ऋग्वेदः सूक्तं ४.३
← सूक्तं ४.२ | ऋग्वेदः - मण्डल ४ सूक्तं ४.३ वामदेवो गौतमः |
सूक्तं ४.४ → |
दे. अग्निः, १ रुद्रः। त्रिष्टुप् |
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥३॥
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥४॥
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥५॥
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥७॥
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥१०॥
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् ।
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥
सायणभाष्यम्
‘ आ वो राजानम्' इति षोडशर्चं तृतीयं सूक्तं वामदेवस्यार्ष त्रैष्टुभमाग्नेयम् । आ वः षोडश इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥१
आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।
अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥१
आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्यऽयजम् । रोदस्योः ।
अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्यऽरूपम् । अवसे । कृणुध्वम् ॥१
हे ऋत्विग्यजमानाः "अध्वरस्य यज्ञस्य "राजानम् अधिपतिं "होतारं देवानामाह्वातारं "रुद्रं रोरूयमाणं द्रवन्तं शत्रून् रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्रः' इति रुद्रात्मकं "रोदस्योः द्यावापृथिव्योः “सत्ययजं सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविषा देवान् यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानम् 'हिरण्यरूपं सुवर्णप्रभम् एवंविधम् “अग्निं “वः युष्माकम् “अवसे रक्षणाय “तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशात् “अचित्तात् । न विद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्षितसवेंन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात् “पुरा प्रागेव “आ “कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् ॥ रुद्रम् । रोदयतेः ‘रोदेर्णिलुक्च' ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । ‘स्तनिशुधिपुषिगमिमनिभ्यो मेरित्नुच् ' ( उ. सू.३. ३०९ ) इति इत्नुच्प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेशे एकादेशस्वरः । कृणुध्वम् । “कृवि हिंसाकरणयोः '। लोटि रूपम् ॥
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ः ।
अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥२
अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ।
अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥२
अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाऽइव । पत्ये । उशती । सुऽवासाः ।
अर्वाचीनः । परिऽवीतः । नि । सीद । इमाः । ऊं इति । ते । सुऽअपाक । प्रतीचीः ॥२
हे अग्ने ते त्वदर्थं "यम् उत्तरवेदिलक्षणं प्रदेश “वयं 'चकृम कुर्मः। "अयं योनिः तव स्थान भवति । तत्र दृष्टान्तः । “जायेव । यथा “पत्य “उशती पतिं कामयमाना सुवासाः शोभनवस्रोपेता जाया स्वात्मसमीपे तस्य स्थानं करोति तद्वत् । हे "स्वपाक स्वपस्क सुकर्मन्नने त्वं परिवीतः यष्टव्यदेवैस्तेजोभिर्वा परिवीतः अर्वाचीनः अस्मदभिमुखः सन् “नि “षीद उत्तरवेद्यामुपविश । तत्र स्थितस्य “ते तव “इमाः ज्वालाः स्तुतयः वा "प्रतीचीः वदभिमुखाः प्रवर्तन्ते । उ पूरण:४॥ चकृम । करोतेलिटि रूपम् । वाक्यभेदान्निघाताभावः । अर्वाचीनः ।' विभाषाब्वेदिकु०' इति खः । परिवीतः । ‘ व्येषु संवरणे ' । कर्मणि निष्ठा । यजादित्वात् संप्रसारणम् । “ गतिरनन्तरः' इति गतेः स्वरः ॥
आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।
दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥३
आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ ।
दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥३
आशृण्वते । अदृपिताय । मन्म । नृऽचक्षसे । सुऽमृळीकाय । वेधः ।
देवाय । शस्तिम् । अमृताय । शंस । ग्रावाऽइव । सोता । मधुऽसुत् । यम् । ईळे ॥३
“वेधः स्तोत्राणां कर्तर्हे स्तोतः “आशृण्वते स्तोत्राकर्णनपराय "अदृपिताय अदृप्तायाप्रमत्ताय “नृचक्षसे नृणां द्रष्ट्रे “सुमृळीकाय सुसुखाय "अमृताय मरणधर्मरहिताय “देवाय तस्मा अग्नये “मन्म स्तोत्रं “शस्तिं शस्त्रं च "शंस । “मधुषुत् मदकरस्य सोमस्य सोता । तत्र दृष्टान्तः । “ग्रावेव । यथा ग्रावा सोमस्य “सोता तद्वत् । सोमाभिषवं कुर्वाणो यजमानः “यम् अग्निम् “ईळे स्तौति । तस्मै शंसेति समन्वयः। यद्वा। मधुषुत् सोमसुद्यजमानोऽग्निमीळे स्तौति । तत्र दृष्टान्तः । यथा ग्रावा सोमस्य सोता शब्दं करोति । ‘ प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यः' (ऋ. सं. १०. ९४. १ ) इत्यत्र ग्राव्णां शब्दकर्तृत्वं श्रुतमिति ॥ आशृण्वते । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ईळे। ईड स्तुतौ ' । लटि ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । यद्वा । लिटि तशब्दस्य एशादेशे कृते रूपम् ॥
त्वं चि॑न्न॒ः शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।
क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥४
त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः ।
क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥४
त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋतऽचित् । सुऽआधीः ।
कदा । ते । उक्था । सधऽमाद्यानि । कदा । भवन्ति । सख्या । गृहे । ते ॥४
हे “अग्ने “त्वं “चित् त्वमेव शम्यै। शमीशब्दः कर्मनाम। “अस्याः शम्यै “नः अस्मत्संबन्धिनोऽस्य कर्मणो देवता भवसि । हे "ऋतचित् सत्यज्ञ हे अग्ने “स्वाधीः सुकर्मा सुध्यानो वा त्वम् “ऋतस्य “बोधि अस्मदीयं स्तोत्रं बुध्यस्व । “ते तव "सधमाद्यानि सहमदनिमित्तानि “उक्था शस्त्राणि “कदा कस्मिन् काले “भवन्ति भविष्यन्ति । तथास्मदीये “गृहे “ते त्वया सह "सख्या सख्यानि "कदा भविष्यन्ति ॥ सधमाद्यानि । मादयतेर्ण्यन्तस्य 'अचो यत्' इति यत् । ‘सध मादस्थयोः' इति सहस्य सधादेशः । भवन्ति । “ विभाषा कदाकर्ह्योः' (पा. सू. ३. ३. ५) इति भविष्यदर्थे लट् ॥
क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑ः ।
क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒ः कद॑र्य॒म्णे कद्भगा॑य ॥५
क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।
क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥५
कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा । दिवे । गर्हसे । कत् । नः । आगः ।
कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय ॥५
हे “अग्ने “त्वं “तत् अस्मदीयं पापं “वरुणाय “कथा “गर्हसे । केन हेतुना गर्हापूर्वमवेदयेः । “ह इति पूरणः । “दिवे द्युलोकाय द्योतमानाय सूर्याय वा “कथा कथं तत्पापमावेदयेः । “नः अस्माकम् “आगः तत्पापं “कत् किमस्ति । त्वत्परिचरणान्नास्तीत्यर्थः । तथा “मीळ्हुषे अभिमतफलसेक्त्रे “मित्राय “पृथिव्यै च कथा “ब्रवः कथमागो ब्रूयाः । “अर्यम्णे देवाय “भगाय एतन्नामकाय च देवाय “कत् कथं ब्रूयाः ॥ कथा । किंशब्दात् ‘था हेतौ च छन्दसि' इति थाप्रत्ययः । ‘ प्राग्दिशो विभक्तिः' इति विभक्तिसंज्ञायां : किमः कः ' ( पा. सू. ७. २. १०३ ) इति कादेशः । मीळ्हुषे । मिह सेचने ' । क्वसौ ' दाश्वान् साह्वान् मीढ्वांश्च ' इति निपातितः । ब्रवः । ‘ ब्रूञ् व्यक्तायां वाचि'। लेटि ‘लेटोऽडाटौ ' इत्यडागमः । पादादित्वादनिघातः । आगमस्यानुदात्तत्वात् धातुस्वरः ॥ ॥ २० ॥
कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।
परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रव॒ः कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥६
कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भ॒म्ऽये ।
परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥६
कत् । धिष्ण्यासु । वृधसानः । अग्ने । कत् । वाताय । प्रऽतवसे । शुभम्ऽये ।
परिऽज्मने । नासत्याय । क्षे । ब्रवः । कत् । अग्ने । रुद्राय । नृऽघ्ने ॥६
हे "अग्ने “धिष्ण्यासु आग्नीध्रीयादिधिष्ण्येषु “वृधसानः घृताद्याहुतिभिर्वर्धमानस्त्वं “कत् कथं ब्रूयाः । “प्रतवसे प्रकृष्टबलाय “शुभंये शुभस्य प्रापयित्रे “परिज्मने परितो गन्त्रे “नासत्याय सत्यस्य नेत्रे। यद्वा न विद्यतेऽसत्यं यस्य तस्मै । “वाताय वायवे । यद्वा नासत्याय इति वचनव्यत्ययः । नासत्याभ्यामश्विभ्याम् । “क्षे। क्षा इति पृथिवीमाह। क्षियन्ति निवसन्त्यस्यां प्राणिन इति । तस्यै क्षे पृथिव्यै च “कत् कथं ब्रूयाः । हे “अग्ने “नृघ्ने नृणां पापकृतां हन्त्रे "रुद्राय देवाय “कत् कथमागः "ब्रवः ब्रूयाः ॥ वृधसानः । वृधु वर्धने' । असानच्' इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' इति असानच्प्रत्ययः । कित्त्वादगुणः । चित्त्वादन्तोदात्तः । शुभंये । ' या प्रापणे ' । विच् । 'तत्पुरुषे कृति बहुलम् ' इति द्वितीयायाः अप्यलुक् । कृत्स्वरः । क्षे । ‘ क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते ' इत्यधिकरणे डः । ततष्टाप् । चतुर्थ्येकवचने ' आतो धातोः' इत्यत्र ‘ आतः' इति योगविभागात आकारलोपः। नृघ्ने । “हन हिंसागत्योः । ‘ बहुलं छन्दसि' इति क्विप् ॥
क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।
कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रव॒ः कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥७
क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे ।
कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥७
कथा । महे । पुष्टिम्ऽभराय । पूष्णे । कत् । रुद्राय । सुऽमखाय । हविःऽदे ।
कत् । विष्णवे । उरुऽगायाय । रेतः । ब्रवः । कत् । अग्ने । शरवे । बृहत्यै ॥७
हे “अग्ने “महे महते “पुष्टिंभराय पुष्टिधारकाय “पूष्णे एतन्नामकाय देवाय 'कथा केन हेतुना पापं ब्रवीथाः । “सुमखाय सुपूजनीयाय सुयज्ञाय वा “हविर्दे अग्निरूपेण देवानां हविर्दात्रे । यद्वा स्विष्टकृत्त्वाद्धविषो दात्रे । “रुद्राय “कत् कथं ब्रूयाः। तथा “उरुगायाय उरुभिर्बहुभिः गीयमानाय यद्वा प्रभूतकीर्तये “विष्णवे “रेतः क्षयहेतु पापं “कत् कथं वदेः । “शरवे । शृणाति पक्वा ओषधीरिति शरुः शरत् संवत्सरः । यद्वा । हिंसिका निर्ऋतिः । बृहत्यै महत्यै शरदे निर्ऋत्यै वा “कत् कथं पापं “ब्रवः ब्रूयाः ॥ पुष्टिंभराय। ' डुभृञ् धारणपोषणयोः ' संज्ञायां भृतॄवृजि ' इत्यादिना खच् । ‘ अरुर्द्विषदजन्तस्य मुम्' इति पूर्वपदस्य मुमागमः। चित्त्वादन्तोदात्तः । समासे कृत्स्वरः । हविर्दे । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' इति सुप उदात्तत्वम् । शरवे। ‘शॄ हिंसायाम्। 'शॄस्वृस्निहित्रप्यसि इत्यादिना उप्रत्ययः । ‘ नित् ' इत्यनुवृत्तेराद्युदात्तः ॥
क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।
प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥८
क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः ।
प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥८
कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः ।
प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातऽवेदः । चिकित्वान् ॥८
हे अग्ने “ऋताय गन्त्रे सत्यभूताय वा “मरुतां “शर्धाय बलभूताय गणाय “कथा केन हेतुना मदीयमागः प्रतिब्रूयाः । तेन “पृच्छ्यमानः सन् तस्मै “बृहते महते "सूरे सूर्याय “कथा कथं वदेः । तथा “अदितये देव्यै “तुराय त्वरितगमनाय वायवे च। अदितयेऽदीनाय तुराय वा । “प्रति “ब्रवः । मदीयमागः कथं प्रतिब्रूयाः । यस्मादेवं तस्मात् हे जातवेदः अग्ने “चिकित्वान् एतत्सर्वं जानानस्त्वं “दिवः दीप्तान् देवान् "साध साधय गच्छ । यद्वा । दिवो द्युलोकस्य यज्ञवहनलक्षणं कार्यं साध कुरु॥ सूरे । सर्वविधीनां छन्दसि विकल्पितत्वात् ङेर्यत्वाभावः । ‘ अतो गुणे ' इति पररूपत्वम् । पृच्छ्यमानः । ' प्रच्छ ज्ञीप्सायाम् । कर्मणि यक् । ग्रहिज्यादिना संप्रसारणम् । शानचो लसार्वधातुकानुदात्तत्वे यक्स्वरः । साध। ‘राध साध संसिद्धौ ' । अन्तर्भावितण्यर्थस्य लोटि व्यत्ययेन शप् ॥
ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।
कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥९
ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ ।
कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । पी॒पा॒य॒ ॥९
ऋतेन । ऋतम् । निऽयतम् । ईळे । आ । गोः । आमा । सचा । मधुऽमत् । पक्वम् । अग्ने ।
कृष्णा । सती । रुशता । धासिना । एषा । जामर्येण । पयसा । पीपाय ॥९
हे “अग्ने “ऋतेन सत्यभूतेन यज्ञेन “नियतम् अनुस्यूतम् “ऋतम् उदकं “गोः धेनोः पयः “आ “ईळे आयाचे । सांनाय्यादिहविरर्थं गव्यं पयस्त्वां याचे इत्यभिप्रायः । “आमा अपक्वा सा गौः “मधुमत् माधुर्योपेतं “पक्वं पयः "सचा सह धारयति । "कृष्णा कृष्णवर्णा “सती “एषा गौः “रुशता श्वेतेन “धासिना प्राणिनां धारकेण “जामर्येण । जायन्त इति जाः प्रजाः । तासाम् अमर्येण अमरणनिमित्तेन तेन “पयसा “पीपाय प्रजाः प्याययति । तवैष महिमा यद्रसान् परिणामयन्नेवं करोषि । पीपाय । प्यायतेर्लिटि ' लिड्यङोश्च ' इति पीभावः ॥
ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।
अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑ः ॥१०
ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।
अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥१०
ऋतेन । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ठ्येन ।
अस्पन्दमानः । अचरत् । वयःऽधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥१०
"वृषभः अभिमतफलवर्षकः “पुमान् श्रेष्ठः सः "अग्निः “ऋतेन सत्यभूतेन "पृष्ठ्येन धारकेण “पयसा "अक्तः सिक्तो भवति । “हि “ष्म “चित् त्रयः पूरणाः। “वयोधाः अन्नदः सोऽग्निः “अस्पन्दमानः एकत्रावस्थितः सन् एव “अचरत् सर्वत्र तेजसा चरति । तथा “वृषा अपां वर्षकः “पृश्निः सूर्यः “शुक्रं पयः “ऊधः अन्तरिक्षं मेघं वा “दुदुहे दोग्धि ॥ अक्तः । ‘ अञ्जू व्यक्तिम्रक्षणगतिषु'। कर्मणि निष्ठा । दुदुहे। द्विकर्मकोऽयं धातुः । ऊधः । ‘ अकथितं च ' इति कर्मसंज्ञा ॥ ॥ २१॥
ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्त॒ः समङ्गि॑रसो नवन्त॒ गोभि॑ः ।
शु॒नं नर॒ः परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥११
ऋ॒तेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोभिः॑ ।
शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥११
ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गोभिः ।
शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ ॥११
“अङ्गिरसः मेधातिथिप्रभृतयः "ऋतेन यज्ञेन हेतुना गवां निरोधकम् “अद्रिं पर्वतं “भिदन्तः विदारयन्तः सन्तः “व्यसन् व्यक्षिपन् । ततस्ते “गोभिः “सं “नवन्त समगच्छन्त । “नरः कर्मणां नेतारः ते “शुनं सुखेन “उषसं “परि “सदन् परितः प्राप्नुवन् । ततः “स्वः सूर्योऽपि “आविः “अभवत् । सर्वमेतत् “अग्नौ त्वयि "जाते मथनेन निष्पादिते सत्यभूदिति ॥ असन् । अस्यतेर्लुङि च्लेः ‘ अस्यतिवक्ति° ' इत्यादिना अङादेशः । ‘ अनित्यमागमशासनम् ' इति थुगभावः ॥
ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।
वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥१२
ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ ।
वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्युः॒ ॥१२
ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णःऽभिः । आपः । मधुमत्ऽभिः । अग्ने ।
वाजी । न । सर्गेषु । प्रऽस्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युः ॥१२
हे अग्ने “अमृताः अमरणहेतवः "अमृक्ताः रक्षःप्रभृतिभिरबाधिताः “मधुमद्भिः माधुर्योपेतैः “अर्णोभिः उदकैर्युक्ताः “देवीः देव्यो नद्यः “ऋतेन सत्येन यज्ञेन वा हेतुना "आपः आप्तव्याः सत्यः “सदमित् सदैव “स्रवितवे स्रवणाय “प्र “दधन्युः प्रगच्छन्ति । तत्र दृष्टान्तः । “वाजी "न । यथा “सर्गेषु प्रेरणेषु “प्रस्तुभानः प्रोत्साह्यमानः अश्वः प्रगच्छति तद्वत् ॥ आपः। ‘ आप्लृ व्याप्तौ । ‘ आप्नोतेः क्विप् ह्रस्वश्च ' इति कर्मणि क्विप् । 'अप्तृन्' इत्यादिना जसि दीर्घः । प्रस्तुभानः । स्तोभतिरर्चतिकर्मा ॥
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।
मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥१३
मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।
मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥१३
मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्रऽमिनतः । मा । आपेः ।
मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम ॥१३
हे “अग्ने “हुरः अस्माकं हिंसकस्य “कस्य कस्यचिदपि जन्तोः "यक्षं यज्ञं “सदमित् सदैव "मा “गाः कदाचिदपि मा गच्छ। “प्रमिनतः हिंसकस्य “वेशस्य प्रातिवेश्यस्य यज्ञं मा गाः । तथा “आपेः मद्व्यतिरिक्तस्य बन्धोर्यज्ञं “मा गच्छ। तथा “अनृजोः कुटिलचित्तस्य “भ्रातुः “ऋणम् ऋणवद्देयं हविः “मा “वेः मा कामयेथाः । तथा वयमपि “सख्युः मित्रस्य “रिपोः शत्रोः “दक्षं भोगसमर्थं धनं “मा “भुजेम मा भुञ्जीमहि । किंतु त्वया दत्तं धनं भुञ्जीमहि ॥ हुरः। 'हृ प्रसह्यकरणे'। क्विप् । ‘ बहुलं छन्दसि' इति उत्वम्। 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् । भुजेम । ‘भुज पालनाभ्यवहारयोः ' । आशीर्लिङि व्यत्ययेन परस्मैपदम् । लिङ्याशिष्यङ्' इति अङ्प्रत्ययः ॥
रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।
प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥१४
रक्ष॑ । नः॒ । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः ।
प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चि॒त् । व॒वृ॒धा॒नम् ॥१४
रक्ष । नः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सुऽमख । प्रीणानः ।
प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम् ॥१४
“सुमख सुयज्ञ सुधनेति वा हे “अग्ने “ररक्षाणः भृशमस्माकं रक्षिता “प्रीणानः हविर्भिः प्रीतः त्वं “तव "रक्षणेभिः त्वदीयैरवनैः “नः अस्मान् “रक्ष पालय । “प्रति “स्फुर अस्मान् प्रति दीप्यस्व। “वीळु दृढम् “अंहः पापं “वि “रुज विशेषेण नाशय। किंच “महि “चित् महदपि “वावृधानं वर्धमानं वृद्धं वा बाधकं “रक्षः “जहि ॥ नः । ‘ नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् । ररक्षाणः । रक्षेर्यङ्लुकि चानशि रूपम् । जहि । ‘हन हिंसागत्योः'। लोटि ‘हन्तेर्जः' इति जादेशः । आभाच्छास्त्रीयस्यासिद्धत्वात् ‘अतो हेः' इति लुक् न भवति ॥
ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।
उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥१५
ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।
उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥१५
एभिः । भव । सुऽमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मऽभिः । शूर । वाजान् ।
उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देवऽवाता । जरेत ॥१५
हे "अग्ने “एभिः मदीयैः “अर्कैः अर्चनीयैः शस्त्रैः "सुमनाः शोभनमनस्कः “भव । हे “शूर “इमान् अस्मदीयान् हविर्लक्षणान् “वाजान् अन्नानि “मन्मभिः स्तोत्रैः सह "स्पृश प्रतिगृहाण । “उत अपि च “अङ्गिरः । अङ्गति हवींषि प्राप्नोतीत्यङ्गिरा अग्निः । यद्वा । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ( ऐ. ब्रा. ३. ३४ ) इति ब्राह्मणम् । तेषामङ्गिरसां कारणत्वादग्नेरङ्गिरस्त्वम् । तत्कारणत्वे च मन्त्रः ‘ ये अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ' ( ऋ. सं. १०. ६२. ५) इति । तादृश हे अग्न “ब्रह्माणि मन्त्रान् “जुषस्व सेवस्व । “देववाता । देवार्थं गता देवान् स्तोतुं प्राप्तेत्यर्थः । तादृशी “शस्तिः शंसनं “ते त्वां “सं “जरेत संवर्धयतु ॥ स्पृश । ‘ स्पृश संस्पर्शने ' । तुदादिः । देववाता । ‘ वा गतिगन्धनयोः । ‘ गत्यर्थाकर्मक ' इति कर्तरि कः । देवः । पचाद्यजन्तः । क्ते च ' इति चतुर्थ्यन्तस्य पदस्य प्रकृतिस्वरः ॥
ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।
नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥१६
ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि ।
नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥१६
एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि ।
निऽवचना । कवये । काव्यानि । अशंसिषम् । मतिऽभिः । विप्रः । उक्थैः ॥१६
“वेधः विधातर्हे “अग्ने “विदुषे कर्मविषयज्ञानवते “कवये क्रान्तदर्शिने “तुभ्यं “नीथानि फलप्रापकाणि: “निण्या नेयार्थानि गूढानि “निवचना नितरां वक्तव्यानि “काव्यानि कविभिर्मेधाविभिः कृतानि “एता “विश्वा एतानि सर्वाणि "वचांसि वाक्यानि “मतिभिः मननीयैः स्तोत्रैः “उक्थैः शस्त्रैश्च सहितः “विप्रः प्राज्ञोऽहम् "अशंसिषम् अवोचम् । तानि सेवस्वेत्यर्थः ॥ ॥ २२ ॥
टिप्पणी
४.३.१ आ वो राजानं इति द्र. रौद्रम् साम
मण्डल ४ | |
---|---|
|