ब्रह्मपुराणम्/अध्यायः १३९
← अध्यायः १३८ | ब्रह्मपुराणम् अध्यायः १३९ वेदव्यासः |
अध्यायः १४० → |
खड्गतीर्थवर्णनम्
ब्रह्मोवाच
खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे।
तत्र स्नानेन दानेन मुक्तिभागी भवेन्नरः।। १३९.१ ।।
तत्र वृत्तं प्रवक्ष्यामि श्रृणु नारद यत्नतः।
पैलूष इति विख्यातः कवषस्य सुतो द्विजः।। १३९.२ ।।
कुटुम्बभारात्परितो ह्यर्थार्थी परिधावति।
न किमप्याससादासौ ततो वैराग्यमास्थितः।। १३९.३ ।।
अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे।
न वैराग्यादन्यदस्ति पण्डितस्यावलम्बनम्।। १३९.४ ।।
इति संचिन्तयामास तदाऽसौ निःश्वसन्मुहुः।
क्रमागतं धनं नास्ति पोष्याश्च बहवो मम।। १३९.५ ।।
मानी चाऽऽत्मा न कष्टार्हो हा धिग्दुर्दैवचेष्टितम्।
स कटाचिद्वृत्तियुतो वृत्तिभिः परिवर्तयन्।। १३९.६ ।।
न लेभे तद्धनं वृत्तेर्विरागमगमत्तदा।
सेवा निषिद्धा या काचिद्गहना दुष्करं तपः।। १३९.७ ।।
बलादाकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते।
त्वयाऽपकृतमज्ञानात्तस्मात्तृष्णे नमोऽस्तु ते।। १३९.८ ।।
एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत्।
इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत्।। १३९.९ ।।
पैलूष उवाच
ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम्।
छेद्मीमां केन हे तात तमुपायं वद प्रभो।। १३९.१० ।।
[१]कवष उवाच
ईश्वराज्ज्ञानमन्विच्छेदित्येषा वैदिकी श्रुतिः।
तस्मादाराधयेशानं ततो ज्ञानमवाप्स्यसि।। १३९.११ ।।
ब्रह्मोवाच
तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत्।
ततस्तुष्टो महेशानो ज्ञानं प्रादाद्द्विजातये।।
प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः।। १३९.१२ ।।
पैलूष उवाच
क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः।
ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात्।। १३९.१३ ।।
तृष्णा बहुविधा माया बन्धनी पापकारिणी।
छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः।। १३९.१४ ।।
सङ्गस्तु परमोऽधर्मो देवादीनामिति श्रुतिः।
असङ्गस्याऽऽत्मनोऽप्यस्य सङ्गोऽयं परमो रिपुः।। १३९.१५ ।।
छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात्।
संशयः परमो नाशो धर्मार्थानां विनाशकृत्।। १३९.१६ ।।
छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात्।
पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम्।।
पूर्णाहन्तासिना छित्त्वा जीवन्मुक्तिमवाप्नुयात्।। १३९.१७ ।।
ब्रह्मोवाच
ततो ज्ञानमवाप्यासौ गङ्गीतीरं समाश्रितः।
ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः।। १३९.१८ ।।
ततः प्रभृति तत्तीर्थं खड्गतीर्थमिति स्मृतम्।
ज्ञानतीर्थं तच कवषं पैलूषं सर्वकामदम्।। १३९.१९ ।।
इत्यादिषट्सहस्राणि तीर्थान्याहुमहर्षयः।
अशेषपापतापौघहराणीष्टप्रदानि च।। १३९.२० ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये खड्गतीर्थवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः।। १३९ ।।
गौतमीमाहात्म्ये सप्ततितमोऽध्यायः