प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

नारद उवाच।।
कानि तीर्थानि विप्रेन्द्र प्रह्लादोऽनुजगाम ह।
प्रह्लादतीर्थयात्रां मे सम्यगाख्यातुमर्हसि।। ७८.१

पुलस्त्य उवाच।।
श्रृणुष्व कथयिष्यामि पापपङ्कप्रणाशिनीम्।
प्रह्लादतीर्थयात्रां ते शुद्धपुण्यप्रदायिनीम्।। ७८.२

संत्यज्य मेरुं कनकाचलेन्द्रं तीर्थं जगामामरसंघजुष्टम्।
ख्यातं पृतिव्यां शुभदं हि मानसं यत्र स्थितो मत्स्यवपुः सुरेशः।। ७८.३

तस्मिंस्तीर्थवरे स्नात्वा संतर्प्य पितृदेवताः।
संपूज्य च जगन्नाथमच्युतं श्रुतिभिर्युतम्।। ७८.४

उपोष्य भूयः संपूज्य देवर्षिपितृमानवान्।
जगाम कच्छपं द्रष्टुं कौशिक्यां पापनाशनम्।। ७८.५

तस्यां स्नात्वा महानद्यां संपूज्य च जगत्पतिम्।
समुपोष्य शुचिर्भूत्वा दत्वा विप्रेषु दक्षिणाम्।। ७८.६

नमस्कृत्य जगन्नाथमथो कूर्मवपुर्धरम्।
ततो जगाम कृष्णाख्यं द्रष्टुं वाजिमुखं प्रभुम्।।

तत्र देवह्रदे स्नात्वा तर्पयित्वा पितॄन् सुरान्।। ७८.७
संपूज्य हयशीर्षं च जगाम गजसाह्वयम्।

तत्र देवं जगन्नाथं गोविन्दं चक्रपाणिनम्।। ७८.८
स्नात्वा संपूज्य विधिवत् जगाम यमुनां नदीम्।

तस्यां स्नातः शुचिर्भूत्वा संतर्प्यर्षिसुरान् पितॄन्।
ददर्श देवदेवेशं लोकनाथं त्रिविक्रमम्।। ७८.९

नारद उवाच।।
साम्प्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः।
करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः।। ७८.१०

तत्कथं पूर्वकालेऽपि विभुरासीत् त्रिविक्रमः।
कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद।। ७८.११

पुलस्त्य उवाच।।
श्रूयतां कथयिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः।
यस्मिन् काले संबभूव यं च वञ्चितवानसौ।। ७८.१२

आसीद् धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः।
दनुगर्भसमुद्भूतो महाबलपराक्रमः।। ७८.१३

स समाराद्य वरदं ब्रह्माणं तपसाऽसुरः।
अवध्यत्वं सुरैः सेन्द्रैः प्रार्थयत् स तु नारद।। ७८.१४

तद् वरं तस्य च प्रादात् तपसा पङ्कजोद्भवः।
परितुष्टः स च बली निर्जगाम त्रिविष्टपम्।। ७८.१५

चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान्।
धुन्धुः शक्रत्वमकरोद्धिरण्यकशिपौ सति।। ७८.१६

तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः।
चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः।। ७८.१७

ततोऽसुरा यथा कामं विहरन्ति त्रिविष्टपे।
ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः।। ७८.१८

ततोऽमरान् ब्रह्मसदो निवासिनः श्रुत्वाऽथ धुन्धुर्दितिजानुवाच।
व्रजाम दैत्या वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान्।। ७८.१९

ते धुन्धुवाक्यं तु निशम्य दैत्याः प्रोचुर्न नो विद्यति लोकपाल।
गतिर्यया याम पितामहाजिरं सुदुर्गमोऽयं परतो हि मार्गः।। ७८.२०

इतः सहस्रैर्बहुयोजनाख्यैर्लोको महर्नाम महर्षिजुष्टः।
येषां हि दृष्ट्याऽर्पणचोदितेन दह्यन्ति दैत्याः सहसेक्षितेन।। ७८.२१

ततोऽपरो योजनकोटिना वै लोको जनो नाम वसन्ति यत्र।
गोमातरोऽस्मासु विनाशकारि यासां रजोऽपीह महासुरेन्द्र।। ७८.२२

ततोऽपरो योजनकोटिभिस्तु षड्भिस्तपो नाम तपस्विजुष्टः।
तिष्ठन्ति यत्रासुर साध्यवर्या येषां हि न श्वासमरुत् त्वसह्यः।। ७८.२३

ततोऽपरो योजनकोटिभिस्तु त्रिंशद्भिरादित्यसहस्रदीप्तिः।
सत्याभिधानो भगवन्निवासो वरप्रदोऽभुद् भवतो हि योऽसौ।। ७८.२४

यस्य वेदध्वनिं श्रुत्वा विकसन्ति सुरादयः।
संकोचमसुरा यान्ति ये च तेषां सधर्मिणः।। ७८.२५

तस्मान्मा त्वं महाबाहो मतिमेतां समादधः।
वैराजभुवनं धुन्धो दुरारोहं सदा नृभिः।। ७८.२६

तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान्।
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान्।। ७८.२७

कथं तु कर्मणा केन गम्यते दानवर्षभाः।
कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः।। ७८.२८

ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम्।
कर्म तन्न वयं विद्मः शुक्रस्तद् वेत्त्यसंशयम्।। ७८.२९

दैत्यानां वचनं श्रुत्वा धुन्धुर्दैत्यपुरोहितम्।
पप्रच्छ शुक्रं किं कर्म कृत्वा ब्रह्मसदोगतिः।। ७८.३०

ततोऽस्मै कथयामास दैत्याचार्यः कलिप्रिय।
शक्रस्य चरितं श्रीमान् पुरा वृत्ररिपोः किल।। ७८.३१

शक्रः शतं तु पुण्यानां क्रतूनामजयत् पुरा।
दैत्येन्द्र वाजिमेधानां तेन ब्रह्मसदो गतः।। ७८.३२

तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्यवान्।
यष्टुं तुरगमेधानां चकार मतिमुत्तमाम्।

अथामन्त्र्यासुरगुरुं दानवांश्चाप्यनुत्तमान्।। ७८.३३
प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिणैः।

तदागच्छध्वमवनीं गच्छामो वसुधाधिपान्।। ७८.३४
विजित्य हयमेधान् वै यथाकामगुणन्वितान्।

आहूयन्तां च निधयस्त्वाज्ञाप्यन्तां च गुह्यकाः।। ७८.३५
आमन्त्र्यन्तां च ऋषयः प्रयामो देविकाटतम्।

सा हि पुण्या सरिच्छ्रेष्ठ सर्वसिद्धिकरी शुभा।
स्थानं प्राचीनमासाद्य वाजिमेधान् यजामहे।। ७८.३६

इत्थं सुरारेर्वचनं निशम्यासुरयाजकः।
बाढमित्यब्रवीद् हृष्टो निधयः संदिदेश सः।। ७८.३७

ततो धुन्धुर्देविकायाः प्राचीने पापनाशने।
भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः।। ७८.३८

सदस्या ऋत्विजश्चापि तत्रासन् भार्गवा द्विजाः।
शुक्रस्यानुमते ब्रह्मन् शुक्रशिष्याश्च पण्डिताः।। ७८.३९

यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखा मुने।
कृताश्चासुरनाथेन शुक्रस्यानुमतेऽसुराः।। ७८.४०

ततः प्रवृत्तो यज्ञस्तु समुत्सृष्टस्तथा हयः।
हयस्यानु ययौ श्रीमानसिलोमा महासुरः।। ७८.४१

ततोऽग्निधूमेन मही सशैला व्याप्ता दिशः खं विदिशश्च पूर्णाः।
तेनोग्रगन्धेन दिवस्पृशेन मरुद् ववौ ब्रह्मलोके महर्षे।। ७८.४२

तं गन्धमाघ्राय सुरा विषण्णा जानन्त धुन्धुं हयमेधदीक्षितम्।
ततः शरण्यं शरणं जनार्धनं जग्मुः सशक्रा जगतः परायणम्।। ७८.४३

प्रणम्य वरदं देवं पद्मनाभं जनार्दनम्।
प्रोचुः सर्वे सुरगणा भयगद्गदया गिरा।। ७८.४४

भगवन् देवदेवेश चराचरपरायण।
विज्ञप्तिः श्रूयतां विष्णो सुराणामार्तिनाशन।। ७८.४५

धुन्धुर्नामासुरपतिर्बलवान् वरबृंहितः।
सर्वान् सुरान् विनिर्जित्य त्रैलोक्यमहरद् बलिः।। ७८.४६

ऋते पिनाकिनो देवात् त्राताऽस्मान् न यतो हरे।
अतो विवृद्धिमगमद् यथा व्याधिरुपेक्षितः।। ७८.४७

साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः।
शुक्रस्य मतमास्थाय सोऽश्वमेधाय दीक्षितः।। ७८.४८

शतं क्रतूनामिष्ट्वाऽसौ ब्रह्मलोकं महासुरः।
अरोढुमिच्छति वशी विजेतुं त्रिदशानपि।। ७८.४९

तस्मादकालहीनं तु चिन्तयस्व जगद्गुरो।
उपायं मखविध्वंसे येन स्याम सुनिर्वृताः।। ७८.५०

श्रुत्वा सुराणां वचनं भगवान् मधुसूदनः।
दत्त्वाऽभयं महाबाहुः प्रेषयामास साम्प्रतम्।
विसृज्य देवताः सर्वा ज्ञात्वाऽजेयं महासुरम्।। ७८.५१

बन्धनाय मतिं चक्रे धुन्धोर्धर्मध्वजस्य वै।
ततः कृत्वा स भगवान् वामनं रूपमीश्वरः।। ७८.७८

देहं त्यक्त्वा निरालम्बं काष्टवद् देविकाजले।
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया।। ७८.५३

दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैस्तथर्षिभिः।
ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः।। ७८.५४

समुत्तारयितुं विप्रमाद्रवन्त समाकुलाः।
सदस्या यजमानश्च ऋत्विजोऽथ महौजसः।। ७८.५५

निमज्जमानमुज्जह्रुः सर्वे ते वामनं द्विजम्।
समुत्तार्य प्रसन्नास्ते पप्रच्छुः सर्व एव हि।
किमर्थं पतितोऽसीह केनाक्षिप्तोऽसि नो वद।। ७८.५६

तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः।
प्राह धुन्धुपुरोगांस्ताञ्छ्रूयतामत्र कारणम्।। ७८.५७

ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः।
सर्वशास्त्रार्थवित् प्राज्ञो गोत्रतश्चापि वारुणः।। ७८.५८

तस्य पुत्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम्।
तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम्।। ७८.५९

नेत्रभास इति ख्यातो ज्येष्ठो भ्राता ममासुर।
मम नाम पिता चक्रे गतिभासेति कौतुकात्।। ७८.६०

रम्यश्चावसथो बन्धो शुभश्चासीत् पितुर्मम।
त्रिविष्टपगुणैर्युक्तश्चारुरूपो महासुर।। ७८.६१

ततः कालेन महता आवयोः स पिता मृतः।
तस्योर्ध्वदेहिकं कृत्वा गृहमावां समागतौ।। ७८.६२

ततो मयोक्तः स भ्राता विभजाम गृहं वयम्।
तेनोक्तो नैव भवतो विद्यते भाग इत्यहम्।। ७८.६३

कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि।
उन्मत्तानां तथान्धानां धनभागो न विद्यते।। ७८.६४

शय्यासनस्थानमात्रं स्वेच्छयान्नभुजक्रिया।
एतावद् दीयते तेभ्यो नार्थभागहरा हि ते।। ७८.६५

एवमुक्ते मया सोक्तः किमर्थं पैतृकाद् गृहात्।
धनार्धभागमर्हामि नाहं न्यायेन केन वै।। ७८.६६

इत्युक्तावति वाक्येऽसौ भ्राता मे कोपसंयुतः।
समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात्।। ७८.६७

ममास्यां निम्नगायां तु मध्येन प्लवतो गतः।
कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः।। ७८.६८

के भवन्तोऽत्र संप्राप्ताः सस्नेहा बान्धवा इव।
कोऽयं च शक्रप्रतिमो दीक्षितो यो महाभुजः।। ७८.६९

तन्मे सर्वं समाख्याता याथातथ्यं तपोधनाः।
महर्द्धिसंयुता यूयं सानुकम्पाश्च मे भृशम्।। ७८.७०

तद् वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः।
प्रोचुर्वयं द्विजा ब्रह्मन् गोत्रतश्चापि भार्गवाः।। ७८.७१

असावपि महातेजा धुन्धुर्नाम महासुरः।
दाता भोक्ता विभक्ता च दीक्षितो यज्ञकर्मणि।। ७८.७२

इत्येवमुक्त्वा देवेशं वामनं भार्गवास्ततः।
प्रोचुर्दैत्यपतिं सर्वे वामनार्थकरं वचः।। ७८.७३

दीयतामस्य दैत्येन्द्र सर्वोपस्करसंयुतम्।
श्रीमदावसथं दास्यो रत्नानि विविधानि च।। ७८.७४

इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्वचः।
प्राह द्विजेन्द्र ते दद्मि यावदिच्छसि वै धनम्।। ७८.७५

दास्ये गृहं हिरण्यं च वाजिनः स्यन्दनान् गजान्।
प्रयच्छाम्यद्य भवतो व्रियतामीप्सितं विभो।। ७८.७६

तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः।
प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः।। ७८.७७

सोदरेणापि हि भ्रात्रा ह्रियन्ते यस्य संपदः।
तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति।। ७८.७८

दासीदासांश्च भृत्यांश्च गृहं रत्नं परिच्छदम्।
समर्थेषु द्विजेन्द्रेषु प्रयच्छस्व महाभुज।। ७८.७९

मम प्रमाणमालोक्य मामकं च पदत्रयम्।
संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः।। ७८.८०

इत्येवमुक्ते वचने महात्मना विहस्य दैत्याधिपतिः सऋत्विजः।
प्रादाद् द्विजेन्द्राय पदत्रयं तदा यदा स नान्यं प्रगृहाण किंचित्।। ७८.८१

क्रमत्रयं तावदवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी।
चक्रे ततो लङ्घयितुं त्रिलोकीं त्रिविक्रमं रूपमनन्तशक्तिः।। ७८.८२

कृत्वा च रूपं दितिजांश्च हत्वा प्रणम्य चर्षिन् प्रथमक्रमेण।
महीं महीध्रैः सहितां सहार्णवां जहार रत्नाकरपत्तनैर्युताम्।। ७८.८३

भुवं सनाकं त्रिदसाधिवासं सोमार्कऋक्षैरभिमण्डितं नभः।
देवो द्वितीयेन जहार वेगात् क्रमेण देवप्रियमीप्सुरीश्वरः।। ७८.८४

क्रमं तृतीयं न यदाऽस्य पूरितं तदाऽतिकोपाद् दनुपुंगवस्य।
पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण।। ७८.८५

पतता वासुदेवेन दानवोपरि नारद।
त्रिंशद्योजनसाहस्री भूमेर्गर्ता दृढीकृता।। ७८.८६

ततो दैत्यं समुत्पाट्य तस्यां प्रक्षिप्य वेगतः।
अवर्षत् सिकतावृष्ट्या तां गर्तामपूरयत।। ७८.८७

ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः।
सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः।। ७८.८८

भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे।
कालिन्द्य रूपमाधाय तत्रैवान्तरधीयत।। ७८.८९

एवं पुरा विष्णुरभूच्च वामनो धुन्धुं विजेतुं च त्रिविक्रमोऽभूत्।
यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे।। ७८.९०

इति श्रीवामनपुराणे द्विपञ्चाशोऽध्यायः ।।