ऋग्वेदः सूक्तं ६.४६

(ऋग्वेद: सूक्तं ६.४६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.४५ ऋग्वेदः - मण्डल ६
सूक्तं ६.४६
शंयुर्बार्हस्पत्यः
सूक्तं ६.४७ →
दे. इन्द्रः। प्रगाथः - (विषमा बृहती, समा सतोबृहती)।
बृहत् साम


त्वामिद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् ।
सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥३॥
बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।
अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥४॥
इन्द्र ज्येष्ठं न आ भरँ ओजिष्ठं पपुरि श्रवः ।
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥५॥
त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे ।
विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि ॥६॥
यदिन्द्र नाहुषीष्वाँ ओजो नृम्णं च कृष्टिषु ।
यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥७॥
यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् ।
अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥८॥
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥९॥
ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ॥१०॥
अध स्मा नो वृधे भवेन्द्र नायमवा युधि ।
यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥११॥
यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् ।
अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥१२॥
यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने ।
असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः ॥१३॥
सिन्धूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि ।
आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥१४॥


सायणभाष्यम्

‘ त्वामिद्धि' इति चतुर्दशर्चं तृतीयं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षमैन्द्रम् । प्रथमातृतीयाद्या अयुजो बृहत्यो द्वितीयाचतुर्थ्याद्या युजः सतोबृहत्यः । तथा चानुक्रान्तं-- त्वामिद्धि षळूना प्रागाथम्' इति । सूक्तविनियोगो लैङ्गिकः । यदि ज्योतिष्टोमो बृहत्पृष्ठः स्यात्तदानीं निष्केवल्यस्याद्यः प्रगाथः स्तोत्रियः । सूत्रितं च-’ यद्यु वै बृहत्त्वामिद्धि हवामहे' (आश्व. श्रौ. ५, १५) इति । महाव्रतेऽपि निष्केवल्येऽयं प्रगाथः शंसनीयः । तथैव पञ्चमारण्यके सूत्रितं-- त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ' ( ऐ. आ. ५. २. २) इति ।।


त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रव॑ः ।

त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥१

त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ।

त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥१

त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः ।

त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥१

“कारवः स्तोतारो वयं “वाजस्य अन्नस्य “साता सातौ संभजने निमित्तभूते सति हे इन्द्र “त्वामिद्धि त्वामेव “हवामहे स्तुतिभिराह्वयामः । हे “इन्द्र “सत्पतिं सतां पालयितारं श्रेष्ठं “त्वां “नरः अन्येऽपि मनुष्याः "वृत्रेषु आवरकेषु शत्रुषु सत्सु हवन्ते आह्वयन्ति तज्जयार्थम् । अपि च “अर्वतः अश्वस्य संबन्धिनीषु "काष्ठासु यत्राश्वः क्रान्त्वा तिष्ठति तासु काष्ठासु संग्रामेषु युद्धकामाश्च “त्वाम् एवाह्वयन्ति । अतो वयं त्वामेवाह्वयाम इत्यर्थः ॥


स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।

गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥२

सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ ।

गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥२

सः । त्वम् । नः । चित्र । वज्रऽहस्त । धृष्णुऽया । महः । स्तवानः । अद्रिऽवः ।

गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥२

हे “चित्र चायनीय “वज्रहस्त वज्रबाहो "अद्रिवः वज्रवन् । यद्वा । अदृणात्यनेनेत्यद्रिरशनिः । तद्वन् । एवंभूत “इन्द्र “धृष्णुया धृष्णुः शत्रूणां धर्षयिता “महः महान् “सः तादृशः “त्वं “स्तवानः अस्माभिः स्तूयमानः सन् “गां “रथ्यं रथवाहनम् “अश्वं च "सं "किर सम्यक् प्रयच्छ। “जिग्युषे जितवते पुरुषाय भोगार्थं “सत्रा महत् प्रभूतं “वाजं “न अन्नमिव । यथा शत्रून् जितवते भोगार्थं बह्वन्नं प्रयच्छसि तद्वत् ॥


महाव्रते निष्केवल्ये ‘यः सत्राहा' इत्यादिसूक्तशेषः शंसनीयः । सूत्र्यते हि-‘यः सत्राहा विचर्षणिरिति शेषोऽयं ते अस्तु हर्यत इति सूक्ते' ( ऐ. आ ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ‘यः सत्राहा' इति प्रगाथो वैकल्पिकोऽनुरूपः । सूत्रितं च -- यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः' (आश्व. श्रौ. ७. ४) इति ।।

यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् ।

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥३

यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।

सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥३

यः । सत्राऽहा । विऽचर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् ।

सहस्रऽमुष्क । तुविऽनृम्ण । सत्ऽपते । भव । समत्ऽसु । नः । वृधे ॥३

“यः इन्द्रः “सत्राहा महतां शत्रूणां हन्ता “विचर्षणिः विशेषेण सर्वस्य द्रष्टा “तम् “इन्द्रं “वयं "हूमहे स्तुतिपदैराह्वयामः । उत्तरार्धः प्रत्यक्षकृतः । हे “सहस्रमुष्क सहस्रशेफ । यां कां च स्त्रियं संभवन्निन्द्रो भोगलोलुपतया स्वशरीरे पर्वणि पर्वणि शेफान् ससर्जेति कौषीतकिभिराम्नातम् । तदभिप्रायेणेदं संबोधनम् । हे “तुविनृम्ण बहुधन “सत्पते सतां पालयितरिन्द्र “समत्सु संग्रामेषु “नः अस्माकं “वृधे वर्धनाय भव ॥


बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।

अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥४

बाध॑से । जना॑न् । वृ॒ष॒भाऽइ॑व । म॒न्युना॑ । घृषौ॑ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । त॒नूषु॑ । अ॒प्ऽसु । सूर्ये॑ ॥४

बाधसे । जनान् । वृषभाऽइव । मन्युना । घृषौ । मीळ्हे । ऋचीषम ।

अस्माकम् । बोधि । अविता । महाऽधने । तनूषु । अप्ऽसु । सूर्ये ॥४

हे "ऋचीषम ऋचा सम ऋग्यादृशं रूपं प्रतिपादयति तादृग्रूपेन्द्र “घृषौ शत्रूणां घर्षके बाधके “मीळ्हे संग्रामे “जनान् अस्मदीयान् शत्रून् “वृषभेव वृषभेणेव बलवता "मन्युना क्रोधेन बाधसे बाधस्व । तथा “महाधने महतो धनस्य निमित्तभूते संग्रामे च "अस्माकम् “अविता रक्षिता “बोधि बुध्य,व। रक्षितृत्वेनात्मानं जानीहि । रक्षको भवेति यावत् । किमर्थम् । “तनूषु तनयेषु "अप्सु उदके “सूर्ये च लब्धव्येषु सत्स्वेतेषां लाभार्थम् । सूर्यस्य लाभः संदर्शनम् । तदर्थमित्यर्थः ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘इन्द्र ज्येष्ठं न आ भर ' इति प्रगाथो वैकल्पिकोऽनुरूपः । सूत्रितं च--' इन्द्र ज्येष्ठं न आ भरा त्वा सहस्रमा शतम्' ( आश्व. श्रौ. ७. ४ इति ॥

इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रव॑ः ।

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥५

इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।

येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । प्राः ॥५

इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः ।

येन । इमे इति । चित्र । वज्रऽहस्त । रोदसी इति । आ । उभे इति । सुऽशिप्र । प्राः ॥५

हे "इन्द्र "ज्येष्ठं प्रशस्यतमम् “ओजिष्ठम् ओजस्वितममतिशयेन बलकरं "पपुरि पूरकं "श्रवः अन्नं "नः अस्मभ्यम् "आ "भर आहर प्रयच्छ। हे "चित्र चायनीय "वज्रहस्त वज्रबाहो हे "सुशिप्र शोभनहनुक एवंभूत हे इन्द्र "येन अन्नेन "इमे परिदृश्यमाने "उभे "रोदसी द्यावापृथिव्यौ "आ "प्राः आपूरयसि तदन्नमा भरेत्यन्वयः ॥ ॥ २७ ॥


त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे ।

विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्सु॒षहा॑न्कृधि ॥६

त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ।

विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥६

त्वाम् । उग्रम् । अवसे । चर्षणिऽसहम् । राजन् । देवेषु । हूमहे ।

विश्वा । सु । नः । विथुरा । पिब्दना । वसो इति । अमित्रान् । सुऽसहान् । कृधि ॥६

हे "राजन् राजमानेन्द्र "देवेषु देवानां मध्ये "उग्रम् उद्गूर्णबलं "चर्षणीसहं चर्षणीनां शत्रुभूतानां प्रजानामभिभवितारं "त्वाम् "अवसे रक्षणाय “हूमहे आह्वयामः । त्वं "विश्वा सर्वाणि "पिब्दना पिब्दनानि रक्षांसि । पिहितमव्यक्तं शब्दयन्त इति पिब्दनानि । पृषोदरादिः । तानि "सु सुष्ठु "विथुरा व्यथितानि बाधितानि कुरु । हे "वसो वासकेन्द्र "नः अस्मदीयान् "अमित्रान् शत्रूंश्च "सुषहान् सुखेनाभिभवितुं शक्यान् "कृधि कुरु ॥ ।


यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।

यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥७

यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ ।

यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥७

यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु ।

यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौंस्या ॥७

हे "इन्द्र "नाहुषीषु । नहुष इति मनुष्यनाम । तत्संबन्धिनीषु "कृष्टिषु प्रजासु । आकारः समुच्चये। "यत् च “ओजः बलं "नृम्णं धनं "च विद्यते । "यद्वा यच्च "पञ्च पञ्चानां "क्षितीनाम् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्च क्षितयः । तेषां स्वभूतं “द्युम्नं द्योतमानमन्नं तत् सर्वमस्मभ्यम् “आ “भर आहर प्रयच्छ । तथा "सत्रा महान्ति “विश्वानि सर्वाणि पौंस्यानि बलानि चास्मभ्यमाहर।


यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् ।

अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥८

यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् ।

अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥८

यत् । वा । तृक्षौ । मघऽवन् । द्रुह्यौ । आ । जने । यत् । पूरौ । कत् । च । वृष्ण्यम् ।

अस्मभ्यम् । तत् । रिरीहि । सम् । नृऽसह्ये । अमित्रान् । पृत्ऽसु । तुर्वणे ॥८

हे "मघवन् धनवन्निन्द्र “तृक्षौ एतत्संज्ञे राजनि "यद्वा यञ्च बलं विद्यते "द्रुह्यौ "आ द्रुह्यौ चैतत्संज्ञे च "जने यत् बलमस्ति । "पूरौ एतत्संज्ञे नृपे च "यत् "कच्च यत्किंचन “वृष्ण्यं वीर्यं विद्यते “तत् सर्वम् "अस्मभ्यं स्तोतृभ्यः "सं सम्यक् “रिरीहि प्रयच्छ। कदा। "नृसह्ये नृभिर्योद्धृभिः सोढव्ये युद्धे प्रवृत्ते । किमर्थम् । "पृत्सु पृतनासु संग्रामेषु "अमित्रान् शत्रून् “तुर्वणे तुर्वितुं हिंसितुम् ॥


चातुर्विंशिकेऽहनि निष्केवल्ये ‘इन्द्र त्रिधातु' इति वैरूपस्य सामप्रगाथः शंसनीयः । सूत्रितं च--- इन्द्र त्रिधातु शरणं त्वमिन्द्र प्रतूर्तिषु' ( आश्व. श्रौ. ७. ३) इति ॥

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥९

इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ।

छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥९

इन्द्र । त्रिऽधातु । शरणम् । त्रिऽवरूथम् । स्वस्तिऽमत् ।

छर्दिः । यच्छ । मघवत्ऽभ्यः । च । मह्यम् । च । यवय । दिद्युम् । एभ्यः ॥९

हे “इन्द्र “त्रिधातु त्रिप्रकारं त्रिभूमिकं "त्रिवरूथं त्रयाणां शीतातपवर्षाणां वारकं "स्वस्तिमत अविनाशयुक्तं “छर्दिः छदिष्मत् आच्छादनयुक्तमेवंगुणविशिष्टं "शरणं गृहं "मघवद्भ्यश्च । मघं हविर्लक्षणं धनम् । तद्वद्भ्यश्चास्मदीयेभ्यः “मह्यं भरद्वाजाय “च "यच्छ देहि । अपि च “एभ्यः सकाशात् "दिद्युं शत्रुप्रेरितं द्योतमानमायुधं "यवय पृथक्कुरु ॥


ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या ।

अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥१०

ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ।

अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥१०

ये । गव्यता । मनसा । शत्रुम् । आऽदभुः । अभिऽप्रघ्नन्ति । धृष्णुऽया ।

अध । स्म । नः । मघऽवन् । इन्द्र । गिर्वणः । तनूऽपाः । अन्तमः । भव ॥१०

“ये जना: “गव्यता शत्रूणां गा इच्छता "मनसा युक्ताः सन्त: "शत्रुं शातयितारं वैरिणम् "आदभुः अहिंसिषुः । ये च “धृष्णुया धृष्णवो धृष्टा : सन्तः अस्मानभिलक्ष्य "प्रघ्नन्ति प्रकर्षेण हिंसन्ति हे "मघवन् धनवन् "गिर्वण: गिरां संभक्त: “इन्द्र "अध "स्म अस्मिन् काले तेभ्यः सकाशात् "नः अस्माकं “तनूपाः तनूनां शरीराणां रक्षिता सन् "अन्तमः अन्तिकतमः “भव ॥ ॥ २८ ।।


अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि ।

यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥११

अध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । ना॒यम् । अ॒व॒ । यु॒धि ।

यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥११

अध । स्म । नः । वृधे । भव । इन्द्र । नायम् । अव । युधि ।

यत् । अन्तरिक्षे । पतयन्ति । पर्णिनः । दिद्यवः । तिग्मऽमूर्धानः ॥११

हे “इन्द्र "अध "स्म तदानीं “नः अस्माकं "वृधे वर्धनाय "भव । अपि च "नायं योऽस्माकं नयो नेता "युधि युद्धे तमपि "अव रक्ष। तदेत्युक्तं कदेत्याह । "पर्णिनः पक्षवन्तः "तिग्ममूर्धान: तीक्ष्णास्याः “दिद्यवः दीप्ता बाणा: "यत् यदा' “अन्तरिक्षे व्योम्नि “पतयन्ति शत्रुभिर्विसृष्टाः पतन्ति तदानीं वृधे भवेत्यन्वयः ॥


यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् ।

अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेष॑ः ॥१२

यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् ।

अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्दिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥१२

यत्र । शूरासः । तन्वः । विऽतन्वते । प्रिया । शर्म । पितॄणाम् ।

अध । स्म । यच्छ । तन्वे । तने । च । छर्दिः । अचित्तम् । यवय । द्वेषः ॥१२

“यत्र यस्मिन् काले “शूरासः शूराः शौर्यवन्तो योद्धारः "तन्वः स्वकीयानि शरीराणि “वितन्वते विस्तारयन्ति स्वामिनो जयाय शत्रूणां पुरतो दर्शयन्ति । तथास्मिन् काले “प्रिया प्रियाणि “शर्म शर्माणि स्थानानि “पितॄणां जनकानां संबन्धीनि । तैरर्जितानीति यावत् । एतानि च वितन्वते शत्रूणां पुरस्तात् विस्तारयन्ति । परित्यजन्तीति यावत् । "अध “स्म अस्मिन् काले “तन्वे शरीराय “तने तनयाय “च “छर्दिः छादनम् आयुधानां निवारकं कवचम् "अचित्तं शत्रुभिरज्ञातं यथा भवति तथा "यच्छ प्रयच्छ । शत्रुज्ञानात् पूर्वमेव देहीत्यर्थः । अपि च "द्वेषः द्वेष्टॄन शत्रून् "यावय तेभ्यो वियोजय ॥


यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।

अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥१३

यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने ।

अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥१३

यत् । इन्द्र । सर्गे । अर्वतः । चोदयासे । महाऽधने ।

असमने । अध्वनि । वृजिने । पथि । श्येनान्ऽइव । श्रवस्यतः ॥१३

हे “इन्द् "महाधने जेतव्यस्य महतो धनस्य निमित्ते महति संग्रामे “सर्गे उद्योगे सति “असमने विषमे "अध्वनि मार्गे "अर्वतः अस्मदीयानश्वान् "यत् यदा “चोदयासे प्रेरयसि । “वृजिने कुटिले "पथि मार्गेऽन्तरिक्षलक्षणे “श्रवस्यतः श्रवोऽन्नमामिषरूपमात्मन इच्छतः “श्येनानिव यथामिषार्थिनः श्येना अन्तरिक्षे शीघ्रं गच्छन्ति तथास्मदीयानश्वान् यदा त्वं शीघ्रं गसयसि तदानीमस्माकं तन्वे तनयाय च छर्दिर्यच्छेति पूर्वस्यामृचि संबन्धः ॥


सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥१४

सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ ।

आ । ये । वयः॑ । न । वर्वृ॑तति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥१४

सिन्धून्ऽइव । प्रवणे । आशुऽया । यतः । यदि । क्लोशम् । अनु । स्वनि ।

आ । ये । वयः । न । वर्वृतति । आमिषि । गृभीताः । बाह्वोः । गवि ॥१४

उक्तस्यैवार्थस्यातिशयप्रतिपादनार्थेयम् । "प्रवणे निम्नदेशे “सिन्धूनिव स्यन्दमाना नदीरिव “आशुया आशु शीघ्रं "यतः गच्छतोऽश्वान् हे इन्द्र "यदि चोदयासे प्रेरयसि। कदा । क्लोशमनु । क्लोश इति भयनाम । भयमनुलक्ष्य "स्वनि स्वने आक्रोशे सति । कीदृशास्ते अश्वाः । “बाह्वोः बाहुमूलयोः “गृभीताः कक्ष्यया बद्धाः "ये अश्वाः 'गवि गोरूपे धने जेतव्ये सति “आ “वर्वृतति पुनःपुनरावर्तन्ते । “आमिषि आमिषे मांसे ग्रहीतव्ये सति “वयो "न यथा श्येनादयः पक्षिणः पुनःपुनरावर्तन्ते तद्वत् । एवंभूतानश्वान् भयेन क्रोशे सति यदा त्वं प्रेरयसि तदानीमस्मदीयेभ्यश्छर्दिः प्रयच्छेति संबन्धः । यद्यपि ऋषेर्युद्धे प्रसक्तिर्नास्ति तथापि राजपुरोहितत्वेन राजकीयानां पुरुषाणां जयः प्रार्थ्यत इति न कश्चिद्विरोधः ॥ ॥ २९ ॥

टिप्पणी

६.४६.१ त्वामिद्धि हवामहे इति

बृहत्साम

जमदग्नेः सप्तहम्

AV. 20.98.1;

SV.1. 234;

2.159";

VS.27.37;

काम्येष्टियाज्यापुरोनुवाक्याः - TS.2.4.14.3;

MS.2.13.9": 158.18;

4.12.4: 188.14;

KS.12.15;

39.11,12;

त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं AB.4. 31.11;

त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन 5.4.21; 12.16; 16.20; 18.23; 20.20; 8.2.2;

त्वामिद्धि हवामह इति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः - PB. 11.9.1;

AA.5.2.2.5;

AÇ.5.15.3;

ज्योतिष्टोमे निष्केवल्यशस्त्रप्रकरणम् - त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः CC.7.20.4;

Vait.39.5;


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४६&oldid=403090" इत्यस्माद् प्रतिप्राप्तम्