ऋग्वेदः सूक्तं ६.४२
← सूक्तं ६.४१ | ऋग्वेदः - मण्डल ६ सूक्तं ६.४२ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.४३ → |
दे. इन्द्रः। अनुष्टुप्, ४ बृहती । |
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥१॥
एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥२॥
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥३॥
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥४॥
सायणभाष्यम्
‘प्रत्यस्मै ' इति चतुर्ऋचमेकोनविंशं सूक्तं भरद्वाजस्यार्षमैन्द्रम् । चतुर्थी बृहती शिष्टा अनुष्टुभः । तथा चानुक्रान्तं-- प्रत्यस्मै चतुष्कमानुष्टुभ बृहत्यन्तम्' इति । प्रातःसवनेऽच्छावाकस्येदमुन्नीयमानसूक्तम् । सूत्रितं च--' प्रत्यस्मा इत्युन्नीयमानायानूच्य ' ( आश्व. श्रौ. ५. ७ ) इति ॥
प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।
अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥१
प्रति॑ । अ॒स्मै॒ । पिपी॑षते । विश्वा॑नि । वि॒दुषे॑ । भ॒र॒ ।
अ॒र॒म्ऽग॒माय॑ । जग्म॑ये । अप॑श्चात्ऽदघ्वने । नरे॑ ॥१
प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर ।
अरम्ऽगमाय । जग्मये । अपश्चात्ऽदघ्वने । नरे ॥१
हे अध्वर्यो “अस्मै इन्द्राय “प्रति “भर अभिहर । सोमं प्रयच्छेत्यर्थः । कीदृशायेन्द्राय । “पिपीषते पातुमिच्छते “विश्वानि सर्वाणि वेद्यानि “विदुषे जानते “अरंगमाय पर्याप्तगमनाय “जग्मये यज्ञेषु गमनशीलाय “अपश्चाद्दध्वने । दघिर्गतिकर्मा । अपश्चाद्गमनाय सर्वेषामग्रगामिने “नरे नेत्रे यज्ञानाम् ॥
एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् ।
अम॑त्रेभिरृजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥२
आ । ई॒म् । ए॒न॒म् । प्र॒ति॒ऽएत॑न । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।
अम॑त्रेभिः । ऋ॒जी॒षिण॑म् । इन्द्र॑म् । सु॒तेभिः॑ । इन्दु॑ऽभिः ॥२
आ । ईम् । एनम् । प्रतिऽएतन । सोमेभिः । सोमऽपातमम् ।
अमत्रेभिः । ऋजीषिणम् । इन्द्रम् । सुतेभिः । इन्दुऽभिः ॥२
हे अध्वर्यवः “सोमेभिः सोमैः करणभूतैः “सोमपातमम् अतिशयेन सोमस्य पातारम् “एनम् इन्द्रम् "आ अभिमुखं “प्रत्येतन प्रतिगच्छत । “ईम् इति निपातोऽनर्थकः । कीदृशमिन्द्रम् । “अमत्रेभिः अमत्रैः सोमपात्रैर्ग्रहचमसादिभिः “ऋजीषिणम् । ऋजीषं शत्रूणामुपार्जकं बलम् । तद्वन्तम् । यद्वा। ऋजीषिणमित्युत्तरत्र संबन्धनीयम् । “सुतेभिः अभिषुतैः “इन्दुभिः सोमैर्ऋजीषिणम् । गतसारः सोम ऋजीषः। तद्वन्तम् । अथवा अमत्रेभिरमत्रैरमात्रैः अपरिमितैरभिषुतैः सोमैर्ऋजीषिणम् ॥ ऋजेर्गत्यर्थाद्भावसाधन ऋजीषशब्दः । ततो मत्वर्थीय इनिः ॥ संगतमित्यर्थः । एवंविधमिन्द्रं प्रतिगच्छतेत्यन्वयः । अन्य आह । अमत्रेभिर्ग्रहचमसादिगतैरभिषुतैः सोमैर्ऋजीषिणं बलवन्तमेनमिन्द्रं प्रतिगच्छतेति ॥
यदी॑ सु॒तेभि॒रिन्दु॑भि॒ः सोमे॑भिः प्रति॒भूष॑थ ।
वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥३
यदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ ।
वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥३
यदि । सुतेभिः । इन्दुऽभिः । सोमेभिः । प्रतिऽभूषथ ।
वेद । विश्वस्य । मेधिरः । धृषत् । तम्ऽतम् । इत् । आ । ईषते ॥३
हे अध्वर्यवः “सुतेभिः अभिषुतैः “इन्दुभिः उन्दनशीलैर्दीप्तैर्वा “सोमेभिः सोमैः “यदि “प्रतिभूषथ इन्द्रं प्रति यूयं प्रतिगच्छथ ।। ‘ भू प्राप्तौ' इत्यस्यैतद्रूपम् । तदानीं “मेधिरः मेधावी । मेधो यज्ञस्तद्वान्वा । स इन्द्रः “विश्वस्य विश्वं सर्वं भवदीयं कामं “वेद वेत्ति जानाति । ज्ञात्वा च “धृषत् । शत्रूणां धर्षकः सन् “तंतमित् तं तं काममेव “एषते प्रापयति ।।
अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् ।
कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥४
अ॒स्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् ।
कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥४
अस्मैऽअस्मै । इत् । अन्धसः । अध्वर्यो इति । प्र । भर । सुतम् ।
कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिऽशस्तेः । अवऽस्परत् ॥४
“अस्माअस्मा “इत् अस्मा एवेन्द्राय नान्यस्मै हे “अध्वर्यो त्वम् “अन्धसः सोमलक्षणस्यान्नस्य “सुतम् अभिषुतं रसं “प्र “भर संप्रहर। प्रयच्छेति यावत् । स चेन्द्रः “समस्य सर्वस्य “जेन्यस्य जेतव्यस्य “शर्धतः उत्सहमानस्य शत्रोः “अभिशस्तेः अभिशंसनात् तत्कृताद्धिंसनात् “कुवित् बहु । “अवस्परत् अस्मान् पालयतु ।। । १४ ।।
टिप्पणी
द्र. नानदम् षोडशिसाम
देवोऽसि नराशंसो यत्ते मेधः स्वर्ज्योतिस्तस्य त ऊमैः पितृभिर्भक्षितस्योपहूतस्योपहूतो भक्षयामीति भक्षमन्त्रः प्रातःसवने नाराशंसानाम् २२...........उन्नीयमानायेत्युक्तः प्रत्यस्मै पिपीषत इत्यच्छावाकः सूक्तमन्वाह शांश्रौसू ७.७.१
मण्डल ६ | ||||
---|---|---|---|---|