रामायणम्/उत्तरकाण्डम्/सर्गः १०६
← सर्गः १०५ | रामायणम् सर्गः १०६ वाल्मीकिः |
सर्गः १०७ → |
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ।। ७.१०६.१ ।।
न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ।। ७.१०६.२ ।।
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। ७.१०६.३ ।।
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ।। ७.१०६.४ ।।
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।
मन्त्रिणः समुपानीय तथैव च पुरोधसम् ।। ७.१०६.५ ।।
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।
दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ।। ७.१०६.६ ।।
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ।
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ।। ७.१०६.७ ।।
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।
लक्ष्मणेन वियोगश्च तव राम महायशः ।। ७.१०६.८ ।।
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः ।
विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ।। ७.१०६.९ ।।
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ।। ७.१०६.१० ।।
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।
लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ।। ७.१०६.११ ।।
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ।। ७.१०६.१२ ।।
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।
त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। ७.१०६.१३ ।।
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।
लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ।। ७.१०६.१४ ।।
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। ७.१०६.१५ ।।
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।
देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ।। ७.१०६.१६ ।।
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।
प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ।। ७.१०६.१७ ।।
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।
दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ।। ७.१०६.१८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।