ब्रह्मपुराणम्/अध्यायः २०५
← अध्यायः २०४ | ब्रह्मपुराणम् अध्यायः २०५ वेदव्यासः |
अध्यायः २०६ → |
अनिरुद्धचरित्रवर्णनम्
व्यास उवाच
प्रद्युम्नाद्य हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः।
भान्वादिकांश्च वै पुत्रान्सत्यभामा व्यजायत।। २०५.१ ।।
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः।
बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः।। २०५.२ ।।
तनया भद्रविन्दाद्य नाग्नजित्यां महाबला।
संग्रामजित्प्रधानास्तु शैब्यायां चाभवन्सुताः।। २०५.३ ।।
वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान्सुतान्।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः।। २०५.४ ।।
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा।। २०५.५ ।।
प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः।
प्रद्युम्नानिरुद्धोऽभूद्वज्रस्तस्मादजायत।। २०५.६ ।।
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः।
बाणस्य तनयामू(मु)षामुपयेमे द्विजोत्तमाः।। २०५.७ ।।
यत्र युद्धमभूद्घोरं हरिशंकरयोर्महत्।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा।। २०५.८ ।।
मुनय ऊचुः
कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः।। २०५.९ ।।
एतस्सर्वं महाभागा वक्तुमर्हसि नोऽखिलम्।
महत्कौतूहलं जातं श्रोतुमेतां कथां शुभाम्।। २०५.१० ।।
व्यास उवाच
उषा बाणसुता विप्राः पार्वतीं शंभुना सह।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम्।।
ततः सकलचित्तज्ञा गौरी तामाह भामिनीम्।। २०५.११ ।।
गौर्युवाच
अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे।। २०५.१२ ।।
व्यास उवाच
इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः।
को वा भर्ता ममेत्येनां पुनरप्याह पार्वती।। २०५.१३ ।।
पार्वत्युवाच
वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति।। २०५.१४ ।।
व्यास उवाच
तस्यां तिथौ पुमान्स्वप्ने यथा देव्या उदीरितः।
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा।।
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका।। २०५.१५ ।।
उषोवाच
क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम्।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता।। २०५.१६ ।।
तस्याः सख्यभवत्सा च प्राह कोऽयं त्वयोच्यते।
यदा लज्जाकुला नास्य कथयामास सा सखी।। २०५.१७ ।।
तदा विश्वासमानीय सर्वमेवान्ववेदयत्।
विदितायां तु तामाह पुनरुषा यथोदितम्।।
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम्।। २०५.१८ ।।
व्यास उवाच
ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः।
मनुष्यांश्चाभिलिख्यसौ चित्रलेखाऽप्यदर्शयत्।। २०५.१९ ।।
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान्।
मनुष्येषु ददौ दृष्टिं तेष्वप्यनधकवृष्णिषु।। २०५.२० ।।
कृष्णरामौ विलोक्याऽऽकीत्सुभ्रूर्लज्जायतेक्षणा।
प्रद्युम्नदर्शने व्रीडादृष्टिं नित्ये ततो द्विजाः।। २०५.२१ ।।
दृष्ट्वाऽनिरुद्धं च ततो लज्जा क्वापि निराकृता।
सोऽयं सोऽयं ममेत्युक्ते तथा सा योगगामिनी।।
ययौ द्वारवतीमू(मु)षां समाश्वास्य ततः सखी।। २०५.२२ ।।
इति श्रीमहापुराणे आदिब्राह्मे बाणयुद्धे पञ्चाधिकद्विशततमोऽध्यायः।। २०५ ।।