← सूक्तं ६.४ ऋग्वेदः - मण्डल ६
सूक्तं ६.५
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६ →
दे. अग्निः। त्रिष्टुप्।


हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् ।
य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥१॥
त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।
क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके ॥२॥
त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् ।
अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥३॥
यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् ।
तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥४॥
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् ।
स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥५॥
स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् ।
यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥६॥
अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् ।
अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥७॥


सायणभाष्यम्

‘ हुवे वः' इति सप्तर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रम्यते--‘हुवे वः सप्त' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठं ।

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥१

हु॒वे । वः॒ । सू॒नुम् । सह॑सः । युवा॑नम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । यवि॑ष्ठम् ।

यः । इन्व॑ति । द्रवि॑णानि । प्रऽचे॑ताः । वि॒श्वऽवा॑राणि । पु॒रु॒ऽवारः॑ । अ॒ध्रुक् ॥१

हुवे । वः । सूनुम् । सहसः । युवानम् । अद्रोघऽवाचम् । मतिऽभिः । यविष्ठम् ।

यः । इन्वति । द्रविणानि । प्रऽचेताः । विश्वऽवाराणि । पुरुऽवारः । अध्रुक् ॥१

हे अग्ने “यः । व्यत्ययेन बहुवचनन्। त्वां "मतिभिः मननीयैः स्तोत्रैः "हुवे आह्वयामि । कीदृशम् । "सहसः बलस्य "सूनुं पुत्रम् । अग्निर्हि बलेन मथ्यमानो जायते । "युवानं नित्यतरुणं फलस्य मिश्रयितारं वा “अद्रोघवाचम् । अर्दोग्धव्या प्रशस्ता स्तुतिरूपा वाक् यस्मिन् प्रयुज्यते तादृशम् । “यविष्ठम् अतिशयेन युवानम् । प्रचेताः प्रकृष्टज्ञानः "पुरुवारः पुरुभिर्बहुभिर्वरणीयः संभजनीयः "अध्रुक् अद्रोग्धा यजमानानाम् एवंभूतः "यः अग्निः "विश्ववाराणि सर्वैर्वरणीयानि संभजनीयानि प्रशस्यानि "द्रविणानि धनानि "इन्वति प्रेरयति । स्तोतृभ्यो ददातीति यावत् । तं त्वां हुव इति पूर्वत्र संबन्धः ॥


त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।

क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥२

त्वे इति॑ । वसू॑नि । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दो॒षा । वस्तोः॑ । आ । ई॒रि॒रे॒ । य॒ज्ञिया॑सः ।

क्षाम॑ऽइव । विश्वा॑ । भुव॑नानि । यस्मि॑न् । सम् । सौभ॑गानि । द॒धि॒रे । पा॒व॒के ॥२

त्वे इति । वसूनि । पुरुऽअनीक । होतः । दोषा । वस्तोः । आ । ईरिरे । यज्ञियासः ।

क्षामऽइव । विश्वा । भुवनानि । यस्मिन् । सम् । सौभगानि । दधिरे । पावके ॥२

हे "पुर्वणीक बहुज्वाल "होतः देवानामाह्वातरग्ने “त्वे त्वयि "दोषा रात्रौ “वस्तोः अहनि च “यज्ञियासः यज्ञार्हा यजमाना: “वसूनि हविर्लक्षणानि धनानि “एरिरे आभिमुख्येन’ प्रेरयन्ति प्रापयन्ति । जुह्वतीत्यर्थः । "विश्वा विश्वानि सर्वाणि "भुवनानि भूतजातानि “क्षामेव क्षमायां भूम्यामिव "यस्मिन् “पावके शोधकेऽग्नौ "सौभगानि धनानि "सं "दधिरे देवाः सम्यक् निहितवन्तः। ‘अग्नौ वामं वसु सं न्यदधत' (तै. सं. १. ५, १. १) इति ब्राह्मणम् । तस्मिंस्त्वयीति पूर्वत्र योज्यम् ॥


त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णां ।

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥३

त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒दः॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् ।

अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥३

त्वम् । विक्षु । प्रऽदिवः । सीदः । आसु । क्रत्वा । रथीः । अभवः । वार्याणाम् ।

अतः । इनोषि । विधते । चिकित्वः । वि । आनुषक् । जातऽवेदः । वसूनि ॥३

हे अग्ने “त्वं "प्रदिवः । पुराणनामैतत् । पुरातनकालीनासु "विक्षु प्रजासु "आसु परिदृश्यमानासु च “सीदः सीदसि । वैश्वानरात्मना वर्तसे। तथा “क्रत्वा आत्मीयेन कर्मणा "वार्याणां वरणीयानां धनानां "रथीरभवः । रंहयिता' यजमानेभ्यः प्रापयिताभूः । अतः कारणात् हे “चिकित्वः विद्वन् "जातवेदः जातानां प्राणिनां वेदितरग्ने “विधते परिचरते यजमानाय “वसूनि धनानि “आनुषक् अनुषक्तं सततं यथा भवति तथा “वि “इनोषि विविधं प्रेरयसि ॥


यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अंत॑रो मित्रमहो वनु॒ष्यात् ।

तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥४

यः । नः॒ । सनु॑त्यः । अ॒भि॒ऽदास॑त् । अ॒ग्ने॒ । यः । अन्त॑रः । मि॒त्र॒ऽम॒हः॒ । व॒नु॒ष्यात् ।

तम् । अ॒जरे॑भिः । वृष॑ऽभिः । तव॑ । स्वैः । तप॑ । त॒पि॒ष्ठ॒ । तप॑सा । तप॑स्वान् ॥४

यः । नः । सनुत्यः । अभिऽदासत् । अग्ने । यः । अन्तरः । मित्रऽमहः । वनुष्यात् ।

तम् । अजरेभिः । वृषऽभिः । तव । स्वैः । तप । तपिष्ठ । तपसा । तपस्वान् ॥४

हे "अग्ने "यः शत्रुः "सनुत्यः । सनुतरित्यन्तर्हितनाम । अन्तर्हिते देशे वर्तमानः सन् "नः अस्मान् अभिदासत् उपक्षयति बाधते । "यः च "अन्तर: अभ्यन्तरवर्ती सन् हे "मित्रमहः अनुकूलदीप्ते मित्राणां महयितर्वाग्ने “वनुष्यात् हिंस्यात् “तम् उभयविधं हे “तपिष्ठ तप्तृतमाग्ने “तपसा तेजसा “तपस्वान् तेजस्वी त्वम् "अजरेभिः जरारहितै: "वृषभि: वर्षितृभिः वृष्टिहेतुभूतैः “तव "स्वैः स्वभूतैः असाधारणैस्तेजोभिः "तप दह ॥


यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा॑शत् ।

स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥५

यः । ते॒ । य॒ज्ञेन॑ । स॒म्ऽइधा॑ । यः । उ॒क्थैः । अ॒र्केभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ददा॑शत् ।

सः । मर्त्ये॑षु । अ॒मृ॒त॒ । प्रऽचे॑ताः । रा॒या । द्यु॒म्नेन॑ । श्रव॑सा । वि । भा॒ति॒ ॥५

यः । ते । यज्ञेन । सम्ऽइधा । यः । उक्थैः । अर्केभिः । सूनो इति । सहसः । ददाशत् ।

सः । मर्त्येषु । अमृत । प्रऽचेताः । राया । द्युम्नेन । श्रवसा । वि । भाति ॥५

हे "सहसः "सूनो बलस्य पुत्राग्ने "ते त्वां "यः यजमानः "यज्ञेन यागेन “ददाशत् परिचरति । “यः च "समिधा समिन्धनसाधनेनेध्मेन । यश्च “उक्थैः शस्त्रैः "अर्केभिः अर्चनीयैः स्तोत्रैश्च परिचरति हे "अमृत मरणधर्मरहिताग्ने "सः यजमानः मर्त्येषु मनुष्येषु "प्रचेताः प्रकृष्टज्ञानः सन् “राया धनेन “द्युम्नेन द्योतमानेन “श्रवसा श्रवणीयेनान्नेन यशसा वा “वि “भाति विशेषेण प्रकाशते ॥


स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् ।

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥६

सः । तत् । कृ॒धि॒ । इ॒षि॒तः । तूय॑म् । अ॒ग्ने॒ । स्पृधः॑ । बा॒ध॒स्व॒ । सह॑सा । सह॑स्वान् ।

यत् । श॒स्यसे॑ । द्युऽभिः॑ । अ॒क्तः । वचः॑ऽभिः । तत् । जु॒ष॒स्व॒ । ज॒रि॒तुः । घोषि॑ । मन्म॑ ॥६

सः । तत् । कृधि । इषितः । तूयम् । अग्ने । स्पृधः । बाधस्व । सहसा । सहस्वान् ।

यत् । शस्यसे । द्युऽभिः । अक्तः । वचःऽभिः । तत् । जुषस्व । जरितुः । घोषि । मन्म ॥६

हे "अग्ने "सः त्वम् "इषितः प्रेषितः सन् “तूयं क्षिप्रं “तत् "कृधि कुरु । किं तदित्यत आह । "सहस्वान् बलवांस्त्वं "स्पृधः स्पर्धमानान् "सहसा बलेन परेषामभिभवनसमर्थेन तेजसा वा “बाधस्व विनाशय । “द्युभिः द्योतमानैस्तेजोभिः "अक्तः संसिक्तस्त्वं "वचोभिः स्तुतिरूपैर्वाक्यैः “यच्छस्यसे यत्स्तूयसे । त्वामुद्दिश्य यत् स्तोत्रं स्तोतृभिः क्रियत इत्यर्थः । "तत् "मन्म मननीयं “घोषि घोषणीयं "जरितुः स्तोत्रं "जुषस्व सेवस्व ।।


अग्नये कामाय पुरोडाशमष्टाकपालमित्यस्य ‘अश्याम' इत्येषा याज्या । सूत्रितं च---‘अश्याम तं काममग्ने तवोतीति कामाय' ( आश्व. श्रौ. २. १० ) इति ।।

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीरं॑ ।

अ॒श्याम॒ वाज॑म॒भि वा॒जयं॑तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥७

अ॒श्याम॑ । तम् । काम॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒ती । अ॒श्याम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर॑म् ।

अ॒श्याम॑ । वाज॑म् । अ॒भि । वा॒जय॑न्तः । अ॒श्याम॑ । द्यु॒म्नम् । अ॒ज॒र॒ । अ॒जर॑म् । ते॒ ॥७

अश्याम । तम् । कामम् । अग्ने । तव । ऊती । अश्याम । रयिम् । रयिऽवः । सुऽवीरम् ।

अश्याम । वाजम् । अभि । वाजयन्तः । अश्याम । द्युम्नम् । अजर । अजरम् । ते ॥७

हे "अग्ने “तव संबन्धिन्या "ऊती ऊत्या रक्षया “तं "कामम् "अश्याम प्राप्नुयाम । तमेव कामं विवृणोति । हे "रयिवः धनवन्नग्ने "सुवीरं शोभनपुत्रादियुक्तं "रयिं धनम् "अश्याम प्राप्नुयाम । तथा “वाजयन्तः वाजमन्नमात्मन इच्छन्तो वयं "वाजं त्वया दत्तमन्नम् "अभि आभिमुख्येन “अश्याम प्राप्नुयाम । हे "अजर जरारहिताग्ने "ते त्वदीयम् "अजरं जरारहितं "द्युम्नं द्योतमानं यशश्च “अश्याम प्राप्नुयाम ॥ ॥ ७ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५&oldid=275295" इत्यस्माद् प्रतिप्राप्तम्