ऋग्वेदः सूक्तं ६.६

(ऋग्वेद: सूक्तं ६.६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.५ ऋग्वेदः - मण्डल ६
सूक्तं ६.६
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७ →
दे. अग्निः। त्रिष्टुप्।


प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।
वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥१॥
स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः ।
यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥२॥
वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति ।
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥३॥
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः ।
अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥४॥
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।
शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥५॥
आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ ।
स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व ॥६॥
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥७॥


सायणभाष्यम्

‘प्र नव्यसा' इति सप्तर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम्। ‘प्र नव्यसा' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः ।

वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुशं॑तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥१

प्र । नव्य॑सा । सह॑सः । सू॒नुम् । अच्छ॑ । य॒ज्ञेन॑ । गा॒तुम् । अवः॑ । इ॒च्छमा॑नः ।

वृ॒श्चत्ऽव॑नम् । कृ॒ष्णया॑मम् । रुश॑न्तम् । वी॒ती । होता॑रम् । दि॒व्यम् । जि॒गा॒ति॒ ॥१

प्र । नव्यसा । सहसः । सूनुम् । अच्छ । यज्ञेन । गातुम् । अवः । इच्छमानः ।

वृश्चत्ऽवनम् । कृष्णयामम् । रुशन्तम् । वीती । होतारम् । दिव्यम् । जिगाति ॥१

“गातुम् उपगन्तव्यं स्तोतव्यं वा "सहसः "सूनुं बलस्य पुत्रमग्निम् "अवः अन्नं रक्षणं वा “इच्छमानः इच्छन् स्तोता "नव्यसा नवतरेण "यज्ञेन युक्तः सन् "अच्छ आभिमुख्येन “प्र “जिगाति प्रकर्षेण गच्छति । कीदृशमग्निम् । वृश्चद्वनं वृक्णं छिन्नं दग्धं वनं येन तादृशं "कृष्णयामं कृष्णवर्त्मानं “रुशन्तं श्वेतवर्णं “वीती वीत्या कान्तेन यज्ञेन “होतारं यष्टारं "दिव्यं दिवि भवम् ॥


स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।

यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥२

सः । श्वि॒ता॒नः । त॒न्य॒तुः । रो॒च॒न॒ऽस्थाः । अ॒जरे॑भिः । नान॑दत्ऽभिः । यवि॑ष्ठः ।

यः । पा॒व॒कः । पु॒रु॒ऽतमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒ऽयाति॑ । भर्व॑न् ॥२

सः । श्वितानः । तन्यतुः । रोचनऽस्थाः । अजरेभिः । नानदत्ऽभिः । यविष्ठः ।

यः । पावकः । पुरुऽतमः । पुरूणि । पृथूनि । अग्निः । अनुऽयाति । भर्वन् ॥२

“सः अग्निः "श्वितानः श्वेतमानः श्वेतवर्णो वर्तते । "तन्यतुः शब्दकारी "रोचनस्थाः। रोचन्ते अस्मिन् ग्रहनक्षत्रादीनीति रोचनमन्तरिक्षम् । तत्र स्थितः "अजरेभिः जरारहितैः "नानदद्भिः अत्यर्थं शब्दं कुर्वद्भिर्मरुद्भिर्युक्तो रश्मिभिर्वा "यविष्ठः युवतमः । “यः "पावकः शोधकः “अग्निः "पुरुतमः अतिशयेन प्रभूतः सन् “पुरूणि बहूनि "पृथूनि स्थूलानि काष्ठानि “भर्वन्' भक्षयन् “अनुयाति अनुगच्छति स इत्थमित्थं वर्तत इति पूर्वत्र संबन्धः ॥


गार्हपत्यादीनां मिथः संसर्गेऽग्नये विविचय इष्टिः कर्तव्या । तत्र ‘वि ते' इत्येषानुवाक्या (आश्व. श्रौ. ३. १३) ॥

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरंति ।

तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनंति धृष॒ता रु॒जंतः॑ ॥३

वि । ते॒ । विष्व॑क् । वात॑ऽजूतासः । अ॒ग्ने॒ । भामा॑सः । शु॒चे॒ । शुच॑यः । च॒र॒न्ति॒ ।

तु॒वि॒ऽम्र॒क्षासः॑ । दि॒व्याः । नव॑ऽग्वाः । वना॑ । व॒न॒न्ति॒ । धृ॒ष॒ता । रु॒जन्तः॑ ॥३

वि । ते । विष्वक् । वातऽजूतासः । अग्ने । भामासः । शुचे । शुचयः । चरन्ति ।

तुविऽम्रक्षासः । दिव्याः । नवऽग्वाः । वना । वनन्ति । धृषता । रुजन्तः ॥३

हे “शुचे शुद्ध दीप्त वा “अग्ने "ते त्वदीयाः “वातजूतासः वातेन प्रेरिताः शुचयः निर्मलाः “भामासः दीप्तयः "विष्वक् सर्वतः "वि “चरन्ति विविधं गच्छन्ति । “तुविम्रक्षासः बहूनि काष्ठानि स्पृशन्तः "दिव्याः दिवि द्योतमानेऽग्नौ भवाः "नवग्वाः नूतनगमनास्ते रश्मयः “वना वनानि “वनन्ति संभजन्ते । दहन्तीत्यर्थः । किं कुर्वन्तः । "धृषता धर्षकेण तेजसा "रुजन्तः वनानि भञ्जयन्तः ।।


ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वपं॑ति॒ विषि॑तासो॒ अश्वाः॑ ।

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥४

ये । ते॒ । शु॒क्रासः॑ । शुच॑यः । शु॒चि॒ष्मः॒ । क्षाम् । वप॑न्ति । विऽसि॑तासः । अश्वाः॑ ।

अध॑ । भ्र॒मः । ते॒ । उ॒र्वि॒या । वि । भा॒ति॒ । या॒तय॑मानः । अधि॑ । सानु॑ । पृश्नेः॑ ॥४

ये । ते । शुक्रासः । शुचयः । शुचिष्मः । क्षाम् । वपन्ति । विऽसितासः । अश्वाः ।

अध । भ्रमः । ते । उर्विया । वि । भाति । यातयमानः । अधि । सानु । पृश्नेः ॥४

हे “शुचिष्मः दीप्तिमन्नग्ने “ते तव "शुक्रासः शुभ्राः “ये “शुचयः दीप्तयः “क्षां पृथिवीं भूमिं “वपन्ति मुण्डयन्ति । केशस्थानीयानोषधिवनस्पतीन् दहन्तीत्यर्थः । ‘ अग्निर्ह दाति रोमा पृथिव्याः' (ऋ. सं. १. ६५. ४ ) इति निगमान्तरम् । ते रश्मयः "विषितासः विमुक्ताः "अश्वाः इव इतस्ततो गच्छन्तीति शेषः । "अध अस्मिन् काले “ते त्वदीयः "भ्रमः भ्रमणशीलो ज्वालासमूहः "पृश्नेः नानारूपाया भूमेः "अधि उपरि "सानु समुच्छ्रितं देशं पर्वताग्रादिकं प्रति “यातयमानः स्वकीयमग्रं व्यापारयन् "उर्विया उरु बहुलं "वि “भाति विशेषेण प्रकाशते ॥


अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना ।

शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥५

अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना ।

शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥५

अध । जिह्वा । पापतीति । प्र । वृष्णः । गोषुऽयुधः । न । अशनिः । सृजाना ।

शूरस्यऽइव । प्रऽसितिः । क्षातिः । अग्नेः । दुःऽवर्तुः । भीमः । दयते । वनानि ॥५

"अध अपि च "वृष्णः वर्षितुरग्नेः "जिह्वा ज्वाला “प्र "पापतीति प्रकर्षेण पुनःपुनः पतति गच्छति । तत्र दृष्टान्तः । "गोषुयुधो "नाशनिः "सृजाना । असुरैरपहृतास गोषु युध्यन्निन्द्रो गोषुयुत् । तस्मात् सृज्यमानाशनिर्वज्र इव । तथा “शूरस्येव शौर्योपेतस्य नरस्य “प्रसितिः प्रबन्धनं यथान्यैः दुःसहमेवम् "अग्नेः "क्षातिः ज्वाला सोढुमशक्येत्यर्थः । क्षीयन्ते दह्यन्तेऽस्यामोषधवनस्पतय इति क्षायतेरधिकरणे क्तिन् । अपि च "दुर्वर्तुः दुर्वारोऽन्यैर्वारयितुमशक्यः "भीमः भयंकरोऽग्निः “वनानि “दयते दहति । दयतिरत्र दहतिकर्मा ।।।


आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तंथ ।

स बा॑ध॒स्वाप॑ भ॒या सहो॑भिः॒ स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥६

आ । भा॒नुना॑ । पार्थि॑वानि । ज्रयां॑सि । म॒हः । तो॒दस्य॑ । धृ॒ष॒ता । त॒त॒न्थ॒ ।

सः । बा॒ध॒स्व॒ । अप॑ । भ॒या । सहः॑ऽभिः । स्पृधः॑ । व॒नु॒ष्यन् । व॒नुषः॑ । नि । जू॒र्व॒ ॥६

आ । भानुना । पार्थिवानि । ज्रयांसि । महः । तोदस्य । धृषता । ततन्थ ।

सः । बाधस्व । अप । भया । सहःऽभिः । स्पृधः । वनुष्यन् । वनुषः । नि । जूर्व ॥६

हे अग्ने "भानुना दीप्त्या "पार्थिवानि पृथिव्यां भवानि "ज्रयांसि ॥ ज्रयतिर्गतिकर्मा ।। गन्तव्यानि स्थानानि “महः महतः “तोदस्य प्रेरकस्य “धृषता धर्षकेण रश्मिना सह “श्रा “ततन्थ अस्तृणासि आच्छादयसि । "सः त्वं "भया भयकरणानि “अप “बाधस्वः। तथा “सहोभिः अभिभवनसमर्थैर्बलैस्तेजोभिर्वा "स्पृधः स्पर्धमानान् “वनुष्यन् हिंसन् “वनुषः हिंसकान् । शत्रूनिति । "नि “जूर्व निजहि ।। जूर्वतिर्हन्तिकर्मा ॥


उखासंभरणीयेष्टावग्नेः क्षत्रवतः ‘स चित्र' इत्येषा याज्या । सूत्रितं च -- स चित्र चित्रं चितयन्तमस्मे अग्निरीशे बृहतः क्षत्रियस्य' (आश्व. श्रौ. ४. १) इति ।

स चि॑त्र चि॒त्रं चि॒तयं॑तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धां ।

चं॒द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ चंद्र॑ चं॒द्राभि॑र्गृण॒ते यु॑वस्व ॥७

सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् ।

च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥७

सः । चित्र । चित्रम् । चितयन्तम् । अस्मे इति । चित्रऽक्षत्र । चित्रऽतमम् । वयःऽधाम् ।

चन्द्रम् । रयिम् । पुरुऽवीरम् । बृहन्तम् । चन्द्र । चन्द्राभिः । गृणते । युवस्व ॥७

हे "चित्र चायनीय हे "चित्रक्षेत्र विचित्रबल चायनीयधन वा हे “चन्द्र आह्लादकाग्ने "सः तादृशस्त्वं "चन्द्राभिः आह्लादयित्रीभिः स्तुतिभिः "गृणते स्तुवते । वचनव्यत्ययः । स्तुवद्भ्यः "अस्मे अस्मभ्यं दातुं "रयिं धनं "युवस्व पृथक् कुरु । कीदृशं रयिम् । “चित्रं चायनीयं "चितयन्तं ज्ञापयन्तम् । धनेन हि पुरुषः प्रख्यायते। “चित्रतमम् अतिशयेनाश्चर्यभूतं "वयोधां वयसोऽन्नस्य धातारं प्रदातारं "चन्द्रम् आह्लादकं "पुरुवीरं पुरुभिर्बहुभिर्वीरैः पुत्रपौत्रादिभिर्युक्तं "बृहन्तं महान्तम् । ईदृशं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ ॥ ८ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६&oldid=209201" इत्यस्माद् प्रतिप्राप्तम्