प्रमुखा विकल्पसूचिः उद्घाट्यताम्

९२.२७ विशाखा देवदेवस्य भ्रुवोर्मध्ये व्यवस्थिताः। (पाठभेदः)

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
एतस्मिन्नन्तरे प्राप्ते भगवान् वामनाकृतिः।
यज्ञवाटमुपागम्य उच्चैर्वचनमब्रवीत्।। ९२.१

ॐकारपूर्वाः श्रुतयो मखेऽस्मिन् तिष्ठन्ति रूपेण तपोधनानाम्।
यज्ञोऽश्वमेधः प्रवरः क्रतूनां मुख्यस्तथा सत्रिषु दैत्यनाथः।। ९२.२

इत्थं वचनमाकर्ण्य दानवाधिपतिर्वशी।
सार्घपात्रः समभ्यागाद्यत्र देवः स्थितोऽभवत्।। ९२.३

ततोऽर्च्य. देवदेवेशमर्च्यमर्घ्यादिनासुरः।
भरद्वाजर्षिणा सार्धं यज्ञवाटं प्रवेशयत्।। ९२.४

प्रविष्टमात्रं देवेशं प्रतिपूज्य विधानतः।
प्रोवाच भगवन् ब्रूहि किं दद्मि तव मानद।। ९२.५

ततोऽब्रवीत् सुरश्रेष्ठो दैत्यराजानमव्ययः।
विहस्य सुचिरं कालं भरद्वाजमवेक्ष्य च।। ९२.६

गुरोर्मदीयस्य गुरुस्तस्यास्त्यग्निपरिग्रहः।
न स धारयते भूम्यां पारक्यां जातवेदसम्।। ९२.७

तदर्थमभियाचेऽहं मम दानवपार्थिव।
मच्छरीरप्रमाणेन देहि राजन् पदत्रयम्।। ९२.८

सुरारेर्वचनं श्रुत्वा बलिर्भार्यामवेक्ष्य च।
बाणं च तनयं वीक्ष्य इदं वचनमब्रवीत्।। ९२.९

न केवलं प्रमाणेन वामनोऽयं लघुः प्रिये।
येन क्रमत्रयं मौर्ख्याद् याचते बुद्धितोऽपि च।। ९२.१०

प्रायो विधाताऽल्पधियां नराणां बहिष्कृतानां च महानुभाग्यैः।
धनादिकं भूरि न वै ददाति यथेह विष्णोर्न बहुप्रयासः।। ९२.११

न ददाति विधिस्तस्य यस्य भाग्यविपर्ययः।
मयि दातरि यश्चायमद्य याचेत् पदत्रयम्।। ९२.१२

इत्येवमुक्त्वा वचनं महात्मा भूयोऽप्युवाचाथ हरिं दनूजः।
याचस्व विष्णो गजवाजिभूमिं दासी हिरण्यं यदभीप्सितं च।। ९२.१३

भवान् याचयिता विष्णो अहं दाता जगत्पतिः।
दातुर्याचयितुर्लज्जा कथं न स्यात् पदत्रये।। ९२.१४

रसातलं वा पृथिवीं भुवं नाकमथापि वा।
एतेभ्यः कतमं दद्यां स्थानं याचस्व वामन।। ९२.१५

वामन उवाच।।
गजाश्वभूहिरण्यादि तदर्थिभ्यः प्रदीयताम्।
एतावता त्वहं चार्थी देहि राजन् पदत्रयम्।। ९२.१६

इत्येवमुक्ते वचने वामनेन महासुरः।
बलिर्भृङ्गारमादाय ददौ विष्णोः क्रमत्रयम्।। ९२.१७

पाणौ तु पतिते तोये दिव्यं रूपं चकार ह।
त्रैलोक्यक्रमणार्थाय बहुरूपं जगन्मयम्।। ९२.१८

पद्भ्यां भूमिस्तथा जङ्घे नभस्त्रैलोक्यवन्दितः।
सत्यं तपो जानुयुग्मे ऊरुभ्यां मेरुमन्दरौ।। ९२.१९

विश्वेदेवा कटीभागे मरुतो वस्तिशीर्षगाः।
लिङ्गे स्थितो मन्मथश्च वृषणाभ्यां प्रजापतिः।। ९२.२०

कुक्षिभ्यामर्णवाः सप्त जठरे भुवनानि च।
वलिषु त्रिषु नद्यश्च यज्ञास्तु जठरे स्थिताः।। ९२.२१

इष्टापूर्तादयः सर्वाः क्रियास्तत्र तु संस्थिताः।
पृष्ठस्था वसवो देवाः स्कन्धौ रुद्रैरधिष्ठितौ।। ९२.२२

बाहवश्च दिशः सर्वा वसवोऽष्टौ करे स्मृताः।
हृदये संस्थितो ब्रह्मा कुलिशो हृदयास्थिषु।। ९२.२३

श्रीसमुद्रा उरोमध्ये चन्द्रमा मनसि स्थितः।
ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्थिताः।। ९२.२४

मुखे तु साग्नयो विप्राः संस्कारा दशनच्छदाः।
धर्मकामार्थमोक्षीयाः शास्त्रः शौचसमन्विताः।। ९२.२५

लक्ष्म्या सह ललाटस्थाः श्रवणाभ्यामथाश्विनौ।
श्वासस्थो मातरिश्वा च मरुतः सर्वसंधिषु।। ९२.२६

सर्वसूक्तानि दशना जिह्वा देवी सरस्वती।
चन्द्रादित्यौ च नयने पक्ष्मस्थाः कृत्तिकादयः।। ९२.२७

शिखायां देवदेवस्य ध्रुवो राजा न्यषीदत।
तारका रोमकूपेभ्यो रोमाणि च महर्षयः।। ९२.२८

गुणैः सर्वमयो भूत्वा भगवान् भूतभावनः।
क्रमेणैकेन जगतीं जहार सचराचराम्।। ९२.२९

भूमिं विक्रममाणस्य महारूपस्य तस्य वै।
दक्षिणोऽभूत् स्तनश्चन्द्रः सूर्योऽभूदथ चोत्तरः।
नक्षश्चाक्रमतो नाभिं सूर्येन्दू सव्यदक्षिणौ।। ९२.३०

द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसाः।
क्रान्तार्धार्धेन वैराजं मध्येनापूर्यताम्बरम्।। ९२.३१

ततः प्रतापिना ब्रह्मन् बृहद्विष्ण्वङ्घ्रिणाम्बरे।
ब्रह्माण्डोदरमाहत्य निरालोकं जगाम ह।। ९२.३२

विश्वाङ्‌घ्रिणा प्रसरता कटाहो भेदितो बलान्।
कुटिला विष्णुपादे तु समेत्य कुटिला ततः।। ९२.३३

तस्या विष्णुपदीत्येवं नामाख्यातमभून्मुने।
तथा सुरनदीत्येवं तामसेवन्त तापसाः।
भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः।। ९२.३४

समभ्येत्य बलिं प्राह ईषत् प्रस्फुरिताधरः।
ऋणाद् भवति दैत्येन्द्र बन्धनं घोरदर्शनम्।
त्वं पूरय पदं तन्मे नो चेद् बन्धं प्रतीच्छ भोः।। ९२.३५

तन्मुरारिवचः श्रुत्वा विहस्याथ बलेः सुतः।
बाणः प्राहामरपतिं वचनं हेतुसंयुतम्।। ९२.३६

बाण उवाच।।
कृत्वा महीमल्पतरां जगत्पते स्वायंभुवादिभुवनानि वै षट्।
कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान् नो विपुलामथाकरोत्।। ९२.३७

विभो मही यावतीयं त्वयाऽद्य सृष्टा समेता भुवनान्तरालैः।
दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यतेऽद्य।। ९२.३८

या नैव शक्या भवता हि पूरितुं कथं वितन्याद् दितिजेश्वरोऽसौ।
शक्तस्तु संपूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व।। ९२.३९

प्रोक्तं श्रुतौ भवतापीश वाक्यं दानं पात्रे भवते सौख्यदायि।
देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे।। ९२.४०

दानं भूमिः सर्वकामप्रदेयं भवान् पात्रं देवदेवो जितात्मा।
कालो ज्येष्ठामूलयोगे मृगाङ्गः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम्।। ९२.४१

किं वा देवोऽस्मद्विधैर्बुद्धिहीनैः शिक्षापनीयः साधु वाऽसाधु चैव।
स्वयं श्रुतीनामपि चादिकर्त्ता व्याप्य स्थितः सदसद् यो जगद् वै।। ९२.४२

कृत्वा प्रमाणं स्वयमेव हीनं पदत्रयं याचितवान् भुवश्च।
किं त्वं न गृह्णासि जगत्त्रयं भो रूपेण लोकत्रयवन्दितेन।। ९२.४३

नात्राश्चर्यं यज्जगद् वै समग्रं क्रमत्रयं नैव पूर्णं तवाद्य।
क्रमेण त्वं लङ्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ।। ९२.४४

प्रमाणहीनां स्वयमेव कृत्वा वसुंधरां माधव पद्मनाभ।
विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति।। ९२.४५

पुलस्त्य उवाच।।
इत्येवमुक्ते वचने बाणेन बलिसूनुना।
प्रोवाच भगवान् वाक्यमादिकर्त्ता जनार्दनः।। ९२.४६

त्रिविक्रम उवाच।।
यान्युक्तानि वचांसीत्थं त्वया बालेय साम्प्रतम्।
तेषां वै हेतुसंयुक्तं श्रृणु प्रत्युत्तरं मम।। ९२.४७

पूर्वमुक्तस्तव पिता मया राजन् पदत्रयम्।
देहि मह्यं प्रमाणेन तदेतत् समनुष्ठितम्।। ९२.४८

किं न वेत्ति प्रमाणं मे बलिस्तव पितासुर।
प्रायच्छद् येन निःशङ्कं ममानन्तं क्रमत्रयम्।। ९२.४९

सत्यं क्रमेण चैकेन क्रमेयं भूर्भुवादिकम्।
बलेरपि हितार्थाय कृतमेतत् क्रमत्रयम्।। ९२.५०

तस्माद् यन्मम बालेय त्वत्पित्राम्बु करे महत्।
दत्तं तेनायुरेतस्य कल्पं यावद् भविष्यति।। ९२.५१

गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम्।
सावर्णिके च संप्राप्ते बलिरिन्द्रो भविष्यति।। ९२.५२

इत्थं प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः।
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम्।। ९२.५३

श्रीभगवानुवाच।।
आपूरणाद् दक्षिणाया गच्छ राजन् महाफलम्।
सुतलं नाम पातालं वस तत्र निरामयः।। ९२.५४

बलिरुवाच।।
सुतले वसतो नाथ मम भोगाः कुतोऽव्ययाः।
भविष्यन्ति तु येनाहं निवत्स्यामि निरामयः।। ९२.५५

त्रिविक्रम उवाच।।
सुतलस्थस्य दैत्येन्द्र यानि भोगानि तेऽधुना।
भिवष्यन्ति महार्हाणि तानि वक्ष्यामि सर्वशः।। ९२.५६

दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च।
तथाधीतान्यव्रतिभिर्दास्यन्ति भवतः फलम्।। ९२.५७

तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे।
द्वारप्रतिपदा नाम तव भावी महोत्सवः।। ९२.५८

तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलंकृताः।
पुष्पदीपप्रदानेन अर्जयिष्यन्ति यत्नतः।। ९२.५९

तत्रोत्सवो मुख्यतमो भविष्यति दिवानिशं हृष्टजनाभिरामम्।
यथैव राज्ये भवतस्तु साम्प्रतं तथैव सा भाव्यथ कौमुदी च।। ९२.६०

इत्येवमुक्त्वा मधुहा दितीश्वरं विसर्जयित्वा सुतलं सभार्यम्।
यज्ञं समादाय जगाम तूर्णं स शक्रसद्भामरसंघजुष्टम्।। ९२.६१

दत्त्वा मघोने च विभुस्त्रिविष्टपं कृत्वा च देवान् मखभागभोक्तॄन्।
अन्तर्दधे विश्वपतिर्महर्षे संपश्यतामेव सुराधिपानाम्।। ९२.६२

स्वर्गं गते धातरि वासुदेवे शाल्वोऽसुराणां महता बलेन।
कृत्वा पुरं सौभमिति प्रसिद्धं तदान्तरिक्षे विचचार कामात्।। ९२.६३

मयस्तु कृत्वा त्रिपुरं महात्मा सुवर्णताम्रायसमग्र्यसौख्यम्।
सतारकाक्षः सह वैद्युतेन संतिष्ठते भृत्यकलत्रवान् सः।। ९२.६४

बणोऽपि देवेन हृते त्रिविष्टपे बद्धे बलौ चापि रसातलस्थे।
कृत्वा सुगुप्तं भुवि शोणिताख्यं पुरं स चास्ते सह दानवेन्द्रैः।। ९२.९२

एवं पुरा चक्रधरेण विष्णुना बद्धो बलिर्वामनरूपधारिणा।
शक्रप्रियार्थं सुरकार्यसिद्धये हिताय विप्रर्षभगोद्विजानाम्।। ९२.६६

प्रादुर्भवस्ते कथितो महर्षे पुण्यः शुचिर्वामनस्याघहारी।
श्रुते यस्मिन् संस्मृते कीर्तिते च पापं याति प्रक्षयं पुण्यमेति।। ९२.६७

एतत् प्रोक्तं भवतः पुण्यकीर्त्तेः प्रादुर्भावो बलिबन्धोऽव्ययस्य।
यच्चाप्यन्यत् श्रोतुकामोऽसि विप्र तत्प्रोच्यतां कथयिष्याम्यशेषम्।। ९२.६८

इति श्रीवामनपुराणे पञ्चषष्टितमोऽध्यायः ।। ९२ ।।