ऋग्वेदः सूक्तं ४.८
← सूक्तं ४.७ | ऋग्वेदः - मण्डल ४ सूक्तं ४.८ वामदेवो गौतमः |
सूक्तं ४.९ → |
दे. अग्निः। गायत्री |
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
यजिष्ठमृञ्जसे गिरा ॥१॥
स हि वेदा वसुधितिं महाँ आरोधनं दिवः ।
स देवाँ एह वक्षति ॥२॥
स वेद देव आनमं देवाँ ऋतायते दमे ।
दाति प्रियाणि चिद्वसु ॥३॥
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते ।
विद्वाँ आरोधनं दिवः ॥४॥
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः ।
य ईं पुष्यन्त इन्धते ॥५॥
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
ये अग्ना दधिरे दुवः ॥६॥
अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः ।
अस्मे वाजास ईरताम् ॥७॥
स विप्रश्चर्षणीनां शवसा मानुषाणाम् ।
अति क्षिप्रेव विध्यति ॥८॥
सायणभाष्यम्
‘दूतं वः' इत्यष्टर्चमष्टमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । तथा चानुक्रम्यते -- ‘दूतं वोऽष्टौ गायत्रं तु' इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च सूत्रितं - दूतं व इत्याग्निमारुतम् ' (आश्व. श्रौ. ८.९ ) इति । इदमादिके द्वे सूक्ते प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि विनियुक्ते । सूत्रितं च - ‘ अग्ने पावक दूतं व इति सूक्ते' (आश्व. श्रौ. ४. १३ ) इति ॥
दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यम् ।
यजि॑ष्ठमृञ्जसे गि॒रा ॥१
दू॒तम् । वः॒ । वि॒श्वऽवे॑दसम् । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ।
यजि॑ष्ठम् । ऋ॒ञ्ज॒से॒ । गि॒रा ॥१
दूतम् । वः । विश्वऽवेदसम् । हव्यऽवाहम् । अमर्त्यम् ।
यजिष्ठम् । ऋञ्जसे । गिरा ॥१
हे अग्ने “विश्ववेदसम् । विश्वं समस्तं वेदो धनं यस्यासौ विश्ववेदाः। तं सर्वविदं वा “हव्यवाहं देवेभ्यो हविषां वोढारम् “अमर्त्यम् अमरणधर्माणं “यजिष्ठम् अतिशयेन यष्टारं "दूतं देवानां “वः त्वां “गिरा स्तुतिरूपया वाचा “ऋञ्जसे यजमानोऽहं प्रसाधयामि । वर्धयामीत्यर्थः । ‘ ऋञ्जतिः प्रसाधनकर्मा ' इति यास्कः ॥
स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः ।
स दे॒वाँ एह व॑क्षति ॥२
सः । हि । वेद॑ । वसु॑ऽधितिम् । म॒हान् । आ॒ऽरोध॑नम् । दि॒वः ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥२
सः । हि । वेद । वसुऽधितिम् । महान् । आऽरोधनम् । दिवः ।
सः । देवान् । आ । इह । वक्षति ॥२
“स “हि प्रसिद्ध एवाग्निः “वसुधितिं यजमानाभीष्टफलरूपधनस्य दानं “वेद वेत्ति । “महान् प्रभूतोऽग्निः "दिवः "आरोधनम् आरोहणं देवानां स्थानं वेत्ति । “सः अग्निः “इह अस्मिन् यज्ञे “देवान् इन्द्रादीन् “आ “वक्षति आवहतु ॥ वहेर्धातोः ‘ लिङर्थे लेट्' इति लेट् । तस्य तिप् । ‘ सिब्बहुलं लेटि' इति सिप् । 'लेटोऽडाटौ ' इत्यडागमश्च । “हो ढः' इति ढत्वम् । ढत्वकत्वचत्वानि । तिङ्ङतिङः' इति निघातः ॥
स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ ।
दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥३
सः । वे॒द॒ । दे॒वः । आ॒ऽनम॑म् । दे॒वान् । ऋ॒त॒ऽय॒ते । दमे॑ ।
दाति॑ । प्रि॒याणि॑ । चि॒त् । वसु॑ ॥३
सः । वेद । देवः । आऽनमम् । देवान् । ऋतऽयते । दमे ।
दाति । प्रियाणि । चित् । वसु ॥३
“देवः द्योतमानः “सः अग्निः "आनमं यजमानादीनानमयितुं नमस्कारयितुं “देवान् इन्द्रादीन् “वेद क्रमेण वेत्ति । “दमे यज्ञगृहे “ऋतायते ऋतं यज्ञमिच्छते यजमानाय “प्रियाणि “चित् अभीष्टान्यपि "वसु वसूनि पश्वादीनि धनानि "दाति ददाति प्रयच्छति ॥
स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते ।
वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥४
सः । होता॑ । सः । इत् । ऊं॒ इति॑ । दू॒त्य॑म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ ।
वि॒द्वान् । आ॒ऽरोध॑नम् । दि॒वः ॥४
सः । होता । सः । इत् । ऊं इति । दूत्यम् । चिकित्वान् । अन्तः । ईयते ।
विद्वान् । आऽरोधनम् । दिवः ॥४
“सः अग्निः "होता देवानामाह्वाता भवति । "सेदु स एवाग्निः “दूत्यं देवानां दूतकर्म “चिकित्वान् जानन् "दिवः स्वर्गस्य “आरोधनम् आरोहणम् आरोहणार्हं देवानां स्थानं च “विद्वान् जानन् “अन्तः द्यावापृथिव्योर्मध्ये "ईयते गच्छति ॥ ईङ् गतौ'। ‘दिवादिभ्यः श्यन्'। तिङ्ङतिङः ' इति निघातः ॥
ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः ।
य ईं॒ पुष्य॑न्त इन्ध॒ते ॥५
ते । स्या॒म॒ । ये । अ॒ग्नये॑ । द॒दा॒शुः । ह॒व्यदा॑तिऽभिः ।
ये । ई॒म् । पुष्य॑न्तः । इ॒न्ध॒ते ॥५
ते । स्याम । ये । अग्नये । ददाशुः । हव्यदातिऽभिः ।
ये । ईम् । पुष्यन्तः । इन्धते ॥५
“ते तव यजमानाः “स्याम भूयाम । ते इत्युक्तम् । के इत्युच्यते । "ये यजमानाः “अग्नये “हव्यदातिभिः हविर्दानैः "ददाशुः प्रीतिं कुर्वन्ति । “ईम् एनमग्निं "पुष्यन्तः वर्धयन्तः "ये यजमानाः "इन्धते समिद्भिर्दीप्तियुक्तं कुर्वन्ति ॥
ते रा॒या ते सु॒वीर्यै॑ः सस॒वांसो॒ वि शृ॑ण्विरे ।
ये अ॒ग्ना द॑धि॒रे दुव॑ः ॥६
ते । रा॒या । ते । सु॒ऽवीर्यैः॑ । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ।
ये । अ॒ग्ना । द॒धि॒रे । दुवः॑ ॥६
ते । राया । ते । सुऽवीर्यैः । ससऽवांसः । वि । शृण्विरे ।
ये । अग्ना । दधिरे । दुवः ॥६
“ये यजमानाः “अग्ना अग्नौ ॥ ‘सुपां सुलुक्' इत्याकारः॥ “दुवः परिचर्यां “दधिरे धारयन्ति। कुर्वन्तीत्यर्थः। “ते “ससवांसः अग्निं संभजमानाः “राया पश्वादिलक्षणेन धनेन “वि “शृण्विरे विश्रूयन्ते प्रख्यायन्ते । “ते सुवीर्यैः शोभनवीर्योपेतैः पुत्रादिभिश्च विश्रूयन्ते ॥
अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृह॑ः ।
अ॒स्मे वाजा॑स ईरताम् ॥७
अ॒स्मे इति॑ । रायः॑ । दि॒वेऽदि॑वे । सम् । च॒र॒न्तु॒ । पु॒रु॒ऽस्पृहः॑ ।
अ॒स्मे इति॑ । वाजा॑सः । ई॒र॒ता॒म् ॥७
अस्मे इति । रायः । दिवेऽदिवे । सम् । चरन्तु । पुरुऽस्पृहः ।
अस्मे इति । वाजासः । ईरताम् ॥७
“पुरुस्पृहः ऋत्विगादिभिरभिलष्यमाणाः “रायः पश्वादिधनानि "अस्मे अस्मासु यजमानेषु “दिवेदिवे प्रतिदिनं “सं “चरन्तु प्रचरन्त्यो भवन्तु ॥ दिव्शब्दादुत्तरस्याः सप्तम्याः ‘सुपां सुलुक्' इत्यादिना शेआदेशः । ‘ ऊडिदम्' इत्यादिना च तस्योदात्तत्वम् । “ नित्यवीप्सयोः' इति द्विर्भावे सत्युत्तरभागस्य ' अनुदात्तं च ' इत्यनुदात्तत्वम् ॥ “वाजासः अन्नानि च "अस्मे अस्मान् “ईरतां यज्ञार्थं प्रेरयन्तु ॥
स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् ।
अति॑ क्षि॒प्रेव॑ विध्यति ॥८
सः । विप्रः॑ । च॒र्ष॒णी॒नाम् । शव॑सा । मानु॑षाणाम् ।
अति॑ । क्षि॒प्राऽइ॑व । वि॒ध्य॒ति॒ ॥८
सः । विप्रः । चर्षणीनाम् । शवसा । मानुषाणाम् ।
अति । क्षिप्राऽइव । विध्यति ॥८
"विप्रः मेधावी । विप्र इति मेधाविनाम ‘विप्रो धीरः' (नि. ३. १५. १ ) इति तन्नामसु पाठात् । “सः अग्निः “शवसा बलेन । शव इति वलनाम ‘पाजः शवः' (नि. २.९. ३) इति तन्नामसु पाठात् । “मानुषाणां मनुसंबन्धिनां “चर्षणीनां प्रजानां “क्षिप्रेव क्षेप्याप्येव विनाशयितुमर्हाणि । दुरितानीति शेषः । “अति “विध्यति अतिविध्यतु अतिशयेन नाशयतु ॥ ॥ ८ ॥
मण्डल ४ | |
---|---|
|