वामनपुराणम्/पञ्चविंशतितमोऽध्यायः
ब्रह्मोवाच
यदर्थमिह संप्राप्ता भवन्तः सर्व एव हि
चिन्तयाम्यहमप्यग्रे तदर्थं च महाबला १
भविष्यति च वः सर्वं काङ्क्षितं यत् सुरोत्तमाः
बलेर्दानवमुख्यस्य योऽस्य जेता भविष्यति २
न केवलं सुरादीनां गतिर्मम स विश्वकृत्
त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ३
यः प्रभुः सर्वलोकानां विश्वेशश्च सनातनः
पूर्वजोऽयं सदाप्याहुरादिदेवं सनातनम् ४
तं देवापि महात्मानं न विदुः कोऽप्यसाविति
देवानस्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ५
तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम्
यत्र योगं समास्थाय तपश्चरति दुश्चरम् ६
क्षीरोदस्योत्तरे कूले उदीच्यां दिशि विश्वकृत्
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ७
भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः
अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ८
ततः श्रोष्यथ संघुष्टां स्निग्धगम्भीरनिःस्वनाम्
उष्णान्ते तोयदस्येव तोयपूर्णस्य निःस्वनम् ९
रक्तां पुष्टाक्षरां रम्यामभयां सर्वदा शिवाम्
वाणीं परमसंस्कारां वदतां ब्रह्मवादिनाम् १०
दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम्
सर्वदेवाधिदेवस्य ततोऽसौ भावितात्मनः ११
तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने
अमोघं तस्य देवस्य विश्वतेजो महात्मनः १२
कस्य किं वो वरं देवा ददामि वरदः स्थितः
स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः १३
ततोऽदितिः कश्यपश्च गृह्णीयातां वरं तदा
प्रणम्य शिरसा पादौ तस्मै देवाय धीमते १४
भगवानेव नः पुत्रो भवत्विति प्रसीद नः
उक्तश्च परया वाचा तथास्त्विति स वक्ष्यति १५
देवा ब्रुवन्ति ते सर्वे कस्यपोऽदितिरेव च
तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम्
श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति १६
तेऽचिरेणैव संप्राप्ताः क्षीरोदं सरितां पतिम्
यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना १७
ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान्
नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोत्तमाः १८
अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम्
अभास्करममर्यादं तमसा सर्वतो वृतम् १९
अमृतं स्थानमासाद्य कश्यपेन महात्मना
दीक्षिताः कामदं दिव्यं व्रतं वर्ष सहस्रकम् २०
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते
नारायणाय देवाय सहस्राक्षाय भूतये २१
ब्रह्मचर्येण मौनेन स्थाने वीरासनेन च
क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः २२
कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः
उदीरयत वेदोक्तं यमाहुः परमं स्तवम् २३
इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चविंशतितमोऽध्यायः