ऋग्वेदः सूक्तं ६.६०

(ऋग्वेद: सूक्तं ६.६० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.५९ ऋग्वेदः - मण्डल ६
सूक्तं ६.६०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६१ →
दे. इन्द्राग्नी। गायत्री, १-३,१३ त्रिष्टुप्, १४ बृहती, १५ अनुष्टुप्


श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥१॥
ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः ।
दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥२॥
आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥३॥
ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् ।
इन्द्राग्नी न मर्धतः ॥४॥
उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
ता नो मृळात ईदृशे ॥५॥
हतो वृत्राण्यार्या हतो दासानि सत्पती ।
हतो विश्वा अप द्विषः ॥६॥
इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत ।
पिबतं शम्भुवा सुतम् ॥७॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिरा गतम् ॥८॥
ताभिरा गच्छतं नरोपेदं सवनं सुतम् ।
इन्द्राग्नी सोमपीतये ॥९॥
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
कृष्णा कृणोति जिह्वया ॥१०॥
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
द्युम्नाय सुतरा अपः ॥११॥
ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।
इन्द्रमग्निं च वोळ्हवे ॥१२॥
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।
उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥१३॥
आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् ।
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥१४॥
इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।
वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥१५॥


सायणभाष्यम्

‘ श्नथद्वृत्रम् ' इति पञ्चदशर्चमेकादशं सूक्तं भरद्वाजस्यार्षमैन्द्राग्नम् । आदौ तिस्रस्त्रिष्टुभः चतुर्थ्याद्या नव गायत्र्यः त्रयोदशी त्रिष्टुप् चतुर्दशी बृहती पञ्चदश्यनुष्टुप् । तथा चानुक्रान्तं -- ‘ श्नथत्पञ्चोना गायत्रं तु त्रित्रिष्टुबादि त्रिष्टुब्बृहत्यनुष्टुबन्तम् ' इति । गतः सूक्तविनियोगः । वरुणप्रघासेषु ऐन्द्राग्नस्य हविषः ‘श्नथत् ' इत्येषा याज्या । सूत्रितं च - ' इन्द्राग्नी अवसा गतं श्नथद्वृत्रमुत सनोति वाजम् ' (आश्व. श्रौ. २. १७) इति ॥


श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।

इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒ः सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥१

श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ । स॒प॒र्यात् ।

इ॒र॒ज्यन्ता॑ । व॒स॒व्य॑स्य । भूरेः॑ । सहः॑ऽतमा । सह॑सा । वा॒ज॒ऽयन्ता॑ ॥१

श्नथत् । वृत्रम् । उत । सनोति । वाजम् । इन्द्रा । यः । अग्नी इति । सहुरी इति । सपर्यात् ।

इरज्यन्ता । वसव्यस्य । भूरेः । सहःऽतमा । सहसा । वाजऽयन्ता ॥१

स पुरुषः “वृत्रम् आवरकं शत्रुं “श्नथत् हिनस्ति । "उत अपि च “वाजम् अन्नं बलं वा “सनोति लभते । “यः पुरुषः “सहुरी शत्रूणामभिभवितारौ इन्द्राग्नी “सपर्यात् परिचरेत् । इतरेतरयोगात् उभयत्र पूर्ववत् द्विवचनम् । कीदृशाविन्द्राग्नी । “भूरेः प्रभूतस्य “वसव्यस्य वसुसमूहस्य । यद्वा । स्वार्थिको यत् । धनस्य “इरज्यन्ता ईशानौ स्वामिनौ । इरज्यतिरैश्वर्यकर्मा। “सहसा बलेन “सहस्तमा अतिशयेनाभिभवितारौ शत्रूणां “वाजयन्ता वाजं हविर्लक्षणमन्नमात्मन इच्छन्तौ ।। यद्वा । वाजं स्तोतृभ्यो दातव्यमन्नं कामयमानौ ।।।


ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।

दिश॒ः स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥२

ता । यो॒धि॒ष्ट॒म् । अ॒भि । गाः । इ॒न्द्र॒ । नू॒नम् । अ॒पः । स्वः॑ । उ॒षसः॑ । अ॒ग्ने॒ । ऊ॒ळ्हाः ।

दिशः॑ । स्वः॑ । उ॒षसः॑ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा॑न् ॥२

ता । योधिष्टम् । अभि । गाः । इन्द्र । नूनम् । अपः । स्वः । उषसः । अग्ने । ऊळ्हाः ।

दिशः । स्वः । उषसः । इन्द्र । चित्राः । अपः । गाः । अग्ने । युवसे । नियुत्वान् ॥२

हे "इन्द्र हे “अग्ने “ता तो युवां “गाः “अपः उदकानि “स्वः सूर्यम् “उषसः उषःकालान् “ऊळ्हाः पणिभिरपहृता एतान् गवादीनभिलक्ष्य “योधिष्टम्। तैरसुरैर्युद्धं कृतवन्तौ । “नूनम् इति पादपूरणार्थः । हे “इन्द्र त्वं “दिशः प्राच्याद्याः “स्वः सूर्यम् "उषसः च “चित्राः चायनीयाः “अपः उदकानि च “गाः च पणिभिरपहृतानेतान् “युवसे अनेन लोकेनायोजयः। यद्वा । असुरैरावृतान् दिगादीन् असुरवधेनावरणमपनीय पृथक्कृतवानसीत्यर्थः । हे “अग्ने “नियुत्वान् नियुद्भिरश्वैर्युक्तः सन् त्वमप्येवमकार्षीरित्यर्थः ॥


ऐन्द्राग्नस्य पशोर्वपायाः ‘ आ वृत्रहणा ' इत्यनुवाक्या। सूत्रितं च - आ वृत्रहणा वृत्रहभिः शुष्मैरा भरतं शिक्षतं वज्रबाहू ' ( आश्व. श्रौ. ३. ७ ) इति ।।

आ वृ॑त्रहणा वृत्र॒हभि॒ः शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।

यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभि॑ः ॥३

आ । वृ॒त्र॒ऽह॒ना॒ । वृ॒त्र॒हऽभिः॑ । शुष्मैः॑ । इन्द्र॑ । या॒तम् । नमः॑ऽभिः । अ॒ग्ने॒ । अ॒र्वाक् ।

यु॒वम् । राधः॑ऽभिः । अक॑वेभिः । इ॒न्द्र॒ । अग्ने॑ । अ॒स्मे इति॑ । भ॒व॒त॒म् । उ॒त्ऽत॒मेभिः॑ ॥३

आ । वृत्रऽहना । वृत्रहऽभिः । शुष्मैः । इन्द्र । यातम् । नमःऽभिः । अग्ने । अर्वाक् ।

युवम् । राधःऽभिः । अकवेभिः । इन्द्र । अग्ने । अस्मे इति । भवतम् । उत्ऽतमेभिः ॥३

हे “वृत्रहणा वृत्रस्यासुरस्य हन्तारौ हे "इन्द्र हे "अग्ने “वृत्रहभिः वृत्रस्य हन्तृभिः वृत्रहनननिमित्तैः “शुष्मैः बलैः “नमोभिः अस्मभ्यं दातव्यैरन्नैश्च सार्धम् “अर्वाक् अस्मदभिमुखम् “आ "यातम् आगच्छतम् । हे “इन्द्र हे “अग्ने “युवं युवाम् “अकवेभिः अकुत्सितैः महद्भिः “उत्तमेभिः उत्कृष्टतमैः “राधोभिः धनैः सह “अस्मे अस्मासु “भवतम् आविर्भवतम् ॥


चातुर्विंशिकेऽहनि प्रातः सवनेऽच्छावाकशस्त्रे ‘ता हुवे' इति षडहस्तोत्रियस्तृचः । सूत्रितं च -- ‘ ता हुवे ययोरिदमियं वामस्य मन्मनः ' (आश्व. श्रौ. ७. २ ) इति । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धौ ‘ता हुवे' इत्याद्या नवर्चं आवापार्थाः । सूत्रितं च -‘ता हुवे ययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश ' (आश्व. श्रौ. ७. ५) इति ॥

ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् ।

इ॒न्द्रा॒ग्नी न म॑र्धतः ॥४

ता । हु॒वे॒ । ययोः॑ । इ॒दम् । प॒प्ने । विश्व॑म् । पु॒रा । कृ॒तम् ।

इ॒न्द्रा॒ग्नी इति॑ । न । म॒र्ध॒तः॒ ॥४

ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् ।

इन्द्राग्नी इति । न । मर्धतः ॥४

“ता तौ तादृशाविन्द्राग्नी “हुवे आह्वये । "ययोः इन्द्राग्न्योः “पुरा पूर्वस्मिन् काले “कृतं “विश्वं सर्वम् “इदं पूर्वासु ऋक्षु कीर्तितं वीर्यं “पप्ने पन्यते ऋषिभिः स्तूयते । ताविन्द्राग्नी हुवे इत्यन्वयः । तौ च “इन्द्राग्नी “न “मर्धतः स्तोतॄन्न हिंस्तः । अतोऽस्मानप्याहूतौ रक्षतामिति भावः । मर्धतिर्हिंसाकर्मा ।


उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे ।

ता नो॑ मृळात ई॒दृशे॑ ॥५

उ॒ग्रा । वि॒ऽघ॒निना॑ । मृधः॑ । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।

ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥५

उग्रा । विऽघनिना । मृधः । इन्द्राग्नी इति । हवामहे ।

ता । नः । मृळातः । ईदृशे ॥५

“उग्रा उग्रौ उद्गूर्णबलावत एव "मृधः शत्रून् “विघनिना विघनिनौ विशेषेण हतवन्तौ “इन्द्राग्नी “हवामहे आह्वयामहे । तौ चेन्द्राग्नी "ईदृशे अस्मिन् संग्रामे “नः अस्मान् “मृळातः सुखयताम् । यद्वा । मृळतिरुपदयाकर्मा । नोऽस्माकं मृळातः उपदयां कुरुताम् ॥ ॥ २७ ॥


ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।

ह॒तो विश्वा॒ अप॒ द्विष॑ः ॥६

ह॒तः । वृ॒त्राणि॑ । आर्या॑ । ह॒तः । दासा॑नि । सत्प॑ती॒ इति॒ सत्ऽप॑ती ।

ह॒तः । विश्वाः॑ । अप॑ । द्विषः॑ ॥६

हतः । वृत्राणि । आर्या । हतः । दासानि । सत्पती इति सत्ऽपती ।

हतः । विश्वाः । अप । द्विषः ॥६

ताविन्द्राग्नी “आर्या आर्यैः कर्मानुष्ठातृभिः कृतानि “वृत्राणि उपद्रवजातानि “हतः हिंस्तः । तथा “सत्पती सतां पालयितारौ इन्द्राग्नी “दासानि । दासाः कर्महीनाः शत्रवः । तैः कृतानि चोपद्रवजातानि “हतः । अपि च “विश्वाः सर्वाः “द्विषः द्वेष्ट्रीः शत्रुभूताः प्रजाः "अप “हतः विनाशयत: । अतोऽस्माकमप्येवमेव कुरुतामिति भावः ॥


चातुर्विंशिकेऽहनि प्रातः सवनेऽच्छावाकशस्त्रे ‘इन्द्राग्नी युवाम्' इति षडहस्तोत्रियस्तृचः । सूत्रितं च – इन्द्राग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य ' ( आश्व. श्रौ. ७.२ ) इति ।।

इन्द्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत ।

पिब॑तं शम्भुवा सु॒तम् ॥७

इन्द्रा॑ग्नी॒ इति॑ । यु॒वाम् । इ॒मे । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।

पिब॑तम् । श॒म्ऽभु॒वा॒ । सु॒तम् ॥७

इन्द्राग्नी इति । युवाम् । इमे । अभि । स्तोमाः । अनूषत ।

पिबतम् । शम्ऽभुवा । सुतम् ॥७

हे “इन्द्राग्नी "युवामिमे “स्तोमाः स्तोतारः “अभि "अनूषत अभिष्टुवन्ति । हे “शंभुवा सुखस्य भावयिताराविन्द्राग्नी "सुतम् अभिषुतमस्मदीयं सोमं “पिबतम् ॥


या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।

इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥८

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।

इन्द्रा॑ग्नी॒ इति॑ । ताभिः॑ । आ । ग॒त॒म् ॥८

याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।

इन्द्राग्नी इति । ताभिः । आ । गतम् ॥८

हे “नरा नेताराविन्द्राग्नी “वां युवयोः स्वभूताः “पुरुस्पृहः पुरुभिर्बहुभिः स्पृहणीया: “दाशुषे हवींषि दत्तवते यजमानार्थमुत्पन्नाः “याः “नियुतः अश्वाः “सन्ति हे "इन्द्राग्नी “ताभिः नियुद्भिः “आ “गतम् आगच्छतम् ॥


ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥९

ताभिः॑ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥९

ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् ।

इन्द्राग्नी इति । सोमऽपीतये ॥९

हे “नरा नेतारौ "इन्द्राग्नी । सूयतेऽभिषूयत इति सवनः सोमः । “इदं “सवनम् इमं सोमं “सुतम् अभिषुतम् “उप प्रति । यद्वा । इदं प्रातःसवनमुप अस्मिन् सवने सुतमभिषुतं सोमं प्रति “ताभिः नियुद्भिः "आ “गच्छतम् । किमर्थम् । “सोमपीतये तस्य सोमस्य पानार्थम् ॥


तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥१०

तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा॑ । वना॑ । विश्वा॑ । प॒रि॒ऽस्वज॑त् ।

कृ॒ष्णा । कृ॒णोति॑ । जि॒ह्वया॑ ॥१०

तम् । ईळिष्व । यः । अर्चिषा । वना । विश्वा । परिऽस्वजत् ।

कृष्णा । कृणोति । जिह्वया ॥१०

हे स्तोतः “तम् अग्निम् “ईळिष्व स्तुहि । "यः अग्निः “अर्चिषा ज्वालारूपेण तेजसा “विश्वा सर्वाणि “वना अरण्यानि “परिष्वजत् परिष्वजति परितो वेष्टयति । यश्च तानि वनानि “जिह्वया ज्वालया दग्ध्वा "कृष्णा कृष्णवर्णानि “कृणोति करोति ॥ ॥ २८ ॥


य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्य॑ः ।

द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥११

यः । इ॒द्धे । आ॒ऽविवा॑सति । सु॒म्नम् । इन्द्र॑स्य । मर्त्यः॑ ।

द्यु॒म्नाय॑ । सु॒ऽतराः॑ । अ॒पः ॥११

यः । इद्धे । आऽविवासति । सुम्नम् । इन्द्रस्य । मर्त्यः ।

द्युम्नाय । सुऽतराः । अपः ॥११

"यः “मर्त्यः मनुष्यः “इद्धे दीप्तेऽग्नौ "सुम्नं सुखकरं हविः “इन्द्रस्य इन्द्राय "आविवासति परिचरति प्रयच्छति । चतुर्थ्यर्थे षष्ठी । तस्य मर्त्यस्य “द्युम्नाय द्योतमानायान्नाय तदर्थं "सुतराः सुखेन तरणीयाः "अपः उदकानि वृष्ट्यात्मकानि इन्द्रः करोतीति शेषः ॥


ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।

इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥१२

ता । नः॒ । वाज॑ऽवतीः । इषः॑ । आ॒शून् । पि॒पृ॒त॒म् । अर्व॑तः ।

इन्द्र॑म् । अ॒ग्निम् । च॒ । वोळ्ह॑वे ॥१२

ता । नः । वाजऽवतीः । इषः । आशून् । पिपृतम् । अर्वतः ।

इन्द्रम् । अग्निम् । च । वोळ्हवे ॥१२

हे इन्द्राग्नी “ता तौ युवां "वाजवतीः अन्नवतीः "इषः इष्यमाणा वृष्टीः । यद्वा । वाजो बलम् । तद्वतीरिषोऽन्नानि “आशून् शीघ्रगान् "अर्वतः अश्वांश्च "नः अस्मभ्यं “पिपृतं पूरयतम् । प्रयच्छतम् । किमर्थम् । "इन्द्रमग्निं "च युवां "वोळ्हवे वोढुं हविर्भिः प्रापयितुम् ॥


ऐन्द्राग्नस्य पशोर्हविषोऽनुवाक्या उभा वाम् ' इत्येषा । सूत्रितं च -- उभा वामिन्द्राग्नी आहुवध्यै शुचिं नु स्तोमं नवजातमद्य ' ( आश्व. श्रौ. ३. ७) इति ।।

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।

उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥१३

उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति॑ । आ॒ऽहु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ ।

उ॒भा । दा॒तारौ॑ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हु॒वे॒ । वा॒म् ॥१३

उभा । वाम् । इन्द्राग्नी इति । आऽहुवध्यै । उभा । राधसः । सह । मादयध्यै ।

उभा । दातारौ । इषाम् । रयीणाम् । उभा । वाजस्य । सातये । हुवे । वाम् ॥१३

हे "इन्द्राग्नी “उभा उभौ संहत्य वर्तमानौ “वां युवां "हुवे आह्वयामि । किमर्थम् । "आहुवध्यै आभिमुख्येन होतुम् । तथा “उभा उभौ युवामाह्वये “राधसः राधसा राधकेन हविषा "सह युगपदेव "मादयध्यै मादयितुं तर्पयितुम् । सर्वेषु देवेषु सत्सु आवयोराह्वाने किं कारणमिति चेदुच्यते । “उभा उभौ तौ युवाम् "इषाम् अन्नानां "रयीणां धनानां च "दातारौ स्थः । अतः कारणात् “उभा उभौ "वां युवां “वाजस्य अन्नस्य "सातये संभजनाय हुवे आह्वये ॥


आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् ।

सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥१४

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । व॒स॒व्यैः॑ । उप॑ । ग॒च्छ॒त॒म् ।

सखा॑यौ । दे॒वौ । स॒ख्याय॑ । श॒म्ऽभुवा॑ । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥१४

आ । नः । गव्येभिः । अश्व्यैः । वसव्यैः । उप । गच्छतम् ।

सखायौ । देवौ । सख्याय । शम्ऽभुवा । इन्द्राग्नी इति । ता । हवामहे ॥१४

हे इन्द्राग्नी "गव्येभिः गोसमूहै: "अश्व्यैः अश्वसमूहै: "वसव्यैः वसुसमूहैश्च सार्धं "नः अस्मानाभिमुख्येन "उप “आ “गच्छतम् । शेषः परोक्षकृतः । "सखायौ समानख्यानौ "देवौ दानादिगुणयुक्तौ “शंभुवा शंभुवौ सुखस्य भावयितारौ "ता तादृशौ “इन्द्राग्नी “सख्याय सखित्वार्थं वयं “हवामहे आह्वयामहे ॥


इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥१५

इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः ।

वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥१५

इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः ।

वीतम् । हव्यानि । आ । गतम् । पिबतम् । सोम्यम् । मधु ॥१५

हे “इन्द्राग्नी "सुन्वतः सोमाभिषवं कुर्वतः "यजमानस्य “हवम् आह्वानं स्तोत्रं “शृणुतम् । श्रुत्वा च तदीयानि “हव्यानि हवींषि "वीतं कामयेथाम् । कामयित्वा च “आ “गतम् आगच्छतम् । आगत्य च "सोम्यं सोमात्मकं "मधु “पिबतम् ॥ ॥ २९ ॥

टिप्पणी

६.६०.४ ता हुवे ययोरिदं इति

साम ८५३


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६०&oldid=309104" इत्यस्माद् प्रतिप्राप्तम्