ऋग्वेदः सूक्तं ६.१५
← सूक्तं ६.१४ | ऋग्वेदः - मण्डल ६ सूक्तं ६.१५ बार्हस्पत्यो भरद्वाजो, वीतहव्य आङ्गिरसो वा |
सूक्तं ६.१६ → |
दे. अग्निः। जगती, ३-१५ शक्वरी, ६ अतिशक्वरी, १०-१४, १६, १९ त्रिष्टुप्, १७ अनुष्टुप्, १८ बृहती। |
इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा ।
वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥१॥
मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् ।
स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥२॥
स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः ।
रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥३॥
द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् ।
विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥४॥
पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना ।
तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥५॥
अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि ।
उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥६॥
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥७॥
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥८॥
विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे ।
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥९॥
तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम ।
स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥१०॥
तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम् ।
यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥११॥
त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥१२॥
अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥१३॥
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥१४॥
अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।
अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥१५॥
अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् ।
कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥१६॥
इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः ।
यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥१७॥
जनिष्वा देववीतये सर्वताता स्वस्तये ।
आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥१८॥
वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् ।
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥१९॥
सायणभाष्यम्
‘इममू षु वः' इत्येकोनविंशत्यृचं पञ्चदशं सूक्तमाङ्गिरसस्य वीतहव्यस्य भरद्वाजस्य वार्षमाग्नेयम् । आदौ नव जगत्यस्तृतीयाषष्ठ्यौ तु शक्वर्यतिशक्वर्यौ पञ्चदशी शक्करी सप्तदश्यनुबष्टादशी बृहती दशम्याद्याः पञ्च षोडश्येकोनविंशी चेति सप्त त्रिष्टुभः । तथा चानुक्रान्तम् - ‘इममू ष्वेकोना वीतहव्य ऋषिर्वा जागतं प्राग्दशम्यास्तृतीयापञ्चदश्यौ शक्वर्यौ षष्ठ्यतिशक्वर्यनुष्टुब्बृहत्या उपान्त्ये' इति । प्रातरनुवाक आग्नेये क्रतावाश्विनशस्त्रे चादितो नवर्चः । सूत्रितं च - ‘ इममू षु वो अतिथिमुषर्बुधमिति नव' (आश्व. श्रौ. ४. १३) इति । दशरात्रे पञ्चमेऽहनि आद्यं नवर्चमाज्यशस्त्रम् । सूत्रितं च --- इममू षु वो अतिथिमुषर्बुधमिति नवाज्यम् ' (आश्व. श्रौ. ७. १२) इति ।।
इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा ।
वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥१
इ॒मम् । ऊं॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा ।
वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥१
इमम् । ऊं इति । सु । वः । अतिथिम् । उषःऽबुधम् । विश्वासाम् । विशाम् । पतिम् । ऋञ्जसे । गिरा ।
वेति । इत् । दिवः । जनुषा । कत् । चित् । आ । शुचिः । ज्योक् । चित् । अत्ति । गर्भः । यत् । अच्युतम् ॥१
हे वीतहव्य ऋषे भरद्वाज वा “वः त्वम् । विभक्तिवचनयोर्व्यत्ययः ॥ “इममु इममेवाग्निं “गिरा स्तुत्या "सु “ऋञ्जसे सुष्ठु प्रसाधय ।' ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । कीदृशम् । “अतिथि सततं गन्तारम् । यद्वा । अतिथिवत्पूज्यम् । “उषर्बुधम् उषसि प्रबुद्धं “विश्वासां सर्वासां “विशां प्रजानां “पतिं पालयितारम् । “जनुषा जन्मना स्वत एव “शुचिः शुद्धो निर्मलो वाग्निः "कच्चित् कदाचित् कस्मिंश्चिद्यागकाले “दिवः द्युलोकात् “आ “वेति आगच्छति । तदानीं प्रसाधयेत्यन्वयः । एवं प्रसाधितोऽग्निः “गर्भः अरण्योर्मध्ये गर्भवद्वर्तमानः । यद्वा । द्यावापृथिव्योर्गर्भभूतः सन् “यत् हविः “अच्युतं च्युतिरहितं नित्यमग्निहोत्रादिसाधनभूतं पयःप्रभृतिकं तत् ज्योक्चित् चिरकालम् “अत्ति भक्षयति ॥
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् ।
स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥२
मि॒त्रम् । न । यम् । सुऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् ।
सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥२
मित्रम् । न । यम् । सुऽधितम् । भृगवः । दधुः । वनस्पतौ । ईड्यम् । ऊर्ध्वऽशोचिषम् ।
सः । त्वम् । सुऽप्रीतः । वीतऽहव्ये । अद्भुत । प्रशस्तिऽभिः । महयसे । दिवेऽदिवे ॥२
“वनस्पतौ अरण्यां “सुधितं सुष्ठु निहितम् "ईड्यं स्तुत्यम् “ऊर्ध्वशोचिषम् उच्छ्रिततेजस्कं “यम् अग्निं त्वां “मित्रं “न मित्रमिव सखिभूतमिव “भृगवः महर्षयः “दधुः आदधुः गृहे स्थापितवन्तः, हे “अद्भुत महन्नग्ने "सः तादृशः “त्वं “वीतहव्ये एतत्संज्ञ ऋषौ "सुप्रीतः सुष्ठु प्रीयमाणो भव । यतः “दिवेदिवे प्रतिदिनं “प्रशस्तिभिः प्रकृष्टैः स्तोत्रैः "महयसे पूज्यसे । भरद्वाज ऋषिश्चेत् वीतहव्ये दत्तहविष्के भरद्वाज इति योजनीयम् ॥
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथ॑ः ॥३
सः । त्वम् । दक्ष॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।
रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥३
सः । त्वम् । दक्षस्य । अवृकः । वृधः । भूः । अर्यः । परस्य । अन्तरस्य । तरुषः ।
रायः । सूनो इति । सहसः । मर्त्येषु । आ । छर्दिः । यच्छ । वीतऽहव्याय । सऽप्रथः । भरत्ऽवाजाय । सऽप्रथः ॥३
हे अग्ने “सः तादृशः “अवृकः बाधकरहितः “त्वं “दक्षस्य अनुष्ठानसमर्थस्य “वृधः वर्धयिता "भूः भवसि । तथा “परस्य विप्रकृष्टस्य “अर्यः अरेः शत्रोः “अन्तरस्य अन्तिकतरस्य संनिकृष्टस्य शत्रोः “तरुषः तरिता भवसि । अतः कारणात् हे “सहसः “सूनो “सप्रथः सर्वतः पृथुस्त्वं “मर्त्येषु मनुष्येषु मध्ये “भरद्वाजाय संभृतहविर्लक्षणान्नाय “वीतहव्याय । वीतं गमितं हव्यं हविर्येन तादृशाय भरद्वाजायेति वा योज्यम् । “रायः धनानि "छर्दिः गृहं “आ “यच्छ प्रयच्छ । सप्रथ इति पुनरुक्तिरादरार्था ॥
द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् ।
विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥४
द्यु॒ता॒नम् । वः॒ । अति॑थिम् । स्वः॑ऽनरम् । अ॒ग्निम् । होता॑रम् । मनु॑षः । सु॒ऽअ॒ध्व॒रम् ।
विप्र॑म् । न । द्यु॒क्षऽव॑चसम् । सु॒वृ॒क्तिऽभिः॑ । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥४
द्युतानम् । वः । अतिथिम् । स्वःऽनरम् । अग्निम् । होतारम् । मनुषः । सुऽअध्वरम् ।
विप्रम् । न । द्युक्षऽवचसम् । सुवृक्तिऽभिः । हव्यऽवाहम् । अरतिम् । देवम् । ऋञ्जसे ॥४
हे वीतहव्य त्वं “सुवृक्तिभिः शोभनाभिः स्तुतिभिः "हव्यवाहं हविषां वोढारं "देवम् “अग्निम् “ऋञ्जसे प्रसाधय । कीदृशम् । “द्युतानं दीप्यमानं “वः युष्माकम् “अतिथिम् अतिथिवत्पूज्यं “स्वर्णरं स्वर्गस्य नेतारं “मनुषः मनोः प्रजापतेर्यज्ञे “होतारं देवानामाह्वातारं “स्वध्वरं शोभनयज्ञं “विप्रं “न मेधाविनं विपश्चितमिव “द्युक्षवचसम् । दीप्तेर्निवासभूतं द्युक्षम् । तादृशवाक्योपेतम् “अरतिम् अर्यं स्वामिनम् ॥
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑ः ॥५
पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ ।
तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । आ । यः । घृ॒णे । न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥५
पावकया । यः । चितयन्त्या । कृपा । क्षामन् । रुरुचे । उषसः । न । भानुना ।
तूर्वन् । न । यामन् । एतशस्य । नु । रणे । आ । यः । घृणे । न । ततृषाणः । अजरः ॥५
"यः अग्निः “पावकया शोधयित्र्या “चितयन्त्या चेतयन्त्या प्रज्ञापयन्त्या "कृपा दीप्त्या “क्षामन् भूम्यां “रुरुचे दीप्यते । “उषसो “न “भानुना । यथोषसः प्रकाशेन भासन्ते तद्वत् । अपि च "यामन् यामनि संग्रामे “तूर्वन्न शत्रून् हिंसन् पुरुष इव “एतशस्य एतत्संज्ञकस्य ऋषेः “रणे सूर्येण सह संग्रामे सहायार्थं “यः अग्निः “नु क्षिप्रम् आ “घृणे आदीप्यते । ‘प्रैतशं सूर्ये पस्पृधानम्' (ऋ. सं. १. ६१. १५) इति निगमान्तरम् । नूनं सर्वे देवास्तस्य साहाय्यमकार्षुः । यश्च “ततृषाणः तृषितः प्रभावेन सर्वभक्षणशीलः "अजरः जरारहितश्च भवति तं देवमृञ्जस इति पूर्वस्यामृचि संबन्धः ॥ ॥ १७ ॥
अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।
उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुव॑ः ॥६
अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ ।
उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥६
अग्निम्ऽअग्निम् । वः । सम्ऽइधा । दुवस्यत । प्रियम्ऽप्रियम् । वः । अतिथिम् । गृणीषणि ।
उप । वः । गीःऽभिः । अमृतम् । विवासत । देवः । देवेषु । वनते । हि । वार्यम् । देवः । देवेषु । वनते । हि । नः । दुवः ॥६
हे अस्मदीयाः स्तोतारः “वः यूयं “प्रियंप्रियम् अत्यन्तं प्रियं “वः युष्माकम् “अतिथिम् अतिथिवत्पूज्यं “गृणीषणि शब्दनीयं स्तुत्यम् “अग्निमग्निम् अग्निमेव । नान्यं देवमित्यर्थः । “समिधा समिन्धनेन समिद्भिर्वा “दुवस्यत परिचरत । यद्वा । गृणीषणीति सप्तम्यन्तम् । गृणीषणि स्तोत्रे विषयतया वर्तमानम् । अपि च “वः यूयम् “अमृतम् अमरणमग्निं “गीर्भिः स्तुतिभिरुपेत्य “विवासत परिवरत । “हि यस्मात् “देवेषु मध्ये “देवः दानादिगुणयुक्तोऽग्निः “वार्यं वरणीयं समिदादिकं “वनते संभजते । “हि यस्माच्च “देवेषु मध्ये “देवः अग्निः “नः अस्माकं “दुवः परिचरणं “वनते संभजते तस्मात् दुवस्यतेत्यन्वयः ।।
दशमेऽहन्याग्निमारुते ‘समिद्धम्' इति तृचो जातवेदस्यनिविद्धानार्थः । सूत्रितं च -- ‘ समिद्धमग्निं समिधा गिरा गृण इति तृचश्च ' (आश्व. श्रौ. ८. १२ ) इति ।।
समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् ।
विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥७
सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ । गि॒रा । गृ॒णे॒ । शुचि॑म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् ।
विप्र॑म् । होता॑रम् । पु॒रु॒ऽवार॑म् । अ॒द्रुह॑म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒तऽवे॑दसम् ॥७
सम्ऽइद्धम् । अग्निम् । सम्ऽइधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् ।
विप्रम् । होतारम् । पुरुऽवारम् । अद्रुहम् । कविम् । सुम्नैः । ईमहे । जातऽवेदसम् ॥७
“समिद्धं सम्यग्दीप्तम् “अग्निं “समिधा ससिन्धनहेतुभूतया “गिरा स्तुत्या “गृणे स्तौमि । यद्वा । समिधा समिद्भिर्दारुभिः समिद्धं सम्यगिद्धम् । अपि च “शुचिं स्वयं शुद्धं “पावकं सर्वेषां शोधकं “ध्रुवं निश्चलं तमग्निम् “अध्वरे यज्ञे पुरस्करोमीति शेषः । तथा “विप्रं मेधाविनं “होतारं देवानामाह्वातारं “पुरुवारं बहुभिर्वरणीयम् “अद्रुहम् अद्रोग्धारं सर्वेषामनुकूलं "कविं क्रान्तदर्शिनं “जातवेदसं जातानां वेदितारमग्निं “सुम्नैः सुखकरैः स्तोत्रैः “ईमहे संभजामहे । यद्वा द्वितीयार्थे तृतीया । सुम्नानि धनानीमहे याचामहे ॥
त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् ।
दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥८
त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् ।
दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥८
त्वाम् । दूतम् । अग्ने । अमृतम् । युगेऽयुगे । हव्यऽवाहम् । दधिरे । पायुम् । ईड्यम् ।
देवासः । च । मर्तासः । च । जागृविम् । विऽभुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥८
हे “अग्ने “त्वां “देवासः देवाः “च “मर्तासः मनुष्याः “च “दूतं “दधिरे विदधिरे कृतवन्तः । कीदृशं त्वाम् । “अमृतम् अमरणं 'युगेयुगे काले काले तत्तद्यागानुष्ठानसमये “हव्यवाहं हव्यानां हविषां वोढारं “पायुं पालयितारम् “ईड्यं स्तुत्यम् । अपि च त उभयविधा "जागृविं जागरणशीलं “विभुं व्याप्तं “विश्पतिं विशां प्रजानां पालयितारं तमग्निं "नमसा नमस्कारेण हविर्लक्षणान्नेन वा “नि “षेदिरे उपसेदिरे ॥
वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।
यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥९
वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॑न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ ।
यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥९
विऽभूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसी इति । सम् । ईयसे ।
यत् । ते । धीतिम् । सुऽमतिम् । आऽवृणीमहे । अध । स्म । नः । त्रिऽवरूथः । शिवः । भव ॥९
हे “अग्ने “उभयान उभयविधान् देवान् मनुष्यांश्च “विभूषन् विशेषेण भूषयन् अलंकुर्वंस्त्वम् “अनु “व्रता व्रतान्यनु व्रतेषु कर्मसु यागेषु “देवानां “दूतः सन् “रजसी द्यावापृथिव्यौ "समीयसे संचरसि । देवानानेतुं द्युलोकं गच्छसि हवींषि च नेतुमिमं लोकम् । किंच “यत् यस्मात् “ते तुभ्यं त्वदर्थं “धीति कर्म "सुमतिं शोभनां स्तुतिं च "आवृणीमहे वयं संभजामहे “अध अतः कारणात् “त्रिवरूथः त्रिस्थानस्त्वं “नः अस्माकं “शिवः सुखकरः “भव। "स्म इत्येतत् पादपूरणम् ॥
प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसि तं सुप्रतीकम् ' इत्याद्याः षडृचः । सूत्रितं च - तं सुप्रतीकमिति षट् ' ( आश्व. श्रौ. ४. १३) इति ॥ ।
तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।
स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥१०
तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ ।
सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥१०
तम् । सुऽप्रतीकम् । सुऽदृशम् । सुऽअञ्चम् । अविद्वांसः । विदुःऽतरम् । सपेम ।
सः । यक्षत् । विश्वा । वयुनानि । विद्वान् । प्र । हव्यम् । अग्निः । अमृतेषु । वोचत् ॥१०
“अविद्वांसः वैदुष्यरहिता अल्पमतयो वयं “विदुष्टरं विद्वत्तरं सर्वज्ञं “तम् अग्निं "सपेम परिचरेम ।। कीदृशम् । "सुप्रतीकं शोभनाङ्गं "सुदृशं शोभनद्रष्टारं “स्वञ्चं सुष्ठ्वञ्चन्तं गच्छन्तम् । किंच “सः तादृशः अग्निः "यक्षत् देवान् यजतु । “विश्वा सर्वाणि "वयुनानि । ज्ञाननामैतत् । इह तु ज्ञातव्ये वर्तते ।। ज्ञातव्यान्यर्थजातानि “विद्वान् जानन् “अग्निः "अमृतेषु मरणरहितेषु देवेषु “हव्यम् अस्मदीयं हविः “प्र “वोचत् प्रब्रवीतु । युष्मदर्थं हविः कल्पितं तदर्थं यूयमागच्छतेत्येवं कथयतु ॥ ॥ १८ ॥
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् ।
य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥११
तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् ।
य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥११
तम् । अग्ने । पासि । उत । तम् । पिपर्षि । यः । ते । आनट् । कवये । शूर । धीतिम् ।
यज्ञस्य । वा । निऽशितिम् । वा । उत्ऽइतिम् । वा । तम् । इत् । पृणक्षि । शवसा । उत । राया ॥११
हे “अग्ने “तं पुरुषं “पासि रक्षसि । “उत अपि च “तं "पिपर्षि कामैः पूरयसि । “यः पुरुषो हे “शूर शौर्यवन्नग्ने “कवये क्रान्तदर्शनाय “ते तुभ्यं त्वदर्थं “धीतिं कर्म स्तुतिं वा “आनट् प्राप्नोति । यद्वा । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कविं त्वां धीतिमानट् प्रापयति । तं पासीत्यन्वयः । अपि च “यज्ञस्य यागस्य “वा तत्साधनभूतस्य हविषो वा “निशितिं “वा ।निशितिः संस्कारः । तं वा “उदितिम् उद्गमनं “वा आनट् प्रापयति “तमित् तमेव “शवसा बलेन “पृणक्षि पूरयसि । “उत अपि च “राया धनेन पूरयसि ।।
त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒ः सं र॒यिः स्पृ॑ह॒याय्य॑ः सह॒स्री ॥१२
त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।
सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥१२
त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊं इति । नः । सहसाऽवन् । अवद्यात् ।
सम् । त्वा । ध्वस्मन्ऽवत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥१२
हे “अग्ने “त्वं “वनुष्यतः हिंसकाच्छत्रोः “नि नितरामस्मान्रक्ष। हे सहसावन् बलवन्नग्ने “त्वमु त्वमेव “नः अस्मान् “अवद्यात् पापात् निपाहि। “त्वा त्वां “ध्वस्मन्वत् ध्वंसनवत् ध्वस्तदोषं “पाथः हविर्लक्षणमस्माभिर्दत्तमन्नं “सम् “अभ्येतु सम्यगभिगच्छतु । “स्पृहयाय्यः स्पृहणीयः “सहस्री सहस्रसंख्यायुक्तः “रयिः त्वया दत्तं धनं सम्यगभिगच्छतु ।।
व्यूळ्हे दशरात्रे - पञ्चमेऽहन्याग्निमारुते ‘ अग्निर्होता ' इति तृचो जातवेदसनिविद्धानीयः । सूत्रितं च - अग्निहोंता गृहपतिः स राजेति तिस्रः ' ( आश्व. श्रौ. ८. ८) इति । पत्नीसंयाजेषु गृहपतेराद्यानुवाक्या । सूत्रितं च --- अग्निर्होता गृहपतिः स राजा हव्यवाळग्निरजरः पिता न इति पत्नीसंयाजाः ' ( आश्व श्रौ. १. १० ) इति । आश्विनशस्त्रस्यैषैव प्रतिपत् । सूत्रितं च - अग्निर्होता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः ' ( आश्व. श्रौ. ६. ५) इति ॥
अ॒ग्निर्होता॑ गृ॒हप॑ति॒ः स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठ॒ः स प्र य॑जतामृ॒तावा॑ ॥१३
अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः ।
दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥१३
अग्निः । होता । गृहऽपतिः । सः । राजा । विश्वा । वेद । जनिम । जातऽवेदाः ।
देवानाम् । उत । यः । मर्त्यानाम् । यजिष्ठः । सः । प्र । यजताम् । ऋतऽवा ॥१३
“होता देवानामाह्वाता “राजा राजमानः “सः “अग्निः “गृहपतिः गृहाणां पतिरधिपतिर्भवति । तथा “विश्वा विश्वानि सर्वाणि “जनिम जन्मानि जन्मवन्ति भूतजातानि “जातवेदाः जातप्रज्ञः सन् “वेद वेत्ति जानाति । "यः अग्निः “देवानाम् इन्द्रादीनाम् “उत अपि च “मर्त्यानां मनुष्याणां च मध्ये “यजिष्ठः अतिशयेन यष्टा भवति “ऋतावा । ऋतं सत्यं यज्ञो वा । तद्वान् “सः अग्निः “प्र “यजतां प्रकर्षेण देवान् यजतु ॥
‘ अग्ने यदद्य' इति दर्शपूर्णमासयोः स्विष्टकृतो याज्या । सूत्रितं च - ‘ अग्ने यदद्य विशो अध्वरस्य होतरित्यनवानं यजति ' ( आश्व. श्रौ. १. ६ ) इति ॥
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ः पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥१४
अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ ।
ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥१४
अग्ने । यत् । अद्य । विशः । अध्वरस्य । होतरिति । पावकऽशोचे । वेः । त्वम् । हि । यज्वा ।
ऋता । यजासि । महिना । वि । यत् । भूः । हव्या । वह । यविष्ठ । या । ते । अद्य ॥१४
हे “अध्वरस्य “होतः यज्ञस्य निष्पादक “पावकशोचे शोधकदीप्ते एवंभूत हे “अग्ने “अद्य अस्मिन् काले “विशः मनुष्यस्य यजमानस्य “यत् कर्तव्यं तत् "वेः कामयस्व । “हि यस्मात् “त्वं “यज्वा देवानां यष्टा भवसि तस्मात् “ऋता ऋते यज्ञे "यजासि देवान् यज । अपि च "महिना महिम्ना स्वमाहात्म्येन “यत् यस्मात् "वि “भूः विभवसि व्याप्तो भवसि अतः कारणात् हे "यविष्ठ युवतमाग्ने “ते तुभ्यं त्वदर्थम् “अद्य इदानीं “या यानि हव्यानि जुहुमस्तानि "हव्या हव्यानि हवींषि “वह । स्वकीयां स्विष्टकृदाख्यां तनुं प्रापय ॥
अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।
अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥१५
अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद॑सी॒ इति॑ । यज॑ध्यै ।
अव॑ । नः॒ । म॒घ॒ऽव॒न् । वाज॑ऽसातौ । अग्ने॑ । विश्वा॑नि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥१५
अभि । प्रयांसि । सुऽधितानि । हि । ख्यः । नि । त्वा । दधीत । रोदसी इति । यजध्यै ।
अव । नः । मघऽवन् । वाजऽसातौ । अग्ने । विश्वानि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥१५
हे अग्ने “सुधितानि सुनिहितानि वेयामासादितानि “प्रयांसि अन्नानि हविर्लक्षणानि “अभि “ख्यः अभिपश्यसि । “हि पूरकः । तादृशं त्वां “रोदसी द्यावापृथिव्यावेतदुपलक्षितान् सर्वान् देवान् “यजध्यै यष्टुं “नि “दधीत । अयं यजमानो निहितवान् । हे “मघवन् “अग्ने “नः अस्मान् “वाजसातौ संग्रामे अन्नस्य संभजने वा निमित्तभूते “अव रक्ष । वयं च “विश्वानि सर्वाणि “दुरिता दुरितानि दुःखानि “तरेम अतिक्रामेम । अन्यद्गतम् ॥ ॥ १९ ॥
अग्निप्रणयने ‘अग्ने विश्वेभिः' इत्येषानुवक्तव्या । सूत्रितं च - अग्ने विश्वेभिः स्वनीक देवैरित्यर्धर्च आरमेत्' (आश्व. श्रौ. २. १७) इति ॥
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् ।
कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥१६
अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् ।
कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥१६
अग्ने । विश्वेभिः । सुऽअनीक । देवैः । ऊर्णाऽवन्तम् । प्रथमः । सीद । योनिम् ।
कुलायिनम् । घृतऽवन्तम् । सवित्रे । यज्ञम् । नय । यजमानाय । साधु ॥१६
हे “स्वनीक सुज्वाल “अग्ने “विश्वेभिः विश्वैः सर्वैः “देवैः सह “ऊर्णावन्तम् ऊर्णास्तुकावन्तं “योनिम् उत्तरवेदिलक्षणं स्थानं "प्रथमः सर्वेषु देवेषु मुख्यस्त्वं “सीद उपविश। कीदृशं योनिम् । “कुलायिनम् । कुलायो नीडम् । तत्सदृशं गुग्गुल्वादिसंभारेणोपेतम् । तथा च श्रूयते -- ' कुलायमिव ह्येतद्यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुग्गुलूर्णास्तुकाः सुगन्धितेजनानि ' (ऐ. ब्रा. १. २८) इति । “घृतवन्तं व्याघारणाज्ययुक्तम् । एवमुत्तरवेद्यां निषण्णस्त्वं “सवित्रे हविषां प्रेरयित्रे "यजमानाय । षष्ठ्यर्थे चतुर्थ्येषा । ईदृशस्य यजमानस्य “यज्ञं “साधु आर्जवेन “नय देवान् प्रापय ॥
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धस॑ः ।
यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥१७
इ॒मम् । ऊं॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ ।
यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । श्या॒व्या॑भ्यः ॥१७
इमम् । ऊं इति । त्यम् । अथर्वऽवत् । अग्निम् । मन्थन्ति । वेधसः ।
यम् । अङ्कुऽयन्तम् । आ । अनयन् । अमूरम् । श्याव्याभ्यः ॥१७
“वेधसः कर्मणां विधातार ऋत्विजः “इमं दृश्यमानं “त्यं तं पूर्वोक्तगुणम् “अग्निम् “अथर्ववत् यथाथर्वाख्य ऋषिः पुरामथ्नात् तथा “मन्थन्ति मथ्नन्ति । अरण्योः सकाशाज्जनयन्ति । “अङ्कूयन्तम् । कुत्सितमञ्चनं गमनम् अङ्कु। तदात्मन इच्छन्तं देवेभ्यो निर्गत्येतस्ततः पलायमानम् "अमूरम् अमूढं “यम् अग्निं “श्याव्याभ्यः । श्यावीति रात्रिनाम । तत्र भवास्तमसः संहतयः श्याव्याः । ताभ्यः सकाशात् “आनयन् आगमयन् तं मन्थन्तीत्यन्वयः ॥
जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।
आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥१८
जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ ।
आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥१८
जनिष्व । देवऽवीतये । सर्वऽताता । स्वस्तये ।
आ । देवान् । वक्षि । अमृतान् । ऋतऽवृधः । यज्ञम् । देवेषु । पिस्पृशः ॥१८
हे अग्ने “सर्वताता सर्वैस्तायमाने यज्ञे मथ्यमानस्त्वं “जनिष्व प्रादुर्भव । किमर्थम् । “देववीतये देवकामाय यजमानाय । षष्ठ्यर्थे चतुर्थ्येषा । ईदृशस्य यजमानस्य “स्वस्तये अविनाशार्थम् । जनित्वा च “अमृतान् मरणरहितान् “ऋतावृधः यज्ञस्य वर्धयितॄन् "देवान् “आ “वक्षि आवह । तदनन्तरं तेषु "देवेषु अस्मदीयं “यज्ञं “पिस्पृशः स्पर्शय । प्रापयेत्यर्थः ॥
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥१९
व॒यम् । ऊं॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् ।
अ॒स्थू॒रि । नः॒ । गार्ह॑ऽपत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । शि॒शा॒धि॒ ॥१९
वयम् । ऊं इति । त्वा । गृहऽपते । जनानाम् । अग्ने । अकर्म । सम्ऽइधा । बृहन्तम् ।
अस्थूरि । नः । गार्हऽपत्यानि । सन्तु । तिग्मेन । नः । तेजसा । सम् । शिशाधि ॥१९
हे “गृहपते यज्ञानां पालक “अग्ने “जनानां प्राणिनां मध्ये “वयम् वयमेवं “त्वा त्वां “समिधा समिन्धनेन “बृहन्तं महान्तम् “अकर्म कृतवन्तः स्मः । अतः कारणात् “नः अस्माकं “गार्हपत्यानि गृहपतित्वानि “अस्थरि अस्थूरीणि । एकाश्वयुक्तः शकटः स्थूरिरित्युच्यते तद्विपरीतो बहभिरश्वैरुपेतः शकटोऽस्थूरिः । तेन च संपूर्णता लक्ष्यते । अस्थूरीणि पुत्रपशुधनादिभिः संपूर्णानि भवन्तु । अपि च “नः अस्मान् “तिग्मेन तीक्ष्णेन “तेजसा “सं “शिशाधि सम्यङ्निश्य सम्यक् तीक्ष्णीकुरु । संयोजयेत्यर्थः ॥ ॥ २० ॥ ॥ १ ॥
टिप्पणी
६.१५.५ पावकया यः चितयन्त्या कृपा इति
ऽग्ने पावक रोचिषेति दक्षिणम्पक्षं स नः पावक दीदिव इति पुच्छं पावकया यश्चितयन्त्या कृपेत्युत्तरम्पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्। माश ९,१,२,३० ।
मण्डल ६ | ||||
---|---|---|---|---|