वामनपुराणम्/द्विचत्वारिंशत्तमोऽध्यायः
ऋषय ऊचुः।
काम्यकस्य तु पूर्वेण कुञ्जं देवैर्निषेवितम् ।
तस्य तीर्थस्य संभूतिं विस्तरेण ब्रवीहि नः १ ।
लोमहर्षण उवाच।
शृण्वन्तु मुनयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।
ऋषीणां चरितं श्रुत्वा मुक्तो भवति किल्बिषैः २ ।
नैमिषेयाश्च ऋषयः कुरुक्षेत्रे समागताः ।
सरस्वत्यास्तु स्नानार्थं प्रवेशं ते न लेभिरे ३ ।
ततस्ते कल्पयामासुस्तीर्थं यज्ञोपवीतिकम् ।
शेषास्तु मुनयस्तत्र न प्रवेशं हि लेभिरे ४ ।
रन्तुकस्याश्रमात्तावद् यावत्तीर्थं सचक्रकम् ।
ब्राह्मणैः परिपूर्णं तु दृष्ट्वा देवी सरस्वती ५ ।
हितार्थं सर्वविप्राणां कृत्वा कुञ्जानि सा नदी ।
प्रयाता पश्चिमं मार्गं सर्वभूतहिते स्थिता ६ ।
पूर्वप्रवाहे यः स्नाति गङ्गास्नानफलं लभेत् ।
प्रवाहे दक्षिणे तस्या नर्मदा सरितां वरा ७ ।
पश्चिमे तु दिशाभागे यमुना संश्रिता नदी ।
यदा उत्तरतो याति सिन्धुर्भवति सा नदी ८ ।
एवं दिशाप्रवाहेण याति पुण्या सरस्वती ।
तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः ९ ।
ततो गच्छेद् द्विजश्रेष्ठा मदनस्य महात्मनः ।
तीर्थं त्रैलोक्यविख्यातं विहारं नाम नामतः १० ।
यत्र देवाः समागम्य शिवदर्शनकाङ्क्षिणः ।
समागता न चापश्यन् देवं देव्या समन्वितम् ११ ।
ते स्तुवन्तो महादेवं नन्दिनं गणनायकम् ।
ततः प्रसन्नो नन्दीशः कथयामास चेष्टितम् १२ ।
भवस्य उमया सार्धं विहारे क्रीडितं महत् ।
तच्छ्रुत्वा देवतास्तत्र पत्नीराहूय क्रीडिताः १३ ।
तेषां क्रीडाविनोदेन तुष्टः प्रोवाच शङ्करः ।
योऽस्मिंस्तीर्थे नरः स्नाति विहारे श्रद्धयान्वितः १४ ।
धनधान्यप्रियैर्युक्तो भवते नात्र संशयः ।
दुर्गातीर्थं ततो गच्छेद् दुर्गया सेवितं महत् १५ ।
यत्र स्नात्वा पितॄन् पूज्य न दुर्गतिमवाप्नुयात् ।
तत्रापि च सरस्वत्याः कूपं त्रैलोक्यविश्रुतम् १६ ।
दर्शनान्मुक्तिमाप्नोति सर्वपातकवर्जितः ।
यस्तत्र तर्पयेत् देवान् पितॄंश्च श्रद्धयान्वितः १७ ।
अक्षय्यं लभते सर्वं पितृतीर्थं विशिष्यते ।
मातृहा पितृहा यश्च ब्रह्महा गुरुतल्पगः १८ ।
स्नात्वा शुद्धिमवाप्नोति यत्र प्राची सरस्वती ।
देवमार्गप्रविष्टा च देवमार्गेण निःसृता १९ ।
प्रची सरस्वती पुण्या अपि दुष्कृतकर्मणाम् ।
त्रिरात्रं ये करिष्यन्ति प्राचीं प्राप्य सरस्वतीम् २० ।
न तेषां दुष्कृतं किञ्चिद् देहमाश्रित्य तिष्ठति ।
नरनारायणौ देवौ ब्रह्मा स्थाणुस्तथा रविः २१ ।
प्रचीं दिशं निषेवन्ते सदा देवाः सवासवाः ।
ये तु श्राद्धं करिष्यन्ति प्राचीमाश्रित्य मानवाः २२ ।
तेषां न दुर्लभं किञ्चिदिह लोके परत्र च ।
तस्मात् प्राची सदा सेव्या पञ्चम्यां च विशेषतः २३ ।
पञ्चम्यां सेवमानस्तु लक्ष्मीवान् जायते नरः ।
तत्र तीर्थमौशनं त्रैलोक्यस्यापि दुर्लभम् २४ ।
उशना यत्र संसिद्ध आराध्य परमेश्वरम् ।
ग्रहमध्येषु पूज्यते तस्य तीर्थस्य सेवनात् २५ ।
एवं शुक्रेण मुनिना सेवितं तीर्थमुत्तमम् ।
ये सेवन्ते श्रद्दधानास्ते यान्ति परमां गतिम् २६ ।
यस्तु श्राद्धं नरो भक्त्या तस्मिंस्तीर्थे करिष्यति ।
पितरस्तारितास्तेन भविष्यन्ति न संशयः २७ ।
चतुर्मुखं ब्रह्मतीर्थं सरो मर्यादया स्थितम् ।
ये सेवन्ते चतुर्दश्यां सोपवासा वसन्ति च २८ ।
अष्टम्यां कृष्णपक्षस्य चैत्रे मासि द्विजोत्तमाः ।
ते पश्यन्ति परं सूक्ष्मं यस्मान्नावर्तते पुनः २९ ।
स्थाणुतीर्थं ततो गच्छेत् सहस्रलिङ्गशोभितम् ।
तत्र स्थाणुवटं दृष्ट्वा मुक्तो भवति किल्बिषैः ३० ।
इति श्रीवामनपुराणे सरोमाहात्म्ये द्विचत्वारिंशत्तमोऽध्यायः।