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। ७.२६.४१ ।।स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।
एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।
कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.४२ ।।
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.४३ ।।
लुलिताकुलकेशान्ता करवेपितपल्लवा ।
पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.४४ ।।
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।
नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.४५ ।।
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।
अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.४६ ।।
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।
तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.४७ ।।
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।
तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.४८ ।।
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।
गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.४९ ।।
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.५० ।।
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.५१ ।।
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।
न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.५२ ।।
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।
धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.५३ ।।
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।
मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.५४ ।।
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।
उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.५५ ।।
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।
तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.५६ ।।
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.५७ ।।
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।
पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.५८ ।।
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.५९ ।।
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.६० ।।
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.६१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षड्वविंशः सर्गः ।। २६ ।।