ऋग्वेदः सूक्तं ६.३८
← सूक्तं ६.३७ | ऋग्वेदः - मण्डल ६ सूक्तं ६.३८ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.३९ → |
दे. इन्द्रः। त्रिष्टुप् |
अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् ।
पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥१॥
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः ।
एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥२॥
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः ।
ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे ॥३॥
वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म ।
वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥४॥
एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।
महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥५॥
सायणभाष्यम्
‘अपादितः' इति पञ्चर्चं पञ्चदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘अपात्' इत्यनुक्रान्तम् । महाव्रते निष्केवल्य उक्तो विनियोगः ॥
अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् ।
पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानु॑ः ॥१
अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।
पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥१
अपात् । इतः । उत् । ऊं इति । नः । चित्रऽतमः । महीम् । भर्षत् । द्युऽमतीम् । इन्द्रऽहूतिम् ।
पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुऽदानुः ॥१
“चित्रतमः चायनीयतम आश्चर्यतमो वा स इन्द्रः “नः अस्मदीयात् “इतः अस्मात् ग्रहचमसादेः “अपात् सोमं पिबतु । यद्वा । इतोऽस्मात् शत्रोर्नोऽस्मान् अपात् पातु रक्षतु । "उदु इत्येतौ पूरणौ । तथा “महीं महतीं “द्युमतीं दीप्तिमतीम् “इन्द्रहूतिम् इन्द्रस्य स्तुतिं “भर्षत् स इन्द्रो बिभर्तु धारयतु । “दैव्यस्य देवसंबन्धिनो “जनस्य “यामन् यामनि यज्ञे क्रियमाणां “पन्यसीं स्तुत्यतमां “धीतिं परिचरणरूपां क्रियां “रातिं दातव्यं हविश्च “सुदानुः शोभनदान इन्द्रः “वनते संभजतु ॥
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः ।
एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥२
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥२
दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः ।
आ । इयम् । एनम् । देवऽहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥२
“अस्य इन्द्रस्य “कर्णा कर्णौ दूराच्चित् दूरदेशादपि “आ “वसतः स्तोत्रश्रवणार्थमागच्छतः। “इन्द्रस्य “घोषात् घोषणीयात् स्तोत्राद्धेतोः “ब्रुवाणः स्तुवन् स्तोता “तन्यति शब्दं करोति । यद्वा । सर्वत्र विस्तारयति । “देवहूतिः देवस्येन्द्रस्याह्वानरूपा “इयं स्तुतिश्च “ऋच्यमाना स्वयं प्रेर्यमाणा सती “एनम् “इन्द्रम् मद्र्यक् मदभिमुखम् “आ “ववृत्यात् आवर्तयतु । पुनः "इयम् इति पूरणः ॥
तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः ।
ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥३
तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।
ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥३
तम् । वः । धिया । परमया । पुराऽजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः ।
ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे ॥३
हे इन्द्र “तं तादृशम् “इन्द्रं “वः त्वाम् ॥ व्यत्ययेन बहुवचनम् ॥ “परमया उत्कृष्टतमया “धिया स्तुत्या “अकैं: अर्चनसाधनैर्हविर्भिः सार्धम् अभ्यनूषि अभिष्टौमि । कीदृशम् । “पुराजां पूर्वस्मिन् काले जातं चिरंतनम् "अजरं जरारहितं नित्यम् । अतः कारणात् अस्मिन् “इन्द्रे “ब्रह्म ब्रह्माणि हविर्लक्षणान्यन्नानि “गिरः स्तुतयश्च “सं दधिरे संधीयन्ते संश्लिष्यन्ते । “महान् प्रवृद्धः “स्तोमः “च “अधि “वर्धत् अधिकं वर्धते ।।
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।
वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासा॑ः श॒रदो॒ द्याव॒ इन्द्र॑म् ॥४
वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।
वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥४
वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म ।
वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥४
“यम् “इन्द्रं “यज्ञः याग: “वर्धात् वर्धयति । “उत अपि च तत्साधनभूतः “सोमः च यमिन्द्रं वर्धयति । तथा “ब्रह्म हविर्लक्षणमन्नं च पुरोडाशादिकं यमिन्द्रं “वर्धात वर्धयति । “गिरः स्तोत्राणि “मन्म मननीयानि “उक्था उक्थानि शस्त्राणि “च यं वर्धयन्ति “एनम् इन्द्रम् “उषसः च “अक्तो: रात्रेः “यामन् यामनि गमने सति “वर्ध वर्धयन्ति। “मासाः “शरदः संवत्सराश्च “द्यावः दिवसाश्चैनम् “इन्द्रं “वर्धान् वर्धयन्ति ।
ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।
म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥५
ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।
म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥५
एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय ।
महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्रऽतूर्येषु ॥५
हे "विप्र मेधाविन्निन्द्र “एव एवं “जज्ञानं प्रादुर्भवन्तं “सहसे शत्रूणामभिभवार्थम् “असामि बहुलं “वावृधानं वर्धमानं “महां महान्तम् “उग्रम् उद्गूर्णबलं त्वां “नूनम् अद्य वृत्रतूर्येषु “श्रुताय विश्रुताय “राधसे धनाय “च “अवसे रक्षणाय च “आ “विवासेम परिचरेम ।। ।। १० ।।
मण्डल ६ | ||||
---|---|---|---|---|