← अध्यायः १२ ब्रह्मपुराणम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

पुरुवंश-वर्णनम्
ब्राह्मणाःऊचुः
पुरोर्वशं वयं सूत श्रोतुमिच्छाम तत्तवतः।
द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पुथक् पृथक्॥ १३.१ ॥

लोमहर्षण उवाच
श्रृणुध्वं मुनिशार्दूलाः पुरोर्वशं महात्मनः।
विस्तरेणानुपूर्व्व्या च प्रथमं वदतो मम ॥ १३.२ ॥

पुरोः पुत्रः सुवीरोऽभून्मनस्युस्तस्य चात्मजः।
राजा चाभयदो नाम मनस्योरभवत् सुतः॥ १३.३ ॥

तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः।
सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः॥ १३.४ ॥

रौद्राश्वस्य दशार्णेयुः कृकाणेयुस्तथैव च।
कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च॥ १३.५ ॥

ऋचोयुश्च जलेयुश्च स्थलेयुश्च महाबलः।
धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः॥ १३.६ ॥

भद्रा शूद्रा च मद्रा च शलदा तथा।
खलदा च ततो विप्रा नलदा सुरसापि च॥ १३.७ ॥

तथा गोचपला च स्त्रीरत्नकूटा च ता दश।
ऋषिर्जातोऽत्रिवंशे च तासां भर्त्ता प्रभाकरः॥ १३.८ ॥

भद्रायां जनयामास सुतं सोमं यशस्विनम्।
स्वर्भानुना हते सूर्य्ये पतमाने दिवो महीम्॥ १३.९ ॥

तमोऽभिभूते लोके च प्रभा येन प्रवर्त्तिता।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः॥ १३.१० ॥

वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम्।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः॥ १३.११ ॥

यज्ञेष्वत्रेर्बलञ्चैव देवैर्यस्य प्रतिष्ठितम्।
स तासु जनयामास पुत्रिकास्वात्मकामजान्॥ १३.१२ ॥

दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः॥ १३.१३ ॥

स्वस्त्यात्रेय इति ख्याताः किञ्च त्रिधनवर्जिताः।
कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः॥ १३.१४ ॥

सभानरश्चाक्षुषश्च परमन्युस्तथैव च।
सभानरस्य पुत्रस्यु विद्वान् कालानलो नृपः॥ १३.१५ ॥

कालानलस्य धर्म्मज्ञः सृञ्जयो नाम वै सुतः।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः॥ १३.१६ ॥

जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतोऽभवत्।
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः॥ १३.१७ ॥

देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि।
महामना नाम सुतो महाशालस्य विश्रुतः॥ १३.१८ ॥

जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः।
महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः॥ १३.१९ ॥

उशीनरञ्टच धर्म्मज्ञं तितिक्षुञ्च महाबलम्।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिशजाः॥ १३.२० ॥

नृगा कृमिर्नवा दर्व्वा पञ्चमी च दृषद्वती।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः॥ १३.२१ ॥

तपसा चव महता जाता वृद्धस्य चात्मजाः।
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत॥ १३.२२ ॥

नवायास्तु नवः पुत्रो दर्व्वायाः सुव्रतोऽभवत्।
दृषद्वत्यस्तु सञ्जज्ञे शिविरौशनरो नृपः॥ १३.२३ ॥

शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह।
नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी॥ १३.२४ ॥

सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः॥ १३.२५ ॥

वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा।
तेषां जनपदाः स्फीता केकया मद्रकास्तथा॥ १३.२६ ॥

वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः।
तितिक्षुरभवद्राजा पूर्व्वस्यां दिशि बो द्विजाः॥ १३.२७ ॥

उषद्रथो महावीर्य्यः फेनस्तस्य सुतोऽभवत्।
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः॥ १३.२८ ॥

जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः।
महायोगी स तु बलिल्बभूव नृपतिः पुरा॥ १३.२९ ॥

पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि।
अङ्गः प्रथमतो जज्ञे बङ्गः सुह्यस्तथैव च॥ १३.३० ॥

पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते।
बालेया ब्राह्मणास्चैव तस्य वंशकरा भुवि॥ १३.३१ ॥

बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः।
महायोगित्वमायुश्च कल्पस्य परिमाणतः॥ १३.३२ ॥

बले चाप्रतिमत्वं वै धर्म्मतत्त्वार्थदर्शनम्।
संग्रामे चाप्यजेयत्वं धर्म्मे चैव प्रधानताम्॥ १३.३३ ॥

त्रैलोक्यदर्शनञ्चापि प्राधन्यं प्रसवे तथा।
चतुरो नियतान् वर्णास्त्वञ्च स्थापयितेति च॥ १३.३४ ॥

इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ।
कालेन महता विप्रा स्वञ्च स्तानमुपागमत्॥ १३.३५ ॥

तेषां जनपदाः पञ्च अङ्गा ससुह्मकाः।
कालिङ्गा पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम्॥ १३.३६ ॥

अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत्॥ १३.३७ ॥

पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः।
विद्वान् धर्म्मरथो नाम तस्य चित्ररथः सुतः॥ १३.३८ ॥

तेन धर्म्मरथेनाथ तदा कालञ्जरे गिरौ।
यजता सह शक्रेण सोमः पीतो महात्मना॥ १३.३९ ॥

अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत्।
लोमपादः इति ख्यातो यस्य शान्ता सुताभवत्॥ १३.४० ॥

तस्य दाशरथिर्वोरश्चतुरङ्गो महायशाः।
ऋष्यश्रृङ्गप्रसादेन जज्ञे वंशविवर्द्धनः॥ १३.४१ ॥

चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः।
पृथुलाक्षसुतो राजा चम्पो नाम महायशा॥ १३.४२ ॥

चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा।
पूर्णभद्रप्रसादेन हर्य्यङ्गोऽस्य सुतोऽभवत्॥ १३.४३ ॥

ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम्।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्॥ १३.४४ ॥

हर्य्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः।
पुत्रो भद्ररथस्यासीद्बृहत्कर्म्मा प्रजेश्वरः॥ १३.४५ ॥

बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः।
बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम्॥ १३.४६ ॥

नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी॥ १३.४७ ॥

दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः।
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्द्धनम्॥ १३.४८ ॥

एतेऽङ्गवंशजाः सर्व्वे राजानः कीर्त्तिता मया।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः॥ १३.४९ ॥

ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै।
श्रृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञास्तु भो द्विजाः॥ १३.५० ॥

ऋचेयोस्तनयो राजा मतिनारो महीपतिः।
मतिनारसुतास्त्वासंस्त्रयः परमधार्म्मिकाः॥ १३.५१ ॥

वसुरोधः प्रतिरथः सुबाहुश्चैव दार्म्मिकः।
सर्व्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः॥ १३.५२ ॥

इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः।
ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत॥ १३.५३ ॥

तंसोः सुतोऽथ राजर्षिधर्म्मनेत्रः प्रतापवान्।
ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी॥ १३.५४ ॥

उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुभान्।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा॥ १३.५५ ॥

दुष्यन्तस्य तु दायादो भरतो नाम वीर्य्यवान्।
स सर्व्वदमनो नाम नागायुतबलो महान्॥ १३.५६ ॥

चक्रवर्त्ति सुतो जज्ञे दुष्यन्तस्य महात्मनः।
शकुन्तलायां भरतो यस्य नाम्ना तु भारताः॥ १३.५७ ॥

भरतस्य विनष्टेषु तनयेषु महीपतेः।
मातॄणां तु प्रकोपेण मया तत्कथितं पुरा॥ १३.५८ ॥

बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः।
अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः॥ १३.५९ ॥

पूर्व्वं तु वितथे तस्य कृते वै पुत्रजन्मनि।
ततोऽथ वितथो नाम भरद्वाजात्सुतोऽभवत्॥ १३.६० ॥

तथोऽथ वितथे जाते भरतस्तु दिवं ययौ।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ॥ १३.६१ ॥

स चापि वितथः पुत्रान् जनयामास पञ्च वै।
सुहोत्रञ्च सुहोतारं गर्यं गर्गं तथैव च॥ १३.६२ ॥

कपिलञ्च महात्मानं सुहोत्रस्य सुतद्वयम्।
काशिकञ्च महासत्यं तथा गृत्समतिं नृपम्॥ १३.६३ ॥

तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः।
काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा॥ १३.६४ ॥

बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः।
धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः॥ १३.६५ ॥

तथा केतुमनः पुत्रो विद्वान् भीमरथः स्मृतः।
पुत्रो भीमरथस्यापि वारामस्यधिपोऽभवत्॥ १३.६६ ॥

दिवोदास इति ख्यातः सर्व्वशत्रुप्रणाशनः।
दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः॥ १३.६७ ॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सो भर्गव एव च।
अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि॥ १३.६८ ॥

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्॥ १३.६९ ॥

भद्रश्रेण्यस्य पुत्रेण चदुर्दमेन महात्मना।
दिवोदासेन बालेति घृणयासौ विसर्ज्जितः॥ १३.७० ॥

अष्टारथो नाम नृपः सुतो भीमरथस्य वै।
तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः॥ १३.७१ ॥

वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता।
अलर्कः कासिराजस्तु ब्रह्मण्यः सत्यसङ्गरः॥ १३.७२ ॥

षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च।
युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः॥ १३.७३ ॥

लोपामुद्राप्रसादेन परमायुरवाप सः।
वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम्॥ १३.७४ ॥

रम्यां निवेशयामास पुरीं वाराणसीं नृपः।
अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः॥ १३.७५ ॥

क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत्।
वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः॥ १३.७६ ॥

आनर्त्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत्।
सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः॥ १३.७७ ॥

सुतोऽभवनन्महातेजा राजा परमधार्म्मिकः।
वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात्॥ १३.७८ ॥

एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे।
ब्राह्मणाः क्षत्रियाच वैश्याः शूद्राश्च मुनिसत्तमाः॥ १३.७९ ॥

आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः।
सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः॥ १३.८० ॥

अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान्।
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसन्विताः॥ १३.८१ ॥

नीली च केशिनी चैव धूमिनी च वराङ्गनाः।
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्॥ १३.८२ ॥

आजह्रे यो महासन्नं सर्व्वमेधमखं विभुम्।
पतिलोभेन यं गङ्गा विनीतेव ससार ह॥ १३.८३ ॥

नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः।
तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १३.८४ ॥

जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः।
एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम्॥ १३.८५ ॥

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
ततः पीताः महात्मानो दृष्ट्वा गङ्गां महर्षयः॥ १३.८६ ॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नावीम्।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्॥ १३.८७ ॥

गङ्गाशापेन देहार्द्ध यस्याः पश्चान्नदीकृतम्।
जह्नोस्तु दयितः पुत्रो अजको नाम वीर्य्यवान्।
अजकस्य तु दायादो बलाकाश्वो महीपतिः॥ १३.८८ ॥

बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः।
पह्नवैः सह संवृद्धो राजा वनचरैः सह॥ १३.८९ ॥

कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम्।
लभेयमिति तं शक्रस्त्रासादभ्यत्य जज्ञिवान्॥ १३.९० ॥

स गाधिरभवद्राजा मघवा कौशिकः स्वयम्।
विश्वामित्रस्तु गाधयो विश्वमित्रात्तथाष्टकः॥ १३.९१ ॥

अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया।
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः॥ १३.९२ ॥**

अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत।
पुरुजातिः सुशान्तश्च बाह्याश्वः पुरुजातितः॥ १३.९३ ॥

बाह्याश्वतनयाः विक्रान्तः गृमिलाश्वश्च पञ्चमः।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः॥ १३.९४ ॥

यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः॥ १३.९५ ॥

पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः॥ १३.९६ ॥

मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः।
इन्द्रसेना यतो गर्भं ब्रध्नश्वं प्रत्यपद्यत॥ १३.९७ ॥

आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः॥ १३.९८ ॥

सोमदत्तस्य दायादः सहदेवो महायशाः।
सहदेवसुतश्चापि सोमको नाम विश्रुतः॥ १३.९९ ॥

अजमीढसुतो जातः क्षीणे वंशे तु सोमकः।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ॥ १३.१०० ॥

तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः।
आजमीढाः स्मृताश्चैते महात्मास्तु सोमकाः॥ १३.१०१ ॥

महीषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी।
पतिव्रता महाभागा कुलजा मुनिसत्तमाः॥ १३.१०२ ॥

सा च पुत्रार्थिनी देवी व्रतचर्य्यसमन्विता।
कततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्॥ १३.१०३ ॥

हुत्वाग्निं विधिवत्सा तु पवित्रामितभोजना।
अग्निहोत्रकुसेष्वेव सुष्वाप मुनिसत्तमाः॥ १३.१०४ ॥

धूमिन्या स तया देव्या त्वजमीढः समियिवान्।
ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम्॥ १३.१०५ ॥

ऋक्षात् संवरणो जज्ञे कुरुः संवरणात्तथा।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह॥ १३.१०६ ॥

पण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम्।
तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः॥ १३.१०७ ॥

कुरोश्च पुत्राश्चत्वारः सुधान्वा सुधनुस्तथा।
परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः॥ १३.१०८ ॥

परीक्षितस्तु दायादो धार्म्मिको जनमेजयः।
श्रुतसनोऽग्रसेनश्च भीमसेनश्च नामतः॥ १३.१०९ ॥

एते सर्व्वे महाभागा विक्रान्ता बलशालिनः।
जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा॥ १३.११० ॥

सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः।
विदूरथस्य दायाद ऋक्ष एव महारथः॥ १३.१११ ॥

द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः।
द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ॥ १३.११२ ॥

भीमसेनास्त्रयो विप्रा द्वौ चापि नजमेजयौ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः॥ १३.११३।

प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः।
देवापिर्बाहि लकश्चैव त्रय एव महारथाः॥ १३.११४ ॥

शान्तनोस्तवभवद्भीष्मस्तस्मिन् वंशे द्विजोत्तमाः।
बाह्लिकस्य तु राजर्षेर्व्वशं श्रुणुत भो द्विजाः॥ १३.११५ ॥

बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिरश्रवाः शलः॥ १३.११६ ॥

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः।
च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः॥ १३.११७ ॥

शान्तनुस्त्वभवनद्राजा कौरवाणां धुरन्धऱः।
शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम्॥ १३.११८ ॥

गाङ्गं वेवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः॥ १३.११९ ॥

काली विचित्रवीर्य्यं तु जनयामास बो द्विजाः।
शान्तनोर्दयितं पुत्रं धर्म्मात्मानमकल्मषम्॥ १३.१२० ॥

कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्य्यके।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्॥ १३.१२१ ॥

धृतराष्टस्तु गान्धार्य्यां पुत्रानुत्पादयच्छतम्।
तेषां दुर्य्योधनः श्रेष्ठः सर्ब्वेषामपि स प्रभुः॥ १३.१२२ ॥

पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः।
अभिमन्वोः परीक्षित्तु पिता पारीक्षितस्य ह॥ १३.१२३ ॥

पारिक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः।
चन्द्रापीडस्तु नृपतिः सूर्य्यापीडश्च मोभवित्॥ १३.१२४ ॥

चन्द्रापॣस्य पुत्राणां शतमुत्तमधन्विनाम्।
जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम्॥ १३.१२५ ॥

तेषां ज्येष्ठस्तु तत्रासीत् पुरे वाराणसाह्वये।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः॥ १३.१२६।

सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान्।
अपुत्रः स तु धर्म्मात्मा प्रविवेश तपोवनम्॥ १३.१२७ ॥

तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत।
सुचारोर्दुहिता सूभ्रर्मालिनी ग्राहमालिनी॥ १३.१२८ ॥

सम्भूते स च गर्भे च स्वेतकर्मः प्रजेश्वरः।
अन्वगच्छत् कृतं पूर्व्वं महाप्रस्थानमच्युतम्॥ १३.१२९ ॥

सा तु दुष्ट्वा प्रियं तं च पृष्ठतोऽन्वगात्।
सुचारोर्दुहिता साध्वी वने राजीवलोचना॥ १३.१३०॥

पथि सा सुषुवे बाला सुकुमारं कुमारकम्।
तमपास्ताथ तत्रैव राजानं सान्वगच्छत॥ १३.१३१ ॥

पतिव्रता महाभागा द्रौपदीव पुरा सती।
कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह॥ १३.१३२ ॥

दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः।
श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः॥ १३.१३३ ॥

दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले।
निघृष्टौ तस्य पाश्वौ तु शिलायां रुधिरप्लुतौ॥ १३.१३४ ॥

अजश्यामः स पार्श्वाब्यां घृष्टाभ्यां सुसमाहितः।
अजश्यामौ तु तत्पाशौ देवेन सम्बभूवतुः॥ १३.१३५ ॥

अथाजपार्श्व इति वै चक्राते नाम तस्य तौ॥
स तु रेमकशालायां द्विजाब्यामभिवार्द्धितः॥ १३.१३६ ।

रेमकस्य तु भार्य्यां तमुद्वहत् पुत्रकारणात्।
रेमत्याः स तु पुत्रोऽभूद्ब्राह्मणौ सचिवौ तु तौ॥ १३.१३७ ॥

तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः।
स एष पौरवो वंशः पाण्डवानां महात्मनाम्॥ १३.१३८ ॥

श्लोक्रोऽपि चात्र गीतोऽयं नाहुषेन ययातिना।
जरासंक्रमणे पूर्व्वं तदा प्रीतेन धीमता॥ १३.१३९ ॥

अचन्द्रार्क्रग्रहा भूमिर्भवेदियमसंशायम्।
अपौरवा मही नैव भविष्यति कदाचन॥ १३.१४० ॥

एष वऋ पौरवो वंशो विख्यातः कथितो मया।
तुर्व्वसोस्तु प्रवक्ष्यामि द्रुह्योस्चानोर्यदोस्तथा॥ १३.१४१ ॥

तुर्व्वसोऽस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः।
गोभानोस्तु सुतो राजा ऐशानुरपराजितः॥ १३.१४२ ॥

करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः।
अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया॥ १३.१४३ ॥

अनपत्योऽभद्राजा यज्वा विपुलदक्षिणः।
दुहिता संयता नाम तस्यासीत् पथिवीपतेः॥ १३.१४४ ॥

दक्षिणार्थं तु सा दत्ता संवर्त्ताय महात्मने।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम्॥ १३.१४५ ॥

एवं ययातिशापेन जरासंक्रमणे तदा।
पौरवं तुर्व्वसोर्वशं प्रविवेश द्विजोत्तमाः॥ १३.१४६ ॥

दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः।
करूरोमादथाह्रीदस्चत्वारस्तस्य चात्मजाः। १३.१४७ ।

पाण्ड्यश्च केरलस्चैव कालश्चोलश्च पार्थिवः।
द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः॥ १३.१४८ ॥

अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते।
यौवनाश्वेन समरे कृच्छेण निहतो बली॥ १३.१४९ ॥

युद्धं सुमहदप्यासीन्मासान् परिचतुर्दश।
अङ्गारसेतोर्दायादो गान्दारो नाम पार्थिवः॥ १३.१५० ॥

ख्यायते यस्य नाम्ना वै गान्धारविषयो महान्।
गान्धारदेशजाश्चैव तुरगा वाजिनां वराः॥ १३.१५१ ॥

अनोस्तु पुत्रो धर्म्मोऽभूद्द्युतस्तस्यात्मजोऽभवत्।
द्युताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः॥ १३.१५२ ॥

प्रचेतसः सुचेतास्तु कीर्त्तितास्तुर्वसोर्मया।
बभूवुस्ते यदोः पुत्राः पञ्च देवसुतोपमाः॥ १३.१५३ ॥

सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा।
सहस्रादस्य दायादास्त्रयः परमधार्म्मिकाः॥ १३.१५४ ॥

हैहयस्च हयश्चैव राजा वेणुहयस्तथा।
हैहयस्याभवत् पुत्रो धर्म्मनेत्र इति श्रुतः॥ १३.१५५ ॥

धर्म्मनेत्रस्य कार्त्तस्तु साहञ्जस्तस्य चात्मजः।
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिताः॥ १३.१५६ ॥

आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः॥ १३.१५७ ॥

दुर्दमस्य सुतो धीमान्कनको नाम नामतः।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः॥ १३.१५८ ॥

कुतवीर्य्यः कृतौजाश्च कृतधन्वा तथैव च।
कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः॥ १३.१५९ ॥

योऽसौ बाहुसहस्रेण सप्तद्वीपेस्वरोऽभवत्।
जिगाय पृथिवीमेको रथेनादित्यवर्च्चसा॥ १३.१६० ॥

स हि वर्षायुतं तप्त्वा तपः पमदुश्चरम्।
दत्तमाराधयामास कार्त्तवीर्य्योऽत्रिसम्भवम्॥ १३.१६१ ॥

तस्मै दत्तो वरन् प्रादाच्चतुरो भूरितेजसः।
पूर्व्वं बाहुसहस्रं तु प्रार्थितं सु महद्वरम्॥ १३.१६२ ॥

अधर्म्मोऽधीयमानस्य सद्भिस्तत्र निवारणम्।
उग्रेण पृथिवीं जित्वा धर्म्मेणैवानुरञ्जनम्॥ १३.१६३ ॥

संग्रामात् सुबहून् जित्वा हत्वा चारीन् सहस्रशः।
संग्रामे वर्त्तमानस्य वधं चाभ्यधिकाद्रणे॥ १३.१६४ ॥

तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः।
योगाद्योगीश्वरस्येव प्रादुर्भवति मायया॥ १३.१६५ ॥

तनेयं पृथिवी सर्र्वा सप्तद्वीपा सपत्तना।
ससमुद्रा सनगरा उग्रेण विधिना जिता॥ १३.१६६ ॥

तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै।
प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः॥ १३.१६७ ॥

सर्व्वे यज्ञा मुनिश्रेष्ठा सहस्रशतदक्षिणाः।
सर्व्वे काञ्चनयूपाश्च सर्व्वे काञ्चनवेदयः॥ १३.१६८ ॥

सर्व्वे देवैर्म्मुनिश्रेष्ठा विमानस्तैरलङ्कृतैः।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवापशोभिताः॥ १३.१६९ ॥

यस्य यज्ञे जगौ गाथां गन्धर्व्वो नारदस्तथा।
वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः॥ १३.१७० ॥

नारद उवाच
न नूनं सार्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च॥ १३.१७१ ॥

स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी।
रथि द्वीपाननुचरन् योगी संदृश्यते नृभिः॥ १३.१७२ ॥

अनष्ट्द्रव्यता चैव न शोको न च विभ्रमः।
प्रभावेण मया राज्ञः प्रजा धर्म्मेण रक्षतः॥ १३.१७३ ॥

स सर्व्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह।
स एव पशुपालोऽभूत् क्षेत्रपालः स एव च॥ १३.१७४ ॥

स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत्।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा॥ १३.१७५ ॥

भाति रश्मिसहस्रेम शरदीव च भास्करः।
स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः॥ १३.१७६ ॥

कर्कोटकसुतान् जित्वा पुर्य्यां तस्यां न्यवेशयत्।
स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः॥ १३.१७७ ॥

क्रडिन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह।
लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी॥ १३.१७८ ॥

चलदूर्म्मिसहस्रेण शङ्किताभ्येति नर्म्मदा।
तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ॥ १३.१७९ ॥

भयान्निलीना निश्चेष्टाः पातालस्था महासुराः।
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम्॥ १३.१८० ॥

मारुताविद्धफेनौघमावर्त्तक्षोभसङ्कुलम्।
प्रावर्त्तयत्तदा राजा सहस्रेण च बाहुना॥ १३.१८१ ॥

देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः।
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः॥ १३.१८२ ॥

सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम्।
नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः॥ १३.१८३ ॥

सायाह्ने कदलीखण्डाः कम्पिता इव वायुना।
स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः॥ १३.१८४ ॥

लङ्केशं मोहयित्वा तु सबलं रावणं बलात्।
निर्जित्य वशमानीय महाष्मत्यां बबन्ध तम्॥ १३.१८५ ॥

श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्ज्जुनेन च।
ततो गत्वा पुलस्त्यस्तमर्ज्जुनं ददृशे स्वयम्॥ १३.१८६ ॥

मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः।
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः॥ १३.१८७ ॥

युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव।
अहो बल मृधे वीर्य्यं भार्गवस्य यदच्छिनत्॥ १३.१८८ ॥

राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा।
तृषितेन कदाचित् स भिक्षितश्चित्रभानुना॥ १३.१८९ ॥

स भिक्षामददाद्वीरः सप्त द्वीपान् विभावसोः।
पुराणि ग्रामघोषांश्च विषयांश्चैव सर्व्वशः॥ १३.१९० ॥

जज्वाल तस्य सर्व्वाणि चित्रभानुर्दिदृक्षया।
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः॥ १३.१९१ ॥

ददाह कार्त्तवीर्य्यस्तु शैलांश्चैव वनानि च।
सशून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै॥ १३.१९२ ॥

ददाह बलवद्भीतश्चित्रभानुः सहैहयः।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम्॥ १३.१९३ ॥

वशिष्ठं नाम स मुनिः ख्यात आपव इत्युत।
तत्रापवस्तु तं क्रोधाच्छप्तवानर्ज्जुनं विभुः॥ १३.१९४ ॥

यस्मान्न वर्ज्जितमिदं वनं ते मम हैहय।
तस्मात्ते दुष्करं कर्म्म कृतमन्यो हनिष्यति॥ १३.१९५ ॥

रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान्।
छित्त्वा बाहुसहस्रन्ते प्रमथ्य तरसा बलो॥ १३.१९६ ॥

तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः।
अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः॥ १३.१९७ ॥

प्रतावेन नरेन्द्रस्य प्रजा धर्म्मेण रक्षतः।
प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान्महामुनेः॥ १३.१९८ ॥

वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा।
तस्य पुत्रशतं त्वासीत् पञ्च शषा महात्मनः॥ १३.१९९ ॥

कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्विनः।
शूरसेनश्च शूरश्च वृषणो मधुपध्वजः॥ १३.२०० ॥

जयध्वजश्व नाम्नासीदावन्त्यो नृपतिर्महान्।
कार्त्तवीर्य्यस्य तनया वीर्य्यवन्तो महाबलाः॥ १३.२०१ ॥

जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः।
तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः॥ १३.२०२ ॥

तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम्।
वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः॥ १३.२०३ ॥

तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च।
भरताश्च सुजाताश्च बहुत्वान्नानुकीर्त्तिताः॥ १३.२०४ ॥

वृषप्रभृतयो विप्रा यादवाः पुण्यकर्म्मिणः।
वृषो वंशधरस्तत्र तसाय पुत्रोऽभवन्मधुः॥ १३.२०५ ॥

मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत्।
वृषणाद्वृष्णयः सर्व्वे मधोस्तु माधवाः स्मृताः॥ १३.२०६ ॥

यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः॥ १३.२०७ ॥

कार्त्तवीर्य्यस्य यो जन्म कथयेदिह नित्यशः।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः॥ १३.२०८ ॥

कीर्त्तिता लोकवीराणां ये लोकान् धारयन्ति वै।
भूतानीव मुनिश्रेष्ठाः पञ्चस्थावरजङ्गमान्॥ १३.२०९ ॥

श्रुत्वा पञ्च विसर्गास्तु राजा धर्म्मार्थकोविदः।
वशीभवति पञ्चानामात्मजानां तथेश्वरः॥ १३.२१० ॥

लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान्।
आयुः कीर्त्तिं तथा पुत्रानैश्वर्य्यं भूतिमेव च॥ १३.२११ ॥

धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः।
क्रोष्टोर्व्वशं मुनिश्रेष्ठाः श्रृणुध्वं गदतो मम॥ १३.२१२ ॥

यदोर्व्वशधरस्याथ यज्विनः पुण्यकर्म्मिणः।
क्रोष्टोर्व्वशं हि श्रुत्वैव सर्व्वपापैः प्रमुच्यते।

यस्यान्ववायजो विष्णुर्हरिर्वृष्णकुलोद्वहः॥ १३.२१३ ॥

इति श्रीब्राह्मे महापुराणे ययातिवंशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः॥ १३ ॥

    • अतिरिक्त पाठः (१.११.९२)

विश्वबाधिः श्वजिच्चैव तथा सत्यवती द्विजाः ॥
ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत ।
विश्वामित्रस्य तु सुता देवरातादयः स्मृताः ॥
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि भो द्विजाः ॥
देवरातः कतिश्चैव यस्मात्कात्यायनः स्मृतः ॥
शालवत्यां हिरण्याक्षो रेणुर्यस्याथ रेणुका ॥
सांकृत्यां गालवा विप्रा मौद्गल्याश्चेति विश्रुताः॥
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥
पार्थिवा देवराताश्च शालङ्कायनसौश्रवाः ॥
लोहिता यामभूताश्च तथा कारीषयः स्मृताः ॥
विश्रुताः कौशिका विप्रास्तथाऽन्ये सैन्धवायनाः॥
ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ॥
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च ॥
संबन्धोऽस्याथ वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥
विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः॥
भार्गवः कौशिकत्वं हि प्राप्तः स मुनि पुंगवः ॥
देवरातादयश्चापि विश्वामित्रस्य वै सुताः ॥
दृषद्वतीसुतश्चापि विश्वामित्रस्तथाऽष्टकः ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ ९२ ॥