प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २७ ब्रह्मपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ कोणादित्यमाहात्म्यवर्णनम्
ब्रह्मोवाच
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः।
ओष्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः॥ २८.१ ॥

समुद्रदुत्तरं तावद्‌यावद्विरजमण्डलम्।
देशोऽसौ पुण्यशीलानां गुणैः सर्व्वैरलङ्कृतः॥ २८.२ ॥

तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः।
तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा॥ २८.३ ॥

श्राद्धे दाने विवाहे च यज्ञे वाचार्य्यकर्म्मणि।
प्रशस्ताः सर्व्वकार्य्येषु तत्रदेशोद्भवा द्विजाः॥ २८.४ ॥

षट्‌कर्म्मनिरतास्तत्र ब्राह्मणा वेदपारगाः।
इतिहासविदश्चैव पुराणार्थविशारदाः॥ २८.५ ॥

सर्व्वशास्त्रार्थकुशला यज्वानो वीतमत्‌सराः।
अग्निहोत्ररताः कोचित्‌केचित् स्मार्त्ताग्नितत्‌पराः॥ २८.६ ॥

पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः।
निवसन्त्युत्‌कले पुण्ये यज्ञोत्सवविभूषिते॥ २८.७ ॥

इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः।
स्वकर्म्मनिरताः शान्तास्त्र तिष्ठन्ति धार्म्मिकाः॥ २८.८ ॥

कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः।
यं दृष्ट्वा भास्करं मर्त्त्यः सर्व्वपापैः प्रमुच्यते॥ २८.९ ॥

मुनय ऊचुः
श्रोतुमिच्छाम तद्‌ब्रिह क्षेत्रं सूर्य्यस्य साम्प्रतम्।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः॥ २८.१० ॥

ब्रह्मोवाच
लवणस्योदधेस्तीरे पवित्रे सुमनोहरे।
सर्व्वत्र वालुकाकीर्णे देशे सर्व्वगुणान्विते॥ २८.११ ॥

चम्पकाशोकबकुलैः करवीरैः सपाटलैः।
पुन्नागैः कर्णिकारैश्च वकुलैर्नागकेसरैः॥ २८.१२ ॥

तगरैर्धवबाणैश्च अतिमुक्तैः सकुज्जकैः।
मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः॥ २८.१३ ॥

केतकीवनखण्डैश्च सर्व्वर्त्तुकुसुमोज्ज्वलैः।
गतम्बैर्लुकुचैः शालैः पनसैर्दैवदारुभिः॥ २८.१४ ॥

सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः।
अश्वत्थैः सप्तपर्णैस्च आर्म्रराम्रातकैस्तथाः॥ २८.१५ ॥

तालैः पूगफलैश्चैव नारिकेलैः कपित्थकैः।
अन्यैश्च विविधैर्वृक्षैः सर्व्वतः समलङकृतम्॥ २८.१६ ॥

क्षेत्रं त६ रवेः पुण्यमास्ते जगति विश्रुतम्।
समन्ताद्‌योजनं साग्रं भुक्तिमुक्तिफलप्रदम्॥ २८.१७ ॥

आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः।
कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः॥ २८.१८ ॥

माघे मासि सिते पक्षे सप्तम्यैं संयतेन्द्रियः।
कृतोपवासो यत्रैत्य स्नात्वा तु मकरालये॥ २८.१९ ॥

कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम्।
सागरे विधिवत् स्नात्वा शर्व्वर्य्यन्ते समाहितः॥ २८.२० ॥

देवानृषीन्मनुष्यांश्च पितॄन् सन्तर्प्य च द्विजाः।
उत्तीर्य्य चवाससी धौते परिधाय सुनिर्म्मले॥ २८.२१ ॥

आचम्य प्रयोत भूत्वा तीरे तस्य महोदधेः।
उपविश्योदये काले प्राङ्मुखः सवितुस्तदा॥ २८.२२ ॥

विलिख्य पद्‌मं मेधावी रक्तचन्दनवारिणा।
अष्टपत्रं केसराढ्यं वर्त्तुलं चोर्ध्वकर्णिकम्॥ २८.२३ ॥

तिलतण्डुलतोयञ्च रक्तचन्दनसंयुतम्।
रवतपुष्पं सदर्भञ्च प्रक्षिपेत्ताम्रभाजने॥ २८.२४ ॥

ताम्राभावेऽर्कपत्रस्य पुटैः कृत्वा तिलदिकम्।
पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत्॥ २८.२५ ॥

करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः।
आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः॥ २८.२६ ॥

मध्ये चाग्निदले धीमान्नैर्ऋते श्वसने दले।
कामारिगोचरे चैव पुनर्मध्ये च पूजयेत्॥ २८.२७ ॥

प्रभूतं विमलं सारमाराध्यं परमं सुखम्।
सम्पूज्य पद्‌ममावाह्य गगनात्तत्र भास्करम्॥ २८.२८ ॥

कर्णिकोपपि संस्थाप्य ततो मुद्रां प्रदर्शयेत्।
कृत्वा स्नानादिकं सर्व्वं ध्यात्वा तं सुसमाहितः॥ २८.२९ ॥

सितपद्‌मोपरि रविं तेजोबिम्बे व्यवस्थितम्।
पिङ्गाक्षं द्विभुजं रक्तं पद्‌मपत्रारुणाम्बरम्॥ २८.३० ॥

सर्व्वलक्षणसयुक्तं सर्व्वाभरणभूषितम्।
सुरूपं वरदं शान्तं प्रभामण्डलमिण्डितम्॥ २८.३१ ॥

उद्यन्तं भास्करं दृष्ट्‌वा सान्द्रसिन्दूरसन्निभम्।
ततस्तत्पात्रमादाय जानुभ्यां धरणों गतः॥ २८.३२ ॥

कृत्वा शिरसि तत्प्रत्रमेकचित्तस्तु वाग्‌यतः।
त्र्यक्षरेण तु मन्त्रेण सूर्य्यायार्घ्यं निवेदयेत्॥ २८.३३ ॥

अदीक्षितस्तु तस्यैव नाम्नैवार्घ्घं प्रयच्छति।
श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः॥ २८.३४ ॥

अग्निनि र्ऋतिवाय्वीशमध्यपूर्व्वादिदिक्षु च।
हृच्छिरश्च शिखावर्मनेत्राण्यस्त्रञ्च पूजयेत्॥ २८.३५ ॥

दत्त्वार्घ्यं गन्धधूपञ्च दीपं नैवेद्यमेव च।
जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्‌ध्वा विसर्ज्जयेत्॥ २८.३६ ॥

ये वार्घ्यं सम्प्रयच्छन्ति सूर्य्याय नियतेन्द्रियाः।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः॥ २८.३७ ॥

भक्तितभावेन सततं विशुद्धेनान्तरात्मना।
ते भुक्त्‌वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम्॥ २८.३८ ॥

त्रैलोक्यदीपकं देवं भास्करं गगनेचरम्।
ये संश्रन्ति मनुजास्ते स्युः सुखस्य भाजनम्॥ २८.३९ ॥

यावन्न दीयते चार्घ्यं भास्कराय तथोदितम्।
तावन्न पूजयेद्धिष्णुं शङ्करं वा सुरेश्वरम्॥ २८.४० ॥

तस्मात् प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने।
आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः॥ २८.४१ ॥

एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः।
आदित्याय शुचिः स्नातः स लभेदोप्सितं फलम्॥ २८.४२ ॥

रोगाद्विमुत्यते रोगी वित्तार्थी लभते धनम्।
विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत्॥ २८.४३ ॥

यं यं काममभिध्यायन् सूर्य्यायार्घ्यं प्रयच्छति।
तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः॥ २८.४४ ॥

स्नात्वा वै सागरे दत्त्वा सूर्य्यायार्घ्यं प्रणम्य च।
नरो वा यदि वा नारी सर्व्वकामफलं लभेत्॥ २८.४५ ॥

ततः सूर्य्यालयं गच्छेत् पुष्पमादाय वाग्‌यतः।
प्रविश्य पूजयेद्‌भानुं कृत्वा तु त्रिः प्रदक्षिणम्॥ २८.४६ ॥

पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः
गन्धैः पुष्पैस्तथा दीपैर्धूपै र्नैवेद्यके रपि॥ २८.४७ ॥

दण्डवत् प्रणिपातैस्च जयशब्दैस्तथा स्तवैः।
एव सम्पूज्य तं देवं सहस्रांशु जगत्‌पतिम्॥ २८.४८ ॥

दशानामश्वमेधानां फलं प्राप्नोति मानवः।
सर्व्वपापविनिर्म्मुक्तो युवा दिव्यवपुर्नरः॥ २८.४९ ॥

सप्तावरान् सप्त परान् वंशानुद्‌धृत्य भो दिजाः।
विमानेनार्कवर्णेन कामगेन सुवर्च्चसा॥ २८.५० ॥

उपगीयमानो गन्धर्व्वैः सूर्य्यलोकं स गच्छति।
भुक्त्‌वा तत्र वरान् भोगान् यावगाभूतसंप्लवम्॥ २८.५१ ॥

पुण्यक्षयादिहायातः प्रवेर योगिनां कुले।
चतुर्व्वेदो भवेद्विप्रः स्वधर्म्मनिरतः शुचिः॥ २८.५२ ॥

योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात्।
चैत्रे मासि सिते पक्षे यात्रां मदनभञ्जिकाम्॥ २८.५३ ॥

यः करोति नास्तत्र पूर्व्वोक्तं स फलं लभेत्।
शयनोत्थापने भानोः संक्रान्त्यां विषुवायने॥ २८.५४ ॥

वारे रवेस्तिथौ चैव पर्व्वकालेऽतवा द्विजाः।
येतत्र यात्रां कुर्व्वन्ति श्रद्धया संयतेन्द्रियाः॥ २८.५५ ॥

विमानेनार्कवर्णेन सूर्य्यलोकं व्रजन्ति ते।
आस्ते तत्र महादेवस्तीरे नदनदीपतेः॥ २८.५६ ॥

रामेश्वर इति ख्यातः सर्व्वकामफलप्रदः।
ये तं पश्यन्ति कामारिं स्नात्वा सम्यङमहोदधौ॥ २८.५७ ॥

गन्धैः पुष्पैस्तथा धूपैर्दीपैनैवेद्यकैर्व्वरैः।
प्रणिपातैस्तथा स्तोत्रैर्गोतैर्वद्यैर्मनोहरैः॥ २८.५८ ॥

राजसूयफलं सम्यग्वाजिमैधफलं तथा।
प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा॥ २८.५९ ॥

कामगेन विमानेन किङ्किणीजालमालिना।
उपगीयमाना गन्धर्व्वैः शिवलोकं व्रजन्ति ते॥ २८.६० ॥

आभूतसंप्लवं यावद्‌भुक्त्वा भोगान्मनोरमान्।
पुण्यक्षयादिहागत्य चातुर्व्वेदा भवन्ति ते॥ २८.६१ ॥

शाङकरं योगमास्थाय ततो मोभं व्रजन्ति ते।
यस्तत्रच सवितुः क्षेत्रे प्राणांस्त्यजति मानवः॥ २८.६२ ॥

स सूर्य्यलोकमास्थाय देववन्मोदते दिवि।
पुनर्मानुषतां प्राप्य राजा भवति धार्म्मिकः॥ २८.६३ ॥

योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात्।
एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम्॥ २८.६४ ॥