ऋग्वेदः सूक्तं ६.४४

(ऋग्वेद: सूक्तं ६.४४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.४३ ऋग्वेदः - मण्डल ६
सूक्तं ६.४४
शंयुर्बार्हस्पत्यः
सूक्तं ६.४५ →
दे. इन्द्रः। त्रिष्टुप्, १-६ अनुष्टुप्, ७-९ (८ वा) विराट्।


यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः ।
सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥१॥
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् ।
सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥२॥
येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः ।
सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥३॥
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् ।
इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥४॥
यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः ।
तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥५॥
तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि ।
विपो न यस्योतयो वि यद्रोहन्ति सक्षितः ॥६॥
अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् ।
ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥७॥
ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।
दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥८॥
द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः ।
वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्माँ अविड्ढि ॥९॥
इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः ।
नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः ॥१०॥
मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम ।
पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥११॥
उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या ।
त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥१२॥
अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा ।
यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥१३॥
अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान ।
तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥१४॥
पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः ।
गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥१५॥
इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि ।
मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥१६॥
एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान् ।
अभिषेणाँ अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च ॥१७॥
आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः ।
अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥१८॥
आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः ।
अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥१९॥
आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः ।
इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥२०॥
वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् ।
वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥२१॥
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् ।
अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥२२॥
अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः ।
अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥२३॥
अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् ।
अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥२४॥


सायणभाष्यम्

चतुर्थेऽनुवाके षट् सूक्तानि । तत्र ‘यो रयिवः' इति चतुर्विंशत्यृचं प्रथमं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षमैन्द्रम् । आदितः षडनुष्टुभः सप्तम्यष्टमीनवम्यो विराजोऽष्टम्येकैव वा विराट् शिष्टास्त्रिष्टुभः। तथा चानुक्रान्तं-- यो रयिवश्चतुर्विंशतिः शंयुर्बार्हस्पत्यो ह्यादौ षळनुष्टुभस्तिस्रश्च विराजो मध्यमैत्र वासाम्' इति । गतः सूक्तविनियोगः ।।


यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः ।

सोम॑ः सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑ः ॥१

यः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥१

यः । रयिऽवः । रयिम्ऽतमः । यः । द्युम्नैः । द्युम्नवत्ऽतमः ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥१

हे “रयिवः धनवन् इन्द्र “यः सोमः “रयिंतमः अतिशयेन रयिमान् धनवान् । “यः च “द्युम्नैः द्योतमानैर्यशोभिः “द्युम्नवत्तमः अतिशयेन यशस्वी हे “स्वधापते स्वधाया अन्नस्य सोमलक्षणस्य पालक “इन्द्र “सः “सोमः अभिषुतः सन् "ते तव “मदः मदकरः “अस्ति भवति ।


यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् ।

सोम॑ः सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑ः ॥२

यः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥२

यः । शग्मः । तुविऽशग्म । ते । रायः । दामा । मतीनाम् ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥२

हे "तुविशग्म बहुसुखेन्द्र “यः “शग्मः सुखकरः “ते त्वदीयः यः सोमः “मतीनां स्तोतॄणां “रायः धनस्य "दामा दाता भवति हे "स्वधापते “इन्द्र “सः “सोमः अभिषुतस्तव मदकरो भवति ।


येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभि॑ः ।

सोम॑ः सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑ः ॥३

येन॑ । वृ॒द्धः । न । शव॑सा । तु॒रः । न । स्वाभिः॑ । ऊ॒तिऽभिः॑ ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥३

येन । वृद्धः । न । शवसा । तुरः । न । स्वाभिः । ऊतिऽभिः ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥३

इमौ नशब्दौ समुच्चयार्थौ । “येन पीतेन सोमेन “वृद्धो “न प्रवृद्धश्च सन् “स्वाभिरूतिभिः आत्मीयैर्मरुद्भिः सार्धं “शवसा बलेन तुरः शत्रूणां हिंसकश्च भवसि स सोम इत्यादि पूर्ववत् ।।


पृष्ठयषडहस्य चतुर्थेऽहनि प्रउगशस्त्रे त्यमु वः' इत्यैन्द्रस्तृचः । सूत्रितं च--- त्यमु वो अप्रहणमप त्यं वृजिनं रिपुम्' (आश्व. श्रौ. ७. ११ ) इति ।।

त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति॑म् ।

इन्द्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ॥४

त्यम् । ऊं॒ इति॑ । वः॒ । अप्र॑ऽहनम् । गृ॒णी॒षे । शव॑सः । पति॑म् ।

इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् । वि॒श्वऽच॑र्षणिम् ॥४

त्यम् । ऊं इति । वः । अप्रऽहनम् । गृणीषे । शवसः । पतिम् ।

इन्द्रम् । विश्वऽसहम् । नरम् । मंहिष्ठम् । विश्वऽचर्षणिम् ॥४

हे ऋविग्यजमानाः “वः युष्मदर्थं “त्यमु तमेव “इन्द्रं “गृणीषे स्तौमि । यद्वा । वो यूयं गृणीषे गृणीत स्तुत । वचनव्यत्ययः । कीदृशमिन्दम् । “अप्रहणम् अप्रहन्तारं भक्तानामनुग्राहकं “शवसः बलस्य “पतिं पालकं “विश्वासाहं विश्वस्य शत्रोरभिभवितारं “नरं नेतारं “मंहिष्ठं दातृतमं “विश्वचर्षणिं सर्वस्य द्रष्टारम् ।।


यं व॒र्धय॒न्तीद्गिर॒ः पतिं॑ तु॒रस्य॒ राध॑सः ।

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥५

यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः ।

तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥५

यम् । वर्धयन्ति । इत् । गिरः । पतिम् । तुरस्य । राधसः ।

तम् । इत् । नु । अस्य । रोदसी इति । देवी इति । शुष्मम् । सपर्यतः ॥५

“गिरः स्तुतय इन्द्रसंबन्धिनं “यम् “इत् यमेव शुष्मं बलं “वर्धयन्ति । कीदृशम् । “पतिम् ईश्वरम् । कस्य । “तुरस्य हिंसकस्य शत्रोः “राधसः धनस्य । शत्रुधनानामपहर्तारमित्यर्थः । “अस्य इन्द्रस्य “तमित् तमेव “शुष्मं शोषकं बलं “देवी देवनशीले “रोदसी द्यावापृथिव्यौ “नु क्षिप्रं “सपर्यतः परिचरतः ॥ ॥ १६ ॥


तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृणी॒षणि॑ ।

विपो॒ न यस्यो॒तयो॒ वि यद्रोह॑न्ति स॒क्षित॑ः ॥६

तत् । वः॒ । उ॒क्थस्य॑ । ब॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तृ॒णी॒षणि॑ ।

विपः॑ । न । यस्य॑ । ऊ॒तयः॑ । वि । यत् । रोह॑न्ति । स॒ऽक्षितः॑ ॥६

तत् । वः । उक्थस्य । बर्हणा । इन्द्राय । उपऽस्तृणीषणि ।

विपः । न । यस्य । ऊतयः । वि । यत् । रोहन्ति । सऽक्षितः ॥६

हे स्तोतारः “वः युष्मदीयस्य “उक्थस्य स्तोत्रस्य “तत् “बर्हणा बृहत्वं माहात्म्यम् “इन्द्राय इन्द्रार्थम् उपस्तृणीषणि उपस्तरणीयम् । उपेत्य विस्तरणीयम् । इन्द्रो यथा स्तोत्रस्य माहात्म्यं जानीयात् तथा विस्तार्यत इत्यर्थः । “यस्य इन्द्रस्य “ऊतयः रक्षाः “विपो “न मेधाविन इव भवन्ति । सर्वकार्यकुशला इत्यर्थः । यद्वा नेति पूरकः । विपो विप्रस्य मेधाविनो यस्येन्द्रस्येति योज्यम् । “यत् यस्मिंश्चेन्द्रे “सक्षितः समाननिवासाः संहता ऊतयः “वि “रोहन्ति प्रादुर्भवन्ति तस्मा इन्द्रायेत्यर्थः ॥


अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् ।

स॒स॒वान्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥७

अवि॑दत् । दक्ष॑म् । मि॒त्रः । नवी॑यान् । प॒पा॒नः । दे॒वेभ्यः॑ । वस्यः॑ । अ॒चै॒त् ।

स॒स॒ऽवान् । स्तौ॒लाभिः॑ । धौ॒तरी॑भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि॑ऽभ्यः ॥७

अविदत् । दक्षम् । मित्रः । नवीयान् । पपानः । देवेभ्यः । वस्यः । अचैत् ।

ससऽवान् । स्तौलाभिः । धौतरीभिः । उरुष्या । पायुः । अभवत् । सखिऽभ्यः ॥७

स इन्द्रः “दक्षं कर्मसु समर्थं प्रवृद्धं वा यष्टारम् “अविदत् जानाति । कीदृशः । “मित्रः मित्रभूतः "नवीयान् नवतरः कल्याणतरः स्तुत्यतरो वा। स च 'पपानः सोमं पिबन् “देवेभ्यः स्तोतृभ्यः “वस्यः वसीयः श्रेष्ठं धनम् “अचैत् चिनोति उपचितं करोति ददातीति यावत् । अपि च “ससवान् । ससमित्यन्ननाम । हविर्लक्षणान्नोपेतः स इन्द्रः “स्तौलाभिः स्थूलाभिः प्रवृद्धाभिः “धौतरीभिः कम्पनकारिणीभिर्वडवाभिरीदृशैर्मरुद्भिर्वा युक्तः सन् “सखिभ्यः स्तोतृभ्यः “उरुष्या रक्षणेच्छया आगत्य “पायुरभवत् रक्षको भवति । यद्वा । ससवानिति सनतेः क्वसौ रूपम् । स्तौलाभिधौंतरीभिः ससवान् संभजमान इति संबन्धः ।।


ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् ।

दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥८

ऋ॒तस्य॑ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां॑सि । दे॒वासः॑ । अ॒क्र॒न् ।

दधा॑नः । नाम॑ । म॒हः । वचः॑ऽभिः । वपुः॑ । दृ॒शये॑ । वे॒न्यः । वि । आ॒व॒रित्या॑वः ॥८

ऋतस्य । पथि । वेधाः । अपायि । श्रिये । मनांसि । देवासः । अक्रन् ।

दधानः । नाम । महः । वचःऽभिः । वपुः । दृशये । वेन्यः । वि । आवरित्यावः ॥८

“ऋतस्य यज्ञस्य “पथि मार्गे “वेधाः विधाता सर्वस्य द्रष्टा सोमः “अपायि । इन्द्रेण पीतोऽभूत् । यद्वा । बेधा विधातेन्द्रोऽपायि । सोमं पिबतु ॥ व्यत्ययेन कर्तरि चिण् ॥ तस्मिन् सोमे इन्द्रस्य “मनांसि “श्रिये श्रयितुं “देवासः देवाः स्तोतारः ऋत्विज: “अक्रन् कर्माणि कुर्वन्ति । स चेन्द्रः "नाम शत्रूणां नामकं “महः महदात्मीयं “वपुः शरीरं “दधानः धारयन् “वचोभिः स्तुतिभिः “वेन्यः वननीयः संभजनीयश्च सन् “दृशये दर्शनार्थं “व्यावः विवृणोतु प्रकाशयतु । अनुकूलं तेज इति शेषः । यद्वा । वेन्य इति वेनतेः कान्तिकर्मणो रूपं वपुरिति च रूपनाम । वेन्यः कमनीयो। वपुर्भास्वरं रूपं दृशये दर्शनार्थं व्यावः विवृणोतु वचोभिः स्तूयमानः सन् ॥ ।


द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः ।

वर्षी॑यो॒ वय॑ः कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥९

द्यु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । सेध॑ । जना॑नाम् । पू॒र्वीः । अरा॑तीः ।

वर्षी॑यः । वयः॑ । कृ॒णु॒हि॒ । शची॑भिः । धन॑स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥९

द्युमत्ऽतमम् । दक्षम् । धेहि । अस्मे इति । सेध । जनानाम् । पूर्वीः । अरातीः ।

वर्षीयः । वयः । कृणुहि । शचीभिः । धनस्य । सातौ । अस्मान् । अविड्ढि ॥९

हे इन्द्र “द्युमत्तमं दीप्तिमत्तमं “दक्षं बलम् “अस्मे अस्मासु “धेहि धारय । “जनानां स्तोतॄणामस्माकं “पूर्वीः बह्वीः “अरातीः शत्रुसेनाः “सेध निषेध निवारय । अपि चास्माकं “वर्षीयः वृद्धतरं “वयः अन्नं “शचीभिः आत्मीयाभि: प्रज्ञाभिः “कृणुहि कुरु । तथा “धनस्य “सातौ संभजने "अस्मानविड्ढि गमय । यद्वा । धनस्य संभजनार्थमस्मान् रक्ष ॥


इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः ।

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ॥१०

इन्द्र॑ । तुभ्य॑म् । इत् । म॒घ॒ऽव॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ।

नकिः॑ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒ऽत्रा । किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नम् । त्वा॒ । आ॒हुः॒ ॥१०

इन्द्र । तुभ्यम् । इत् । मघऽवन् । अभूम । वयम् । दात्रे । हरिऽवः । मा । वि । वेनः ।

नकिः । आपिः । ददृशे । मर्त्यऽत्रा । किम् । अङ्ग । रध्रऽचोदनम् । त्वा । आहुः ॥१०

हे “मघवन् धनवन् “इन्द्र "दात्रे कामानां दात्रे “तुभ्यमित् तुभ्यमेव “वयं शेषभूताः “अभूम । यद्वा । त्वदर्थमेव दात्रे हविषां दात्रे वर्तमाना अभूम । हे "हरिवः हरिवन्निन्द्र अतः कारणात् “मा “वि “वेनः मा विगतकामो भूः । अस्मान् सर्वदा कामयस्व । वेनतिः कान्तिकर्मा । “मर्त्यत्रा मर्त्येषु मनुष्येषु मध्ये "आपिः बन्धुस्त्वत्तोऽन्यः कश्चिदपि “नकिः “ददृशे नैव दृश्यते । किमनेन विशेषकथनेन । “अङ्ग हे इन्द्र “त्वा त्वां “रध्रचोदनं रध्रस्य राधकस्य समृद्धस्य धनस्य चोदने चोदयितारम् “आहुः कथयन्ति पुराजाः ॥ ॥ १७ ॥


मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वत॑ः स॒ख्ये रि॑षाम ।

पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥११

मा । जस्व॑ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः॑ । स॒ख्ये । रि॒षा॒म॒ ।

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒ऽसिधः॑ । जने॑षु । ज॒हि । असु॑स्वीन् । प्र । वृ॒ह॒ । अपृ॑णतः ॥११

मा । जस्वने । वृषभ । नः । ररीथाः । मा । ते । रेवतः । सख्ये । रिषाम ।

पूर्वीः । ते । इन्द्र । निःऽसिधः । जनेषु । जहि । असुस्वीन् । प्र । वृह । अपृणतः ॥११

हे “वृषभ कामानां वर्षितरिन्द्र “जस्वने । जसिरुपक्षयकर्मा । उपक्षपयित्रे राक्षसादये "नः अस्मान् “मा “ररीथाः मा दाः । “रेवतः धनवतः "ते तव “सख्ये सखित्वे वर्तमाना वयं “मा “रिषाम हिंसिता मा भूम । हे “इन्द्र “ते त्वदीयाः “पूर्वीः बह्वीः “निष्षिधः निःषेधा निवारणानि “जनेषु शत्रुषु निहिताः सन्ति । यद्वा । निष्षिधो निषेधार्था रज्जवः। ताः शत्रुजनेषु तव बह्व्यो विद्यन्ते । अतः कारणात् "असुष्वीन् अनभिषोतॄनयजमानान् “जहि मारय । “अपृणतः हवींष्यप्रयच्छतश्च “प्र “वृह उन्मूलय । ' पृण दाने' इति धातुः ।।


उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ ।

त्वम॑सि प्र॒दिव॑ः का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोन॑ः ॥१२

उत् । अ॒भ्राणि॑ऽइव । स्त॒नय॑न् । इ॒य॒र्ति॒ । इन्द्रः॑ । राधां॑सि । अश्व्या॑नि । गव्या॑ ।

त्वम् । अ॒सि॒ । प्र॒ऽदिवः॑ । का॒रुऽधा॑याः । मा । त्वा॒ । अ॒दा॒मानः॑ । आ । द॒भ॒न् । म॒घोनः॑ ॥१२

उत् । अभ्राणिऽइव । स्तनयन् । इयर्ति । इन्द्रः । राधांसि । अश्व्यानि । गव्या ।

त्वम् । असि । प्रऽदिवः । कारुऽधायाः । मा । त्वा । अदामानः । आ । दभन् । मघोनः ॥१२

“अभ्राणीव “स्तनयन् गर्जयन् पर्जन्यो यथा मेघानुद्गमयत्येवम् “इन्द्रः “अश्व्यानि अश्वसंबन्धीनि “गव्या गव्यानि गोसंबन्धीनि एतत्समूहद्वयरूपाणि "राधांसि धनानि “उत् “इयर्ति उदीरयति । उद्गमयति स्तोतृभ्यो दातुम् । उत्तरार्धः प्रत्यक्षकृतः । हे इन्द्र “प्रदिवः पुराणः “त्वं “कारुधायाः कारूणां स्तोतॄणां धारयिता "असि भवसि । तादृशं “त्वा त्वां “मघोनः धनवन्तः कृपणाः ”अदामानः हविषामदातारः “मा “आ “दभन् मा हिंसिषुः । यद्वा । वचनव्यत्ययः। मघवानं धनवन्तं त्वामिति संबन्धः ॥


अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ ।

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥१३

अध्व॑र्यो॒ इति॑ । वी॒र॒ । प्र । म॒हे । सु॒ताना॑म् । इन्द्रा॑य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा॑ ।

यः । पू॒र्व्याभिः॑ । उ॒त । नूत॑नाभिः । गीः॒ऽभिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी॑णाम् ॥१३

अध्वर्यो इति । वीर । प्र । महे । सुतानाम् । इन्द्राय । भर । सः । हि । अस्य । राजा ।

यः । पूर्व्याभिः । उत । नूतनाभिः । गीःऽभिः । ववृधे । गृणताम् । ऋषीणाम् ॥१३

हे “वीर हविषां विशेषेण प्रेरयितः “अध्वर्यो “महे महते अस्मै “इन्द्राय "सुतानाम् । कर्मणि षष्ठी । सुतानभिषुतान् सोमान् “प्र “भर प्रहर प्रगमय । “स “हि खलु इन्द्रः “अस्य सोमस्य “राजा स्वामी भवति । “यः इन्द्रः “पूर्व्याभिः पूर्वकाले कृताभिः “उत अपि च “नूतनाभिः इदानीं क्रियमाणाभिः “गृणतां स्तुवताम् “ऋषीणां संबन्धिनीभिः “गीर्भिः उभयविधाभिः स्तुतिभिः “वावृधे वर्धते । स इन्द्रो यस्मात् सोमस्य राजा तस्मादस्मै सोमः प्रदेय इत्यर्थः ॥


प्रथमे रात्रिपर्याये मैत्रावरुणस्य ‘अस्य मदे' इति शस्त्रयाज्या । सूत्रितं च- अस्य मदे पुरु वर्पांसि विद्वानिति याज्या' (आश्व. श्रौ. ६. ४ ) इति ।।

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान ।

तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥१४

अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ ।

तम् । ऊं॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥१४

अस्य । मदे । पुरु । वर्पांसि । विद्वान् । इन्द्रः । वृत्राणि । अप्रति । जघान ।

तम् । ऊं इति । प्र । होषि । मधुऽमन्तम् । अस्मै । सोमम् । वीराय । शिप्रिणे । पिबध्यै ॥१४

“अस्य सोमस्य पानेन “मदे हर्षे सति “विद्वान् अभिज्ञः “इन्द्रः “पुरु पुरूणि बहूनि “वर्पाँसि आवरकाणि “वृत्राणि शत्रून् “अप्रति स्वयमन्यैरप्रतिगतः सन् “जघान हतवान् । यद्वा । वर्प इति रूपनाम । बहूनि वर्पांस्यसुरमायया निर्मितानि रूपाणि विद्वान् जानन्निन्द्रो वृत्राणि आवरकाणि रक्षःप्रभृतीनि इतः पूर्वमन्यैरप्रतिगतानि जघान हतवान् । “मधुमन्तं माधुर्यवन्तं “तमु तमेव “सोमं “शिप्रिणे शोभनहनुकाय “अस्मै “वीराय शत्रूणां वीरयित्र इन्द्राय “पिबध्यै पातुं “प्र “होषि हे अध्वर्यो प्रजुहुधि ।।


द्वितीये रात्रिपर्याये मैत्रावरुणस्यैव ‘पाता सुतम्' इति शस्त्रयाज्या । सूत्रितं च-’ पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रमिति याज्या' (आश्व. श्रौ. ६. ४ ) इति ॥

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः ।

गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥१५

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः ।

गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥१५

पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः ।

गन्ता । यज्ञम् । पराऽवतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारुऽधायाः ॥१५

अयम् “इन्द्रः “सुतम् अभिषुतं “सोमं “पाता “अस्तु साधु पाता भवतु ॥ साधुकारिणि तृन् । अत एव ‘न लोकाव्यय ' इति षष्ठीप्रतिषेधात् द्वितीया । एवं हन्तेत्यादावपि द्रष्टव्यम् ॥ तेन च सोमेन “मन्दसानः माद्यन् “वज्रेण आयुधेन “वृत्रम् आवरकं शत्रुं “हन्ता अस्तु भवतु । एतदुभयार्थं “परावतश्चित् दूरदेशादपि "यज्ञम् “अच्छ अस्मदीयं यज्ञमभि “गन्ता भवतु । दूरदेशस्थोऽपि शीघ्रमस्मद्यज्ञे सोमपानाय आगच्छत्वित्यर्थः। कीदृश इन्द्रः। “वसुः सर्वेषां निवासयिता “धीनां ध्यातॄणां स्तोतॄणां कर्मणां वा “अविता रक्षिता “कारुधायाः कारूणां कर्तॄणां यजमानानां धारयिता ॥ ॥ १८ ॥


तृतीये रात्रिपर्याये प्रशास्तुः ‘इदं त्यत्' इति शस्त्रयाज्या । सूत्रितं च - 'इदं त्यत्पात्रमिन्द्रपानमिति याज्या' (आश्व. श्रौ. ६. ४ ) इति ॥

इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि ।

मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंह॑ः ॥१६

इ॒दम् । त्यत् । पात्र॑म् । इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यम् । अ॒मृत॑म् । अ॒पा॒यि॒ ।

मत्स॑त् । यथा॑ । सौ॒म॒न॒साय॑ । दे॒वम् । वि । अ॒स्मत् । द्वेषः॑ । यु॒यव॑त् । वि । अंहः॑ ॥१६

इदम् । त्यत् । पात्रम् । इन्द्रऽपानम् । इन्द्रस्य । प्रियम् । अमृतम् । अपायि ।

मत्सत् । यथा । सौमनसाय । देवम् । वि । अस्मत् । द्वेषः । युयवत् । वि । अंहः ॥१६

“पात्रं पातव्यम् “इन्द्रपानम् इन्द्रस्य पानार्हम् “इन्द्रस्य "प्रियम् अनुकूलं “त्यत् तत् “इदं सोमात्मकम् “अमृतमपायि । इन्द्रः पिबतु ॥ व्यत्ययेन कर्तरि चिण् ॥ यद्वा । एतदमृतमपायि । इन्द्रेण पीयताम् । “यथा येन प्रकारेण पीतः सोमः “सौमनसाय सुमनस्त्वाय “देवम् इन्द्रं “मत्सत् मादयेत्तथा पीयतामित्यर्थः । स पीतसोम इन्द्रः “द्वेषः द्वेष्टॄन् “अस्मत् अस्मत्तः “वि “युयवत् वियोजयतु । “अंहः पापं चास्मत्तो वियोजयतु ।।४॥


ए॒ना म॑न्दा॒नो ज॒हि शू॑र॒ शत्रू॑ञ्जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् ।

अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ॥१७

ए॒ना । म॒न्दा॒नः । ज॒हि । शू॒र॒ । शत्रू॑न् । जा॒मिम् । अजा॑मिम् । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् ।

अ॒भि॒ऽसे॒नान् । अ॒भि । आ॒ऽदेदि॑शानान् । परा॑चः । इ॒न्द्र॒ । प्र । मृ॒ण॒ । ज॒हि । च॒ ॥१७

एना । मन्दानः । जहि । शूर । शत्रून् । जामिम् । अजामिम् । मघऽवन् । अमित्रान् ।

अभिऽसेनान् । अभि । आऽदेदिशानान् । पराचः । इन्द्र । प्र । मृण । जहि । च ॥१७

हे मघवन् धनवन् “शूर शौर्यवन्निन्द्र “एना एनेन प्रकृतेनानेन सोमेन “मन्दानः मन्दमानो माद्यन् “जामिं ज्ञातिम् “अजामिं तद्विलक्षणमेवमुभयविधान् “अमित्रान् अस्मत्प्रतिकूलाचरणपरान् “शत्रून् “जहि हिंसितान् कुरु । किंच “अभिषेणान् अस्मान्प्रत्यभिगताः सेना येषां तादृशानस्मदभिमुखम् “आदेदिशानान् आयुधानि पुनःपुनरादिशतो विसृजतः शत्रूंश्च हे “इन्द्र “पराचः “प्र “मृण । ते यथा पराङ्मुखा भवन्ति तथा बाधस्व । तदनन्तरं तान् "जहि “च ॥॥१५॥


आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं क॑ः ।

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥१८

आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः ।

अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥१८

आसु । स्म । नः । मघऽवन् । इन्द्र । पृत्ऽसु । अस्मभ्यम् । महि । वरिवः । सुऽगम् । करिति कः ।

अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम् ॥१८

हे “मघवन् धनवन् “इन्द्र “नः अस्मदीयासु “आसु “पृत्सु पृतनासु संग्रामेषु “अस्मभ्यं “महि महत् “सुगं सुखेन प्राप्यं “वरिवः धनं “कः कुरु । “स्म इति पूरणः ॥ अपि च हे “इन्द्र अपाम् आप्तव्यानां धनानां वा उदकानां वा “तोकस्य पुत्रस्य “तनयस्य पौत्रस्य च “जेषे जयार्थं “सूरीन् स्तोतॄन् “नः अस्मान् “अर्धम् अर्धान् समृद्धान् “कृणुहि कुरु । यद्वा । अर्धकारिणः शत्रूणां खण्डयितॄन् कुरु । "स्म इति पूरकः ।


आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्या॑ः ।

अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहन्तु ॥१९

आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जा॒नाः । वृष॑ऽरथासः । वृष॑ऽरश्मयः । अत्याः॑ ।

अ॒स्म॒त्राञ्चः॑ । वृष॑णः । व॒ज्र॒ऽवाहः॑ । वृष्णे॑ । मदा॑य । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ ॥१९

आ । त्वा । हरयः । वृषणः । युजानाः । वृषऽरथासः । वृषऽरश्मयः । अत्याः ।

अस्मत्राञ्चः । वृषणः । वज्रऽवाहः । वृष्णे । मदाय । सुऽयुजः । वहन्तु ॥१९

हे इन्द्र “त्वा त्वां “हरयः अश्वाः “वृष्णे वर्षित्रे "मदाय मदकराय सोमायेदृशं सोमं पाययितुम् “आ “वहन्तु । कीदृशा अश्वाः । “वृषणः कामानां वर्षितारः "युजानाः स्वयमेव रथे युज्यमानाः “वृषरथासः । वृषा कामाभिवर्षको रथो येषां ते तथोक्ताः । “वृषरश्मयः । वर्षितारो रश्मयः प्रग्रहा येषां तादृशाः । “अत्याः सततगामिनः “अस्मत्राञ्चः अस्मान् प्रत्यञ्चन्तो गच्छन्तः “वृषणः नित्यतरुणाः “वज्रवाहः वज्रादीन्यायुधानि वहन्तः “सुयुजः शोभनयोजनाः ।।


आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद॑न्तः ।

इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरन्ति वृष॒भाय॒ सोम॑म् ॥२०

आ । ते॒ । वृ॒ष॒न् । वृष॑णः । द्रोण॑म् । अ॒स्थुः॒ । घृ॒त॒ऽप्रुषः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः ।

इन्द्र॑ । प्र । तुभ्य॑म् । वृष॑ऽभिः । सु॒ताना॑म् । वृष्णे॑ । भ॒र॒न्ति॒ । वृ॒ष॒भाय॑ । सोम॑म् ॥२०

आ । ते । वृषन् । वृषणः । द्रोणम् । अस्थुः । घृतऽप्रुषः । न । ऊर्मयः । मदन्तः ।

इन्द्र । प्र । तुभ्यम् । वृषऽभिः । सुतानाम् । वृष्णे । भरन्ति । वृषभाय । सोमम् ॥२०

हे “वृषन् कामानां वर्षितरिन्द्र "वृषणः सेक्तारो युवानस्त्वदीया अश्वाः “घृतप्रुषः “नोर्मयः घृतमुदकं सिञ्चन्तः सामुद्रास्तरङ्गा इव “मदन्तः हृष्यन्तो मत्ताः सन्तः “ते त्वदीयं “द्रोणं द्रुममयं रथम् “आ “अस्थुः आतिष्ठन्त । अतस्त्वमागच्छेति भावः । कुत इत्यत आह । हे “इन्द्र “वृष्णे यूने नित्यतरुणाय “वृषभाय कामानां वर्षयित्रे “तुभ्यं “वृषभिः कामाभिवर्षकैर्ग्रावभिः “सुतानाम् अभिषुतानां सोमानां मध्ये त्वद्भागरूपं “सोमं यस्मादध्वर्यवः “प्र “भरन्ति प्रहरन्ति होमार्थं प्रणयन्ति तस्मादागच्छेत्यर्थः ॥ ॥ १९ ॥


वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।

वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥२१

वृषा॑ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा॑ । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।

वृष्णे॑ । ते॒ । इन्दुः॑ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः॑ । म॒धु॒ऽपेयः॑ । वरा॑य ॥२१

वृषा । असि । दिवः । वृषभः । पृथिव्याः । वृषा । सिन्धूनाम् । वृषभः । स्तियानाम् ।

वृष्णे । ते । इन्दुः । वृषभ । पीपाय । स्वादुः । रसः । मधुऽपेयः । वराय ॥२१

हे इन्द्र त्वं “दिवः द्युलोकस्य “वृषासि । हविर्भिः सेक्ता भवसि । “पृथिव्याः भूमेश्च “वृषभः कामानां वर्षिता । “सिन्धूनां स्यन्दनशीलानां च नदीनां “वृषा वर्षेण पूरयितासि । तथा “स्तियानां संघीभूतानां स्थावरजङ्गमात्मनां प्राणिनां “वृषभः कामानां वर्षिता भवसि । यद्वा । स्तियाः संघीभूता आपः । तासां वर्षितासि । “वृषभ कामानां वर्षकेन्द्र “वराय श्रेष्ठाय “वृष्णे सेक्त्रे "ते तुभ्यं त्वदर्थं “स्वादुः मधुरः “रसः रसनीयः प्रशस्यो रसवान् वा रसात्मको वा “मधुपेयः मधुवत् पातव्यः “इन्दुः सोमः “पीपाय प्यायते वर्धते । अतस्त्वमागत्य तं सोमं पिबेति भावः ।


अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् ।

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥२२

अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।

अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥२२

अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् ।

अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः ॥२२

“देवः द्योतमानः “अयम् “इन्दुः सोमः “इन्द्रेण "युजा सख्या सह “जायमानः प्रादुर्भवन् “पणि वणिजं गवामादातारं वलाख्यमसुरम् । यद्वा । पणीनां स्वामित्वात् पणिरित्युच्यते । तमसुरं “सहसा बलेन “अस्तभायत् अस्तभ्नात् न्यरुधत् । अपि च “स्वस्य धनस्य गोरूपस्य “पितुः पालयितुः “अशिवस्य असुखकरस्य वलस्य “आयुधानि वज्रादीनि "अमुष्णात् अपाहरत् । तदीयाः “मायाः च अमुष्णात् । हे इन्द्र त्वत्सख्यबलादेतत्सर्वं सोमः कृतवान् अतस्तव महिमा केन वर्णयितुं शक्यत इतीन्द्रस्तुतिः ॥


अ॒यम॑कृणोदु॒षस॑ः सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः ।

अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥२३

अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ ।

अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥२३

अयम् । अकृणोत् । उषसः । सुऽपत्नीः । अयम् । सूर्ये । अदधात् । ज्योतिः । अन्तरिति ।

अयम् । त्रिऽधातु । दिवि । रोचनेषु । त्रितेषु । विन्दत् । अमृतम् । निऽगूळ्हम् ॥२३

"अयं सोमः “उषसः उषःकालान् “सुपत्नीः शोभनः पतिः पालकः सूर्यो यासामुषसां तादृशीः “अकृणोत् अकरोत् । “अयम् एव “सूर्ये सूर्यमण्डले “अन्तः मध्ये "ज्योतिः तेजः “अदधात् निहितवान् । “त्रिधातु सवनत्रयरूपेण त्रिप्रकारम् “अयं लतारूपः सोमः “दिवि द्युलोके “रोचनेषु रोचमानेषु “त्रितेषु तृतीये स्थाने ततेषु विस्तृतेषु देवेषु “निगूळ्हं नितरां गूढमदृश्यतया वर्तमानम् “अमृतम् अमृतत्वकारणं पीयूषं “विन्दत् अविन्दत् अलभत । हे इन्द्र त्वत्साहाय्यादेवमेवं सोमः कृतवानिति इन्द्रस्य स्तुतिरधिगन्तव्या। यद्वा । इदंशब्देनेन्द्र एव परामृश्यते । अयमिन्द्र उषसः शोभनपतिका अकरोत् । अयमेव सूर्येऽन्तर्ज्योतिरदधात् । दिवि द्युलोके रोचमानेषु त्रितेषु त्रिस्थानगतेषु देवेषु मध्येऽयमेवेन्द्रस्त्रिधातु सवनत्रयात्मना त्रिप्रकारं निगूढ़ं पात्रैः संवृतममृतममरणहेतुभूतं सोममन्विदत् अलभत ॥


अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् ।

अ॒यं गोषु॒ शच्या॑ प॒क्वम॒न्तः सोमो॑ दाधार॒ दश॑यन्त्र॒मुत्स॑म् ॥२४

अ॒यम् । द्यावा॑पृथि॒वी इति॑ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ॑म् । अ॒यु॒न॒क् । स॒प्तऽर॑श्मिम् ।

अ॒यम् । गोषु॑ । शच्या॑ । प॒क्वम् । अ॒न्तरिति॑ । सोमः॑ । दा॒धा॒र॒ । दश॑ऽयन्त्रम् । उत्स॑म् ॥२४

अयम् । द्यावापृथिवी इति । वि । स्कभायत् । अयम् । रथम् । अयुनक् । सप्तऽरश्मिम् ।

अयम् । गोषु । शच्या । पक्वम् । अन्तरिति । सोमः । दाधार । दशऽयन्त्रम् । उत्सम् ॥२४

“अयं सोमः “द्यावापृथिवी दिवं च पृथिवीं च "वि “ष्कभायत् विविधमस्थापयत्। अपि च "अयं सोमः सूर्यस्य च “रथं "सप्तरश्मिं सप्तरश्मिभिः किरणैरुपेतं सप्ताश्वं सप्तचक्रं वा “अयुनक् अयोजयत्।। तथा “अयं “सोमः “गोषु “अन्तः मध्ये "पक्वं निष्पन्नं “शच्या प्रज्ञया संकल्परूपया “उत्सम् उत्सरणशीलं पयः “दाधार धारयति । “दशयन्त्रम् । उत्सस्य हेतुगर्भविशेषणमेतत् । उत्सरणहेतुभूतैर्दशभिश्चक्षुः श्रोत्रादिभिर्यन्त्रैरुपायैर्युक्तम् । इदं च पदं खैलिकेन मन्त्रान्तरेण व्याख्यायते- चक्षुश्च श्रोत्रं च मनश्च वाक्च प्राणापानौ देह इदं शरीरम् । द्वौ प्रत्यञ्चावनुलोमौ विसर्गावेतं तं मन्ये दशयन्त्रमुत्सम् । इति । यद्वा । अयमिन्द्रो द्यावापृथिवी वि ष्कभायत् । स्वे स्वे स्थाने स्थिते अकरोत् । अयमेव सप्तरश्मिं सूर्यस्य रथमयुनक् । अयमेवेन्द्रो गोष्वन्तः शच्यात्मीयेन कर्मणा पक्वं पयो धारयति । एवंभूतेन्द्रार्थं सोमो दशयन्त्रं दशसंख्याकैरैन्द्रवायवादिभिः ग्रहैर्यन्त्रितैर्गृहीतैरुपेतमुत्समुत्सरणशीलं रसं दाधार धारयति । प्रातःसवन ऐन्द्रवायवादयो दश ग्रहा गृह्यन्ते । तथा च ब्राह्मणं - नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति' (ऐ. ब्रा. ३. १ ) इति । अन्यत्राम्नातं--‘दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति' ( शा. ब्रा. १४. २ ) इति । तदभिप्रायेणेदं दशयन्त्रमिति विशेषणम् ॥ ॥ २० ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४४&oldid=188684" इत्यस्माद् प्रतिप्राप्तम्