वामनपुराणम्/प्रथमोऽध्यायः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ।
श्रीधराय नमस्तस्मै छद्मवामनरूपिणे।। १-१
पुलस्त्यमृषिमासीनमाश्रमेवाग्विदांवरम्।
नारदः परिपप्रच्छ पुराणं वामनाश्रयम्।।१-२
कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना।
वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः।। १-३
कथं च वैष्णवो भूत्वा प्रह्लादो दैत्यसत्तमः।
त्रिदशैर्युयुधे सार्थमत्र मे संशयो महान्। १-४
श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती।
शंकरस्य प्रिया भार्या बभूव वरवर्णिनी।। १-५
किमर्थं सा परित्यज्य स्वशरीरं वरानना।
जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः।। १-६
पुनश्च देवदेवस्य पत्नीत्वमगमच्छुभा।
एतन्मे संशयं छिन्धि सर्ववित् त्वं मतोऽसि मे।। १-७
तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम।
व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज।। १-८
एवमुक्तो नारदेन पुलस्त्यो मुनिसत्तमः।
प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम्।। १-९
पुलस्त्य उवाच
पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः।
अवधानं स्थिरं कृत्वा श्रृणुष्व मुनिसत्तम ।। १-१०
पुरा हैमवती देवी मन्दरस्थं महेश्वरम्।
उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम्।। १-११
ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम्।
यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः।। १-१२
एवमुक्तो भवान्या तु शंकरो वाक्यमब्रवीत्।
निराश्रयोऽहं सुदती सदाऽरण्यचरः शुभे।। १-१३
इत्युक्ता शंकरेणाथ वृक्षच्छायासु नारद।
निदाघकालमनयत् समं शर्वेण सा सती।। १-१४
निदाघान्ते समुद्भूतो निर्जनाचरितोऽद्भुतः।
घनान्धकारिताशो वै प्रावृट्कालोऽतिरागवान्।। १-१५
तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम्।
प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा।। १-१६
विवान्ति वाता हृदयावदारणा
गर्जन्त्यमी लोयधरा महेश्वर।
स्फुरन्ति नीलाभ्रगणेषु विद्युतो
वाशन्ति केकारवमेव बर्हिणः।। १-१७
पतन्ति धारा गगनात् परिच्युता
बका बलाकाश्च सरन्ति तोयदान्।
कदम्बसर्ज्जार्जुनकेतकीद्रुमाः
पुष्पाणि मुञ्चन्ति सुमारुताहताः।। १-१८
श्रुत्वैव मेघस्य दृढं तु गर्जितं
त्यजन्ति हंसाश्च सरांसि तत्क्षणात्।
यथाश्रयान् योगिगणः समन्तात्
प्रवृद्धमूलानपि संत्यजन्ति।। १-१९
इमानि यूथानि वने मृगाणां
चरन्ति धावन्ति रमन्ति शंभो।
तथाऽचिराभाः सुतरां स्फुरन्ति
पश्येह नीलेषु घनेषु देव।
नूनं समृद्धिं सलिलस्य दृष्ट्वा
चरन्ति शूरास्तरुणद्रुमेषु।। १-२०
उद्वृत्तवेगाः सहसैव निम्नगा
जाताः शशङ्काङ्कितचारुमैले।
किमत्र चित्रं यदनुज्ज्वलं जनं
निषेव्य योषित् भवति त्वशीला।। १-२१
नीलैश्च मेघैश्च समावृतं नभः
पुष्पैश्च सर्ज्जा मुकुलैश्च नीपाः।
फलैश्च बिल्वाः पयसा तथापगाः
पत्रैः सपद्मैश्च महासरांसि।। १-२२
काले सुरौद्रे ननु ते ब्रवीमि।
गृहं कुरुष्वात्र महाचजलोत्तमे
सुनिर्वृता येन भवामि शंभो।। १-२३
इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे।
न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये।। १-२४
ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः।
केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः।। १-२५
नागस्तथैवाश्वतरो हि कङ्कणं सव्येतरे तक्षक उत्तरे तथा।
नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः।। १-२६
पुलस्त्य उवाच
इति वचनमथोग्रं शंकरात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता।
अवनितलमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्णम्।। १-२७
देव्युवाच
कथं हि देवदेवेश प्रावट्कालो गमिष्यति।
वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः।। १-२८
शङ्कर उवाच
घनावस्थितदेहायाः प्रावृट्कालः प्रयास्यति।
यथाम्बुधारा न तव निपतिष्यन्ति विग्रहे।१.२९
पुलस्त्य उवाच
ततो हरस्तद्घनखण्डमुन्नत
मारुह्य तस्थौ सह दक्षकन्यया
ततोऽभवन्नाम तदेश्वरस्य
जीमूतकेतुस्त्विति विश्रुतं दिवि।। १-३०
इति श्रीवामनपुराणे प्रथमोऽध्यायः ।।