← सर्गः ३ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ५ →


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥

स निर्जत्य पुरीम् लण्का श्रेष्ठाम् ताम् कामरूपिणीम् ।
विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥५-४-१॥

अद्वारेण मःआतेजा हौमान् कपिसत्तमः ।
प्रविश्य नगरीम् लङ्काम् कपिराजहितम्करः ॥५-४-२॥

चक्रेणाऽथ पदम् सव्यम् शत्रूणाम् स तु मूर्धनि ।
प्रविष्टः सत्त्वसंपन्नो विशायाम् मारुतात्मजः ॥५-४-३॥

स महापथमास्थाय मुक्तापुष्पविराजितम् ।
ततस्तु ताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः ॥५-४-४॥

हसित उद्घुष्ट निनदैः तूर्य घोष पुरः सरैः  ।
वज्र अन्कुश निकाशैः च वज्र जाल विभूषितैः ॥५-४-५॥

गृह मेधैः  पुरी रम्या बभासे द्यौः इव अम्बुदैः ।
प्रजज्वाल तदा लन्का रक्षः गण गृहैः  शुभैः ॥५-४-६॥

सित अभ्र सदृशैः चित्रैः  पद्म स्वस्तिक सम्स्थितैः ।
वर्धमान गृहैः च अपि सर्वतः सुविभाषितैः ॥५-४-७॥

ताम् चित्र माल्य आभरणाम् कपि राज हितम् करः ।
राघव अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ॥५-४-८॥

भवनाद्भवनं गच्छ्न् ददर्श पवनात्मजः ।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥५-४-९॥

शुश्राव मधुरम् गीतम् त्रि स्थान स्वर भूषितम् ।
स्त्रीणाम् मद समृद्धानाम् दिवि च अप्सरसाम् इव ॥५-४-१०॥

शुश्राव कान्ची निनदम् नूपुराणाम् च निह्स्वनम् ।
सोपान निनदामः चैव भवनेषु महात्मनम् ॥५-४-११॥

आस्फोटित निनादामः च क्ष्वेडितामः च ततः ततः ।
शुश्राव जपताम् तत्र मन्त्रन् रक्षोगृहेषु वै ॥५-४-१२॥

स्वाध्याय निरतामः चैव यातु धानान् ददर्श सः ।
रावण स्तव सम्युक्तान् गर्जतः राक्षसान् अपि ॥५-४-१३॥

राज मार्गम् समावृत्य स्थितम् रक्षः बलम् महत् ।
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ॥५-४-१४॥

दीक्षितान् जटिलान् मुण्डान् गः अजिन अम्बर वाससः ।
दर्भ मुष्टि प्रहरणान् अग्नि कुण्ड आयुधामः तथा ॥५-४-१५॥

कूट मुद्गर पाणीमः च दण्ड आयुध धरान् अपि ।
एक अक्ष अनेक कर्णामः च चलल् लम्ब पयः धरान् ॥५-४-१६॥

करालान् भुग्न वक्त्रामः च विकटान् वामनामः तथा ।
धन्विनः खड्गिनः चैव शतघ्नी मुसल आयुधान् ॥५-४-१७॥

परिघ उत्तम हस्तामः च विचित्र कवच उज्ज्वलान् ।
नातिस्थूलान् नातिकृशान् नातिदीर्घ अतिह्रस्वकान् ॥५-४-१८॥

नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।
विरूपान् बहु रूपामः च सुरूपामः च सुवर्चसः ॥५-४-१९॥

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।
शक्ति वृक्ष आयुधामः चैव पट्टिश अशनि धारिणः ॥५-४-२०॥

क्षेपणी पाश हस्तामः च ददर्श स महा कपिः ।
स्रग्विणः त्व् अनुलिप्तामः च वर आभरण भूषितान् ॥५-४-२१॥

नानावेषसमायुक्तान्यथास्वैरगतान् बहून् ।
तीक्ष्ण शूल धरामः चैव वज्रिणः च महा बलान् ॥५-४-२२॥

शत साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः ।
रक्षोधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः ॥५-४-२३॥

स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् ।
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥५-४-२४॥

पुण्डरीकावतम्साभिः परिखाभिरलम्कृतम् ।
प्राकार आवृतम् अत्यन्तम् ददर्श स महा कपिः ॥५-४-२५॥

त्रिविष्टप निभम् दिव्यम् दिव्य नाद विनादितम् ।
वाजि हेषित सम्घुष्टम् नादितम् भूषणैः तथा ॥५-४-२६॥

रथैः यानैः विमानैः च तथा गज हयैः  शुभैः  ।
वारणैः च चतुः दन्तैः  श्वेत अभ्र निचय उपमैः  ॥५-४-२७॥

भूषितम् रुचिर द्वारम् मत्तैः च मृग पक्षिभिः ।
राक्षस अधिपतेः गुप्तम् आविवेश गृहम् कपिः ॥५-४-२८॥

सहेमजाम्बूनदचक्रवाLअम् ।
महार्ह मुक्तामणिभूषितान्तम् ।
परार्थ्यकालागुरुचन्दनाक्तं ।
स रावणान्तःपुरमाविवेश ॥५-४-२९॥

॥ इति रामायने सुन्दरकाण्डे चतुर्थः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥