रामायणम्/सुन्दरकाण्डम्/सर्गः १८
(सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः १७ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १९ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत्॥ १॥ षडंगवेदविदुषां क्रतुप्रवरयाजिनाम्। शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम्॥ २॥ अथ मंगलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः॥ ३॥ विबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान्। स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्॥ ४॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न तु तं राक्षसः कामं शशाकात्मनि गूहितुम्॥ ५॥ स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्। तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः॥ ६॥ वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। सदा मत्तैश्च विहगैर्विचित्रां परमाद्भुतैः॥ ७॥ ईहामृगैश्च विविधैर्वृतां दृष्टिमनोहरैः। वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाम्॥ ८॥ नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। अशोकवनिकामेव प्राविशत् संततद्रुमाम्॥ ९॥ अंगनाः शतमात्रं तु तं व्रजन्तमनुव्रजन्। महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥ १०॥ दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः। वालव्यजनहस्ताश्च तालवृन्तानि चापराः॥ ११॥ काञ्चनैश्चैव भृंगारैर्जह्रुः सलिलमग्रतः। मण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः॥ १२॥ काचिद् रत्नमयीं पात्रीं पूर्णां पानस्य भ्राजतीम्। दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥ १३॥ राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥ १४॥ निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव॥ १५॥ व्याविद्धहारकेयूराः समामृदितवर्णकाः। समागलितकेशान्ताः सस्वेदवदनास्तथा॥ १६॥ घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टांगकुसुमाः समाल्याकुलमूर्धजाः॥ १७॥ प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः॥ १८॥ स च कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ॥ १९॥ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्। शुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः॥ २०॥ तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥ २१॥ दीपिकाभिरनेकाभिः समन्तादवभासितम्। गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः॥ २२॥ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कंदर्पमपविद्धशरासनम्॥ २३॥ मथितामृतफेनाभमरजोवस्त्रमुत्तमम्। सपुष्पमवकर्षन्तं विमुक्तं सक्तमंगदे॥ २४॥ तं पत्रविटपे लीनः पत्रपुष्पशतावृतः। समीपमुपसंक्रान्तं विज्ञातुमुपचक्रमे॥ २५॥ अवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः। रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥ २६॥ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥ २७॥ क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः॥ २८॥ वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः॥ २९॥ रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे। अवप्लुतो महातेजा हनूमान् मारुतात्मजः॥ ३०॥ स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा। पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत्॥ ३१॥ स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्। दिदृक्षुरसितापांगीमुपावर्तत रावणः॥ ३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।