ऋग्वेदः सूक्तं ४.२९
← सूक्तं ४.२८ | ऋग्वेदः - मण्डल ४ सूक्तं ४.२९ वामदेवो गौतमः |
सूक्तं ४.३० → |
दे. इन्द्रः। त्रिष्टुप् |
आ न स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः ।
तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥१॥
आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् ।
स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥२॥
श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै ।
उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥३॥
अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् ।
उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः ॥४॥
त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः ।
भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥५॥
सायणभाष्यम्
‘ आ नः स्तुतः' इति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम्। आ नः स्तुतः इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इंद्र॑ या॒हि हरि॑भिर्मंदसा॒नः ।
ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्यां॑गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥१
आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः ।
ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि॑ । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥१
आ । नः । स्तुतः । उप । वाजेभिः । ऊती । इन्द्र । याहि । हरिऽभिः । मन्दसानः ।
तिरः । चित् । अर्यः । सवना । पुरूणि । आङ्गूषेभिः । गृणानः । सत्यऽराधाः ॥१
हे “इन्द्र “स्तुतः त्वं "वाजेभिः वाजैरन्नैः सह "तिरश्चित् प्राप्तानि । ' तिरः सत इति प्राप्तस्य' ( निरु. ३. २० ) इति यास्कः । “पुरूणि पूर्णानि "सवना सवनानि “नः अस्मदीयान् यज्ञान “उप प्रति “ऊती ऊत्यै नोऽस्माकं रक्षणार्थं "हरिभिः अश्वैः “आ “याहि आगच्छ । कीदृशः । "मन्दसानः मोदमानः "अर्यः स्वामी “आङ्गूषेभिः स्तोत्रैः "गृणानः स्तूयमानः "सत्यराधाः सत्यधनः ॥
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञं ।
स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥२
आ । हि । स्म॒ । याति॑ । नर्यः॑ । चि॒कि॒त्वान् । हू॒यमा॑नः । सो॒तृऽभिः॑ । उप॑ । य॒ज्ञम् ।
सु॒ऽअश्वः॑ । यः । अभी॑रुः । मन्य॑मानः । सु॒ऽस्वा॒नेभिः॑ । मद॑ति । सम् । ह॒ । वी॒रैः ॥२
आ । हि । स्म । याति । नर्यः । चिकित्वान् । हूयमानः । सोतृऽभिः । उप । यज्ञम् ।
सुऽअश्वः । यः । अभीरुः । मन्यमानः । सुऽस्वानेभिः । मदति । सम् । ह । वीरैः ॥२
“नर्यः नृभ्यो हितः "चिकित्वान् सर्वं जानन् "सोतृभिः सोममभिषुण्वद्भिर्ऋत्विग्भिः "हूयमानः आहूयमान इन्द्रोऽस्मदीयं "यज्ञम् "उप प्रति "आ "याति आगच्छतु । “हि "स्म इति पूरणौ । “स्वश्वः शोभनाश्वोपेतः "अभीरुः निर्भयशीलः सुस्वानेभिः सुन्वद्भिर्यजमानैः "मन्यमानः स्तूयमानः "यः इन्द्रः "वीरैः शूरैर्मरुद्भिः सह "सं "मदति “ह सह माद्यत्येव। स इन्द्र आगच्छत्विति पूर्वेण संबन्धः ॥
श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मंद॒यध्यै॑ ।
उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इंद्रः॑ सुती॒र्थाभ॑यं च ॥३
श्र॒वय॑ । इत् । अ॒स्य॒ । कर्णा॑ । वा॒ज॒यध्यै॑ । जुष्टा॑म् । अनु॑ । प्र । दिश॑म् । म॒न्द॒यध्यै॑ ।
उ॒त्ऽव॒वृ॒षा॒णः । राध॑से । तुवि॑ष्मान् । कर॑त् । नः॒ । इन्द्रः॑ । सु॒ऽती॒र्था । अभ॑यम् । च॒ ॥३
श्रवय । इत् । अस्य । कर्णा । वाजयध्यै । जुष्टाम् । अनु । प्र । दिशम् । मन्दयध्यै ।
उत्ऽववृषाणः । राधसे । तुविष्मान् । करत् । नः । इन्द्रः । सुऽतीर्था । अभयम् । च ॥३
हे स्तोतः त्वम् "अस्य इन्द्रस्य संबन्धिनौ "कर्णा कर्णौ "वाजयध्यै इन्द्रं बलिनं कर्तुं "जुष्टामनु "दिशं सेवितासु सर्वासु दिक्षु “प्र “मन्दयध्यै प्रकर्षेणेन्द्रं मादयितुं च “श्रवय स्तोत्राणि श्रावय । "इत् इति पूरणः । “उद्ववृषाणः सोमेनोत्सिच्यमानः “तुविष्मान् बलवान् "इन्द्रः "नः अस्माकं “राधसे धनार्थं "सुतीर्था शोभनानि तीर्थानि "अभयं "च भयराहित्यं च "करत् करोतु ॥
अच्छा॒ यो गंता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णंतं॑ ।
उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥४
अच्छ॑ । यः । गन्ता॑ । नाध॑मानम् । ऊ॒ती । इ॒त्था । विप्र॑म् । हव॑मानम् । गृ॒णन्त॑म् ।
उप॑ । त्मनि॑ । दधा॑नः । धु॒रि । आ॒शून् । स॒हस्रा॑णि । श॒तानि॑ । वज्र॑ऽबाहुः ॥४
अच्छ । यः । गन्ता । नाधमानम् । ऊती । इत्था । विप्रम् । हवमानम् । गृणन्तम् ।
उप । त्मनि । दधानः । धुरि । आशून् । सहस्राणि । शतानि । वज्रऽबाहुः ॥४
“वज्रबाहुः वज्रहस्तः "यः इन्द्रः “त्मनि आत्मनि स्थितानात्मवश्यान् "सहस्राणि सहस्रसंख्याकान् "शतानि शतसंख्याकान् "आशून् शीघ्रगामिनोऽश्वान् “धुरि रथवहनप्रदेशे "उप “दधानः संस्थापयन् “ऊती रक्षणार्थं "नाधमानं याचमानं "विप्रं मेधाविनं "हवमानम् आह्वयन्तम् "इत्था इत्थमनेन प्रकारेण "गृणन्तं स्तुवन्तं यजमानम् "अच्छ आभिमुख्येन "गन्ता गमनशीलः । भवतीति शेषः । स इन्द्रः सुतीर्थानि अभयं च करोत्विति पूर्वेण संबन्धः ॥
त्वोता॑सो मघवन्निंद्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णंतः॑ ।
भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥५
त्वाऽऊ॑तासः । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । विप्राः॑ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः॑ । गृ॒णन्तः॑ ।
भे॒जा॒नासः॑ । बृ॒हत्ऽदि॑वस्य । रा॒यः । आ॒ऽका॒य्य॑स्य । दा॒वने॑ । पु॒रु॒ऽक्षोः ॥५
त्वाऽऊतासः । मघऽवन् । इन्द्र । विप्राः । वयम् । ते । स्याम । सूरयः । गृणन्तः ।
भेजानासः । बृहत्ऽदिवस्य । रायः । आऽकाय्यस्य । दावने । पुरुऽक्षोः ॥५
हे "मघवन् धनवन् “इन्द्र “त्वोतासः त्वया रक्षिताः "विप्राः मेधाविनः “गृणन्तः त्वां स्तुवन्तः “सूरयः स्तोतारः "वयं बृहद्दिवस्य महद्दीप्तेः आकाय्यस्य आ समन्तात् स्तुत्यस्य "पुरुक्षोः बह्वन्नस्य बहुकीर्तेर्वा "ते त्वदीयस्य "रायः धनस्य “दावने दाने निमित्ते सति “भेजानासः त्वां भजमानाः “स्याम भवेम ॥ ॥ १८ ॥
मण्डल ४ | |
---|---|
|