ब्रह्मपुराणम्/अध्यायः ९३
← अध्यायः ९२ | ब्रह्मपुराणम् अध्यायः ९३ वेदव्यासः |
अध्यायः ९४ → |
अथ त्रिनवतितमोऽध्यायः
विश्वामित्रतीर्थवर्णनम्
ब्रह्मोवाच
यत्र दाशरथी रामः सीतया सहितो द्विज।
पितॄन्संतर्पयामास पितृतीर्थं ततो विदुः।। ९३.१ ।।
तत्र स्नानं च दानं च पितॄणां तर्पणं तथा।
सर्वमक्षयतामेति नात्र कार्यां विचारणा।। ९३.२ ।।
यत्र दाशरथी रामो विश्वामित्रं महामुनिम्।
पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः।। ९३.३ ।।
विश्वामित्रं तु तत्तीर्थंमृषिजुष्टं सुपुण्यदम्।
तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः।। ९३.४ ।।
अनावृष्टिरभूत्पूर्वं प्रजानामतिभीषणा।
विश्वमित्रो महाप्राज्ञः सशिष्यो गौतमीमगात्।। ९३.५ ।।
शिष्यान्पुत्रांश्च जायां च कृशान्दृष्ट्वा क्षुधातुरान्।
व्यथितः कौशिकः श्रीमाञ्शिष्यानिदमुवाच ह।। ९३.६ ।।
विश्वामित्र उवाच
यथाकथंचिर्द्यात्कचिद्यत्र क्वापि यथा तथा।
आनीयतां किंतु भक्ष्यं भोज्यं वा मा बिलम्ब्यताम्।।
इदानीमेव गन्तव्यमानेतव्ये क्षणेन तु।। ९३.७ ।।
ब्रह्मोवाच
ऋषेस्तद्वचनाच्छिष्याः क्षुधितास्त्वरया ययुः।
अटमाना इतश्चेतो मृतं ददृशिरे शुनम्।। ९३.८ ।।
तमादाय त्वरायुक्ता आचार्याय न्यवेदयन्।
सोऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना।। ९३.९ ।।
विशसध्यवं स्वमांसं च क्षालयध्वं च वारिणा पचध्वं मन्त्रवच्चापि हुत्वाऽग्नौ तु यथाविधि।। ९३.१० ।।
देवानृषीन्पितॄनन्यांस्तर्पयित्वाऽतिथीन्गुरून्।
सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः।। ९३.११ ।।
विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत्।
पच्यमाने श्वमांसे तु देवदूतोऽग्निरभ्यगात्।।
देवानां सदने सर्वं देवेभ्यस्तन्न्यवेदयत्।। ९३.१२ ।।
अग्निरूवाच
देवैः श्वमांसं भोक्तव्यमापन्नमृषिकल्पितम्।। ९३.१३ ।।
ब्रह्मोवाच
अग्नेस्तद्वचनादिन्द्रः श्येनो भूत्वा विहायसि।
स्थालीमथाहरत्पूर्णां मांसेन पिहितां तदा।। ९३.१४ ।।
तत्कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन्।
हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना।। ९३.१५ ।।
ततश्चुकोप भगवाञ्शप्तुकामस्तदा हरिम्।
ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम्।। ९३.१६ ।।
पुनर्निवेशायामास उल्कास्वेव खगो हरिः।
मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह।।
स्थालीं वीक्ष्य ततः कोपादिदमाह स कौशिकः।। ९३.१७ ।।
विश्वामित्र उवाच
श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम्।
नो चेत्त्वां भस्मसात्कुर्यामिन्द्रो भीतस्तदाऽब्रवीद्।। ९३.१८ ।।
इन्द्र उवाच
मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः।
किमनेन श्वमांसेन अमेध्येन महामुने।। ९३.१९ ।।
ब्रह्मोवाच
विश्वामित्रोऽपि नेत्याह भुक्तेनैकेन किं फलम्।
प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे।। ९३.२० ।।
सर्वेषाममृतं चेत्स्याद्भोक्ष्येऽहममृतं शुचि।
अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम्।। ९३.२१ ।।
पश्चादहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे।
ततो भीतः सहस्राक्षो मेघानाहूय तत्क्षणात्।। ९३.२२ ।।
ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः।
पश्चात्तदमृतं पुण्यं हरिदत्तं यथाविधि।। ९३.२३ ।।
तर्पयित्वा सुरानादौ तर्पयित्वा जगत्त्रयम्।
विप्रः संभुक्तवाञ्शिष्यैर्विश्वामित्रः स्वभार्यया।। ९३.२४ ।।
ततः प्रभृति तत्तीर्थमाख्यातं चातिपुण्यदम्।
यत्राऽऽगतः सुरपतिर्लोकानाममृतार्पणम्।। ९३.२५ ।।
संजातं मांसवर्जं तु तत्तीर्थं पुण्यदं नृणाम्।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्।। ९३.२६ ।।
ततः प्रभृति तत्तीर्थं विश्वामित्रमिति स्मृतम्।
मधुतीर्थमतैन्द्रं च श्येनं पर्जन्यमेव च।। ९३.२७ ।।
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये विश्वामित्रतीर्थवर्णनं नाम त्रिनवतितमोऽध्यायः।। ९३ ।।
गौतमीमाहात्म्ये चतुर्विंशोऽध्यायः।। २४ ।।