ऋग्वेदः सूक्तं ६.४०
← सूक्तं ६.३९ | ऋग्वेदः - मण्डल ६ सूक्तं ६.४० बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.४१ → |
दे. इन्द्रः। त्रिष्टुप्। |
इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया ।
उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥१॥
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् ।
तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥२॥
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः ।
त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥३॥
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् ।
उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात् ॥४॥
यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि ।
अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः ॥५॥
सायणभाष्यम्
‘इन्द्र पिब' इति पञ्चर्चं सप्तदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । इन्द्र पिब' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः । प्रथमे रात्रिपर्यायेऽच्छावाकस्याद्या शस्त्रयाज्या' । सूत्रितं च-- इन्द्र पिब तुभ्यं सुतो मदायेति याज्या ( आश्व. श्रौ. ६. ४ ) इति ॥
इन्द्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या ।
उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥१
इन्द्र॑ । पिब॑ । तुभ्य॑म् । सु॒तः । मदा॑य । अव॑ । स्य॒ । हरी॒ इति॑ । वि । मु॒च॒ । सखा॑या ।
उ॒त । प्र । गा॒य॒ । ग॒णे । आ । नि॒ऽसद्य॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । वयः॑ । धाः॒ ॥१
इन्द्र । पिब । तुभ्यम् । सुतः । मदाय । अव । स्य । हरी इति । वि । मुच । सखाया ।
उत । प्र । गाय । गणे। आ । निऽसद्य । अथ । यज्ञाय । गृणते । वयः । धाः ॥१॥
हे “इन्द्र तं सोमं “पिब यः सोमः "तुभ्यं “मदाय मदार्थं “सुतः अभिषुतः । यतस्त्वया सोमः पातव्योऽतः कारणात् "सखाया समानख्यानौ मित्रभूतौ वा “हरी अश्वौ “अव "स्य अवस्थापय । तदनन्तरं वि “मुच रथाद्विमुञ्च । "उत अपि च "गणे अस्मत्स्तोतृसंघे “आ आभिमुख्येन “निषद्य उपविश्य “प्र “गाय अस्माभिः कृतं स्तोत्रमुपश्लोकय । “अथ अनन्तरं “यज्ञाय यजमानाय “गृणते स्तुवते “वयः अन्नं “धाः देहि ॥
द्वितीये रात्रिपर्याये अच्छावाकस्य ' अस्य पिब' इति शस्त्रयाज्या। सूत्रितं च--- अस्य पिबेति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति ॥
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् ।
तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥२
अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञा॒नः । इ॒न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् ।
तम् । ऊं॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥२
अस्य । पिब । यस्य । जज्ञानः । इन्द्र । मदाय । क्रत्वे । अपिबः । विऽरप्शिन् ।
तम् । ऊं इति । ते । गावः । नरः । आपः । अद्रिः । इन्दुम् । सम् । अह्यन् । पीतये । सम् । अस्मै ॥२
हे “इन्द्र “अस्य इमं सोमं “पिब । हे “विरप्शिन् महन “जज्ञानः जायमान एव त्वं “यस्य यं सोमम् “अपिबः पूर्वं पीतवानसि । किमर्थम् । 'मदाय हर्षाय “क्रत्वे कर्मणे वृत्रवधादिलक्षणं वीर्यकर्म कर्तुं च । “तमु तादृशमेव “इन्दुं सोमं “गावः गवि भवाः श्रपणसाधनाः क्षीरादयः “नरः नेतारोऽध्वर्यवः “आपः वसतीवर्याख्याः “अद्रिः अभिषवार्थो ग्रावा एते सर्वे “अस्मै अस्येन्द्रस्य “ते तव “पीतये पानार्थं “समह्यन् समगमयन् ।' हि गतौ' इत्यस्यैतद्रूपम् । पुनः “सम् इति पूरकः।।
समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः ।
त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥३
सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे॑ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वहि॑ष्ठाः ।
त्वा॒ऽय॒ता । मन॑सा । जो॒ह॒वी॒मि॒ । इन्द्र॑ । आ । या॒हि॒ । सु॒वि॒ताय॑ । म॒हे । नः॒ ॥३
सम्ऽइद्धे । अग्नौ । सुते । इन्द्र । सोमे । आ । त्वा । वहन्तु । हरयः । वहिष्ठाः ।
त्वाऽयता । मनसा । जोहवीमि । इन्द्र । आ । याहि । सुविताय । महे । नः ॥३
“अग्नौ “समिद्धे दीप्ते “सोमे “सुते अभिषुते सति हे "इन्द्र “त्वा त्वां “वहिष्ठाः वोढृतमाः “हरयः अश्वाः “आ “वहन्तु । इमं यज्ञं प्रत्यानयन्तु । अहं च “त्वायता त्वां कामयमानेन “मनसा जोहवीमि पुनःपुनराह्वयामि । हे “इन्द्र त्वं “नः अस्माकं “महे महते “सुविताय कल्याणाय “आ “याहि आगच्छ ।
आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् ।
उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥४
आ । या॒हि॒ । शश्व॑त् । उ॒श॒ता । य॒या॒थ॒ । इन्द्र॑ । म॒हा । मन॑सा । सो॒म॒ऽपेय॑म् ।
उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ । अथ॑ । ते॒ । य॒ज्ञः । त॒न्वे॑ । वयः॑ । धा॒त् ॥४
आ । याहि । शश्वत् । उशता । ययाथ । इन्द्र । महा । मनसा । सोमऽपेयम् ।
उप । ब्रह्माणि । शृणवः । इमा । नः । अथ । ते । यज्ञः । तन्वे । वयः । धात् ॥४
हे इन्द पुरा “शश्वत् बहुकृत्वः “ययाथ सोमपानार्थं यज्ञं गतवानसि । अतः कारणात् “उशता अस्मान कामयमानेन “महा महता “मनसा सह “सोमपेयं सोमः पीयते यस्मिन् तादृशमस्मदीयं यज्ञम् “आ “याहि अभिगच्छ । आगत्य च “ब्रह्माणि स्तोत्राणि “इमा इदानीं प्रयुज्यमानानि “नः अस्मदीयानि “उप “शृणवः उपाशृणु । “अथ अनन्तरं “यज्ञः यजमानः “ते तव “तन्वे शरीराय त्वच्छरीरपोषार्थं “वयः अन्नं सोमात्मकं “धात् ददातु।।
यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ ।
अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ॥५
यत् । इ॒न्द्र॒ । दि॒वि । पार्ये॑ । यत् । ऋध॑क् । यत् । वा॒ । स्वे । सद॑ने । यत्र॑ । वा॒ । असि॑ ।
अतः॑ । नः॒ । य॒ज्ञम् । अव॑से । नि॒युत्वा॑न् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ॥५
यत् । इन्द्र । दिवि । पार्ये । यत् । ऋधक् । यत् । वा । स्वे । सदने । यत्र । वा । असि ।
अतः । नः । यज्ञम् । अवसे । नियुत्वान् । सऽजोषाः । पाहि । गिर्वणः । मरुत्ऽभिः ॥५
हे “इन्द्र “पार्ये पारगे दूरदेशे “दिवि द्युलोकाख्ये “यत् यदि त्वं वर्तसे । यदि वा ऋधक् । एतत्पृथक्शब्देन समानार्थम् । पृथगन्यस्मिन् देशे वर्तसे । “यद्वा “स्वे स्वकीये “सदने गृहे । अथवा किमनेन विशेषणेन “यत्र यस्मिन् देशे “असि भवसि “अतः अस्मात् स्थानादागत्य हे “गिर्वणः गिरां संभक्तरिन्द्र “नियुत्वान् नियुतोऽश्वाः । तद्वान् “मरुद्भिः “सजोषाः सह प्रीयमाणस्त्वं नः अस्माकम् “अवसे रक्षणाय “यज्ञम् अस्मदीयं यागं “पाहि रक्ष । यद्वा । यज्ञं यजनसाधनमस्मदीयं सोममवसे तर्पणाय पाहि पिब ।। १२ ।।
मण्डल ६ | ||||
---|---|---|---|---|