ऋग्वेदः सूक्तं ४.६
← सूक्तं ४.५ | ऋग्वेदः - मण्डल ४ सूक्तं ४.६ वामदेवो गौतमः |
सूक्तं ४.७ → |
दे. अग्निः। त्रिष्टुप् |
ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।
त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥१॥
अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः ।
ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥२॥
यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।
उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥३॥
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।
पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥४॥
परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा ।
द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥५॥
भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः ।
न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥६॥
न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।
अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥७॥
द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम् ॥८॥
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥९॥
ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥१०॥
अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।
होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥११॥
सायणभाष्यम्
‘ ऊर्ध्व ऊ षु णः' इत्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ ऊर्ध्व ऊ ष्वेकादश ' इत्यनुकान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदम् । सूत्रितं च --- उर्ध्व ऊ षु णः ससस्य यद्वियुतेति पञ्च ' ( आश्व. श्रौ. ४. १३ ) इति ।।
ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।
त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥१
ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने॑ । तिष्ठ॑ । दे॒वऽता॑ता । यजी॑यान् ।
त्वम् । हि । विश्व॑म् । अ॒भि । असि॑ । मन्म॑ । प्र । वे॒धसः॑ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥१
ऊर्ध्वः । ऊं इति । सु । नः । अध्वरस्य । होतः । अग्ने । तिष्ठ । देवऽताता । यजीयान् ।
त्वम् । हि । विश्वम् । अभि । असि । मन्म । प्र । वेधसः । चित् । तिरसि । मनीषाम् ॥१
हे “अध्वरस्य “होतः यागसंबन्धिनां देवानामाह्वातः । यद्वा । होतरित्यत्र प्रकृत्यंशोऽनुवादः। हे होमनिष्पादक “अग्ने “यजीयान् यष्टृतमस्त्वं "नः अस्माकम् “ऊर्ध्व “ऊ “षु “तिष्ठ उन्नत एव तिष्ठ। नित्यमुन्नतो भवेत्यर्थः । कुत्रेति तदुच्यते । "देवताता देवतातौ । देवास्तायन्ते विस्तीर्यन्ते अत्रेति देवतातिर्यज्ञः । तस्मिन् । “त्वं “हि त्वं खलु "विश्वं सर्वं “मन्म मननीयं शत्रूणां धनम् “अभ्यसि अभिभवसि । किंच “वेधसश्चित् । चित् पूजायाम् । स्तोतुर्यजमानादेः “मनीषां मतिं स्तुतिं “प्र “तिरसि प्रवर्धयसि । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥
अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥२
अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥२
अमूरः । होता । नि । असादि । विक्षु । अग्निः । मन्द्रः । विदथेषु । प्रऽचेताः ।
ऊर्ध्वम् । भानुम् । सविताऽइव । अश्रेत् । मेताऽइव । धूमम् । स्तभायत् । उप । द्याम् ॥२
"अमूरः अमूढः । प्रगल्भ इत्यर्थः । “होता होमनिष्पादकः “मन्द्रः मदनीयः मादयिता वा “प्रचेताः प्रकृष्टज्ञानः “अग्निः देवः “विक्षु ऋत्विग्रूपासु प्रजासु मध्ये “विदथेषु यागेषु निमित्तभूतेषु “न्यसादि नितरां स्थापितः । अथ तथाभूतोऽग्निः “भानुं दीप्तिं “सवितेव उदितः सूर्य इव “ऊर्ध्वम् “अश्रेत् ऊर्ध्वमुखमाश्रयति । किंच “मेतेव स्थूणेव । सा यथा स्वाधिष्ठितं वंशादिकं स्तभ्नाति तद्वदयमग्निः “धूमं स्वोत्थितं “द्याम् “उप द्युलोकस्योपरि “स्तभायत् स्तभ्नाति ॥
य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः ।
उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेक॑ः ॥३
य॒ता । सु॒ऽजू॒र्णिः । रा॒तिनी॑ । घृ॒ताची॑ । प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः ।
उत् । ऊं॒ इति॑ । स्वरुः॑ । न॒व॒ऽजाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सुऽधि॑तः । सु॒ऽमेकः॑ ॥३
यता । सुऽजूर्णिः । रातिनी । घृताची । प्रऽदक्षिणित् । देवऽतातिम् । उराणः ।
उत् । ऊं इति । स्वरुः । नवऽजाः । न । अक्रः । पश्वः । अनक्ति । सुऽधितः । सुऽमेकः ॥३
“यता संयता “सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा “घृताची । घृतमञ्चतीति घृताची जुहूः । “रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । “देवतातिं यज्ञं तथा “उराणः उरु कुर्वाणोऽध्वर्युरग्निर्वा “प्रदक्षिणित् प्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । “नवजाः नवजातस्तदानीमेवोत्पादितः “स्वरुः “न । यूपशकलवाची स्वरुरत्र यूपं लक्षयति । ' चषालवन्तः स्वरवः पृथिव्याम् ' ( ऋ. सं. ३. ८. १० ) इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये। यूपोऽपि “उदु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। उन्नतो भवति । किंच “अक्रः आक्रमिता “सुमेकः सुदीप्तः “सुधितः स्वधितिरित्यर्थः । सोऽपि “पश्वः पशून् “अनक्ति गच्छति । यद्वा । सुधितः स्वरुरेव उदु उत्कृष्टः पश्वः पशूननक्ति । ‘ स्वरुणा पशुमनक्ति' इति श्रुतेः ॥
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् ।
पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥४
स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् ।
परि॑ । अ॒ग्निः । प॒शु॒ऽपाः । न । होता॑ । त्रि॒ऽवि॒ष्टि । ए॒ति॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः ॥४
स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । ऊर्ध्वः । अध्वर्युः । जुजुषाणः । अस्थात् ।
परि । अग्निः । पशुऽपाः । न । होता । त्रिऽविष्टि । एति । प्रऽदिवः । उराणः ॥४
“बर्हिषि वेद्यां “स्तीर्णे आस्तृते सति “अग्नौ आहवनीयादिके "समिधाने सम्यगिध्यमाने च सति “अध्वर्युः अध्वरस्य नेता “जुजुषाणः देवान् प्रीणयन “ऊर्ध्वः "अस्थात् तिष्ठति । “होता होमनिष्पादकः “प्रदिवः। पुराणनामैतत् । पुरातनः “उराणः स्वल्पमपि हविर्देवयोग्यत्वसंपादनेन उरु कुर्वाणः । ‘ उराण उरु कुर्वाणः' इति निरुक्तम् । यद्वै देवैर्जोष्यते हविस्तद्गिरिमात्रं वर्धते । इति श्रुतेः अग्नेरुरुकरणमुचितम् । ईदृशः "अग्निः “पशुपा “न पशूनां पालक इव पशून् “त्रिविष्टि त्रिरावृत्य “परि “एति । त्रिर्हि पर्यग्निः क्रियते ॥
परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ।
द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥५
परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ।
द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥५
परि । त्मना । मितऽद्रुः । एति । होता । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ।
द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥५
उक्तमेवार्थं स्पष्टयति । अयं “होता होमनिष्पादकः “अग्निः “त्मना आत्मना स्वरूपेणैव “मितद्रुः परिमितगतिः सन् 'परि “एति परितो गच्छति पशुम् । कीदृशोऽयम् । “मन्द्रः मादनीयो मोदयिता वा "मधुवचाः मधुरवचनः “ऋतावा यज्ञवान्। “वाजिनः हविष्मतः “अस्य अग्नेः “शोकाः “न दीप्तयोऽपि । नशब्दोऽप्यर्थे । “द्रवन्ति गच्छन्ति परितः । यद्वा नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । “यत् यस्मात् अयम् “अभ्राट् भ्राजते तस्मात् “विश्वा “भुवना सर्वाणि भूतजातानि “भयन्ते भीतानि भवन्ति ॥ ॥ ४ ॥
भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारु॑ः ।
न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धु॑ः ॥६
भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । स॒म्ऽदृक् । घो॒रस्य॑ । स॒तः । विषु॑णस्य । चारुः॑ ।
न । यत् । ते॒ । शो॒चिः । तम॑सा । वर॑न्त । न । ध्व॒स्मानः॑ । त॒न्वि॑ । रेपः॑ । आ । धु॒रिति॑ धुः ॥६
भद्रा । ते । अग्ने । सुऽअनीक । सम्ऽदृक् । घोरस्य । सतः । विषुणस्य । चारुः ।
न । यत् । ते । शोचिः । तमसा । वरन्त । न । ध्वस्मानः । तन्वि । रेपः । आ । धुरिति धुः ॥६
हे “स्वनीक शोभनज्वाल “अग्ने “घोरस्य भीतिजनकस्यापि "सतः “विषुणस्य विष्वक् सर्वतो व्याप्तस्य “ते तव “चारुः रमणीया “भद्रा स्तुत्या कल्याणी वा मूर्तिः “संदृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः। “यत् यस्मात् “ते "शोचिः दीप्तिं “तमसा अन्धकारेण “न “वरन्त न वारयन्ति निशाः ॥ यस्माच्च “ध्वस्मानः ध्वंसका राक्षसादयः ते "तन्वि तव शरीरे "रेपः पापं ध्वंसनादिरूपं “न “आ “धुः न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥
न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।
अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥७
न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ ।
अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥७
न । यस्य । सातुः । जनितोः । अवारि । न । मातरापितरा । नु । चित् । इष्टौ ।
अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥७
"जनितोः जनयितुर्वृष्ट्युत्पादकस्य “यस्य वैश्वानरस्य "सातुः सनिः पश्वादिलक्षणं दानं दीप्तिर्वा “न “अवारि केनापि न वार्यते । किंच “मातापितरा मातापितरौ द्यावापृथिव्यौ यस्य “इष्टौ प्रेषणे “नू "चित् क्षिप्रमेव “न प्रभवतः । “अध अपि च "मित्रो °न सखेव “सुधितः सुतृप्तः “पावकः शोधकः “अग्निः “मानुषीषु मनोः संबन्धिनीषु "विक्षु प्रजासु "दीदाय दीप्यते ॥ ' दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वम् ॥
द्विर्यं पञ्च॒ जीज॑नन्सं॒वसा॑ना॒ः स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।
उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दन्तं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मम् ॥८
द्विः । यम् । पञ्च॑ । जीज॑नन् । स॒म्ऽवसा॑नाः । स्वसा॑रः । अ॒ग्निम् । मानु॑षीषु । वि॒क्षु ।
उ॒षः॒ऽबुध॑म् । अ॒थ॒र्यः॑ । न । दन्त॑म् । शु॒क्रम् । सु॒ऽआस॑म् । प॒र॒शुम् । न । ति॒ग्मम् ॥८
द्विः । यम् । पञ्च । जीजनन् । सम्ऽवसानाः । स्वसारः । अग्निम् । मानुषीषु । विक्षु ।
उषःऽबुधम् । अथर्यः । न । दन्तम् । शुक्रम् । सुऽआसम् । परशुम् । न । तिग्मम् ॥८
“मानुषीषु मनोः संबन्धिनीषु “विक्षु प्रजासु "संवसानाः संगच्छमानाः “द्विः “पञ्च दश “स्वसारः अङ्गुलयः “यम् “अग्निं “जीजनन् मथनेन उदपादयन् ॥ ‘ जनी प्रादुर्भावे'। लुङि छान्दसत्वादडभावः ॥ कीदृश्य अङ्गुलयः । “अथर्यो "न स्त्रिय इव । कीदृशमग्निम् । “उषर्बुधम् उषसि बुध्यमानं "दन्तम् अदन्तं हविषां भक्षकं “शुक्रं रश्मिभिर्दीप्यमानं “स्वासं शोभनास्यं “तिग्मं तीक्ष्णं “परशुं “न परशुमिव रक्षसां हन्तारमिति शेषः ॥
तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्च॒ः स्वञ्च॑ः ।
अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥९
तव॑ । त्ये । अ॒ग्ने॒ । ह॒रितः॑ । घृ॒त॒ऽस्नाः । रोहि॑तासः । ऋ॒जु॒ऽअञ्चः॑ । सु॒ऽअञ्चः॑ ।
अ॒रु॒षासः॑ । वृष॑णः । ऋ॒जु॒ऽमु॒ष्काः । आ । दे॒वऽता॑तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥९
तव । त्ये । अग्ने । हरितः । घृतऽस्नाः । रोहितासः । ऋजुऽअञ्चः । सुऽअञ्चः ।
अरुषासः । वृषणः । ऋजुऽमुष्काः । आ । देवऽतातिम् । अह्वन्त । दस्माः ॥९
हे “अग्ने “त्ये ते प्रसिद्धाः “तव "हरितः त्वत्संबन्धिनोऽश्वाः "देवतातिम् अस्मदीयं यागं प्रति “आ “अह्वन्त ऋत्विग्भिराहूयन्ते ॥ लुङि : लिपिसिचिह्वश्च ' इत्यादेशः ॥ कीदृशाः। “घृतस्नाः घृतस्नुवः बलातिशयान्नासापुटादिस्थानेभ्य उदकं क्षरन्तः “रोहितासः रोहिता लोहितवर्णाः “ऋज्वञ्चः । ऋजु अकुटिलमञ्चन्ति गच्छन्तीत्यृज्वञ्चः । “स्वञ्चः सुष्ठु गच्छन्तः "अरुषासः आरोचमानाः “वृषणः युवानो वर्षितारः वा ॥ ‘ वा षपूर्वस्य निगमे ' इति विकल्पेन दीर्घविधानादत्र दीर्घाभावः ॥ “ऋजुमुष्काः ऋजुवृषणाः “दस्माः दर्शनीयाः ।।
ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति ।
श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्ध॑ः ॥१०
ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति ।
श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒नसः॑ । मारु॑तम् । न । शर्धः॑ ॥१०
ये । ह । त्ये । ते । सहमानाः । अयासः । त्वेषासः । अग्ने । अर्चयः । चरन्ति ।
श्येनासः । न । दुवसनासः । अर्थम् । तुविऽस्वनसः । मारुतम् । न । शर्धः ॥१०
हे “अग्ने “ये “ह खलु “त्ये ते प्रसिद्धाः “सहमानाः शत्रूनभिभवन्तः “अयासः गमनशीलाः “त्वेषासः दीप्ताः "दुवसनासः परिचरणीयाः “ते त्वदीयाः “अर्चयः रश्मयः “श्येनासो “न अश्वा इव “अर्थं गन्तव्यं “चरन्ति गच्छन्ति । कीदृशाः। “मारुतं "शर्धः “न मरुत्संबन्धी गण इव “तुविष्वणसः तुविस्वना अधिकध्वनयो भवन्ति ॥
अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः ।
होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिज॒ः शंस॑मा॒योः ॥११
अका॑रि । ब्रह्म॑ । स॒म्ऽइ॒धा॒न॒ । तुभ्य॑म् । शंसा॑ति । उ॒क्थम् । यज॑ते । वि । ऊं॒ इति॑ । धाः॒ ।
होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । न॒म॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥११
अकारि । ब्रह्म । सम्ऽइधान । तुभ्यम् । शंसाति । उक्थम् । यजते । वि । ऊं इति । धाः ।
होतारम् । अग्निम् । मनुषः । नि । सेदुः । नमस्यन्तः । उशिजः । शंसम् । आयोः ॥११
हे “समिधान समिध्यमानाग्ने "तुभ्यं त्वदर्थं “ब्रह्म स्तोत्रम् “अकारि अस्माभिः कृतम् । होता “उक्थं शस्त्ररूपं स्तोत्रं “शंसाति शंसति ॥ ‘ शंसु स्तुतौ ' । 'लेटोऽडाटौ ' इत्याडागमः ॥ त्वां यजमानः “यजते । अतः कारणात् अस्मभ्यं धनं “वि “धाः विधेहि ॥ दधातेश्छान्दसे लुङि ‘ बहुलं छन्दसि ' इत्यडभावः ॥ “उ इति पादपूरणः । किंच “आयोः मनुष्यस्य "शंसं शंसनीयं “होतारं देवानामाह्वातारम् “अग्निं त्वां “नमस्यन्तः पूजयन्तः “उशिजः पश्वादिलक्षणं धनं कामयमानाः "मनुषः मनुष्या ऋत्विजः “नि “षेदुः उपाविशन् । सेवन्ते इत्यर्थः ॥ ॥ ५ ॥
टिप्पणी
४.६.७ न यस्य सातुर्जनितोरवारि इति
पुराणेषु पावकः अवभृथाग्निरूपेण, वरुणरूपेण व्याख्यातमस्ति, न मित्ररूपेण।
मण्डल ४ | |
---|---|
|