प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

ब्रह्मोवाच।।
परदाराभिगमनं पापीयांसोपसेवनम्।
पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम्।। ६१.१

फलस्तेयं महापापं फलहीनं तथाऽटनम्।
छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम्।। ६१.२

वर्ज्यादानं तथा दुष्टमवध्यवधबन्धनम्।
विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम्।। ६१.३

भयदं सर्वसत्त्वानां भवभूति विनाशनम्।
भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम्।। ६१.४

मारणं मित्रकौटिल्यं मिथ्याऽभिशपनं च यत्।
मिष्टैकाशनमित्युक्तं पञ्चमं तु नृपाचनम्।। ६१.५

यन्त्रः फलादिहरणं यमनं योगनाशनम्।
यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम्।। ६१.६

राजभागहरं मूढं राजजायानिषेवणम्।
राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम्।। ६१.७

लुब्धत्वं लोलुपत्वं च लब्धधर्मार्थनाशनम्।
लालासंकीर्णमेवोक्तमष्टमं नरकं स्मृतम्।। ६१.८

विप्रोष्यं ब्रह्महरणं ब्राह्मणानां विनिन्दनम्।
विरोधं बन्धुभिश्चोक्तं नवमं नरपाचनम्।। ६१.९

शिष्टाचारविनाशं च शिष्टद्वेषं शिशोर्वधम्।
शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्तितम्।। ६१.१०

षडङ्गनिधनं घोरं षाङ्गुण्यप्रतिषेधनम्।
एकादशममेवोक्तं नरकं सद्भिरुत्तमम्।। ६१.११

सत्सु नित्यं सदा वैरमनाचारमसत्क्रिया।
संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम्।। ६१.१२

हानिर्धर्मार्थकामानामपवर्गस्य हारणम्।
संभेदः संविदामेतत् त्रयोदशममुच्यते।। ६१.१३

कृपणं धर्महीनं च यद् वर्ज्यं यच्च वह्निदम्।
चतुद्‌र्दशममेवोक्तं नरकं तद् विगर्हितम्।। ६१.१४

अज्ञानं चाप्यसूयत्वमशौचमशुभावहम्।
स्मृतं तत् पञ्चदशममसत्यवचनानि च।। ६१.१५

आलस्यं वै षोडशममाक्रोशं च विशेषतः।
सर्वस्य चाततायित्वमावासेष्वग्निदीपनम्।। ६१.१६

इच्छा च परदारेषु नरकाय निगद्यते।
ईर्ष्याभावश्च सत्येषु उद्धृत्तं तु विगर्हितम्।। ६१.१७

एतैस्तु पापैः पुरुषः पुन्नमाद्यैर्न संशयः।
संयुक्तः प्रीणयेद् देवं संतत्या जगतः पतिम्।। ६१.१८

प्रीतः सृष्ट्या तु शुभया स पापाद्येन मुच्यते।
पुंनामनरकं घोरं विनाशयति सर्वतः।। ६१.१९

एतस्मात् कारणात् साध्य सुतः पुत्रेति गद्यते।
अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम्।। ६१.२०

ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः।
पितृणां च द्विजश्रेष्ठ सर्ववर्णेषु चैकता।। ६१.२१

ओंकारादपि निर्वृत्तिः पापकार्यकृतश्च यः।
मत्स्यादश्च महापापमगम्यागमनं तथा।। ६१.२२

घृतादिविक्रयं घोरं चण्डालादिपरिग्रहः।
स्वदोषाच्छादनं पापं परदोषप्रकाशनम्।। ६१.२३

मत्सरित्वं वाग्दुष्टत्वं निष्टुरत्वं तथा परम्।
टाकित्वं तालवादित्वं नाम्ना वाचाऽप्यधर्मजम्।। ६१.२४

दारुणत्वमधार्मिक्यं नरकावहमुच्यते।
एतैश्च पापैः संयुक्तः प्रीणयेद् यदि शंकरम्।। ६१.२५

ज्ञानाधिकमशेषेण शेषपापं जयेत् ततः।
शारीरं वाचिकं यत् तु मानसं कायिकं तथा।। ६१.२६

पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः।
भ्रातृभिर्बान्धवैश्चापि तस्मिन् जन्मनि धर्मज।। ६१.२७

तत्सर्वं विलयं याति स धर्मः सुतशिष्ययोः।
विपरीते भवेत् साध्य विपरीतः पदक्रमः।। ६१.२८

तस्मात् पुत्रश्च शिष्यश्च विधातव्यौ विपश्चिता।
एतदर्थमभिध्याय शिष्याच्छ्रेष्ठतरः सुतः।
शेषात् तारयते शिष्यः सर्वतोऽपि हि पुत्रकः।। ६१.२९

पुलस्त्य उवाच।।
पितामहवचः श्रुत्वा साध्यः प्राह तपोधनः।
त्रिः सत्यं तव पुत्रोऽहं देव योगं वदस्व मे।। ६१.३०

तमुवाच महायोगी त्वन्मातापितरौ यदि।
दास्येते च ततः सूनुर्दायादो मेऽसि पुत्रक।। ६१.३१

सनत्कुमारः प्रोवाच दायादपरिकल्पना।
येयं हि भवता प्रोक्ता तां मे व्याख्यातुमर्हसि।। ६१.३२

तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः।
प्राह प्रहस्य भगवान् श्रुणु वत्सेति नारद।। ६१.३३

ब्रह्मोवाच।।
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गुढोत्पन्नोऽपविद्धश्च दायादा बान्धवास्तु षट्।। ६१.३४

अमीषु षट्षु पुत्रेषु ऋमपिण्डधनक्रियाः।
गोत्रसाम्यं कुले वृत्तिः प्रतिष्ठा शाश्वती तथा।। ६१.६१

कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा।
स्वयंदत्तः पारशवः षडदायादबन्धवाः।। ६१.३६

अमीभिर्ऋणपिण्डादिकथा नैवेह विद्यते।
नामधारका एवेह न गोत्रकुलसंमताः।। ६१.३७

तत् तस्य वचनं श्रुत्वा ब्रह्मणः सनकाग्रजः।
उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमर्हसि।। ६१.३८

ततोऽब्रवीत् सुरपतिर्विशेषं श्रृणु पुत्रक।
औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः।। ६१.३९

क्लीबोन्मत्ते व्यसनिनि पत्यौ तस्याज्ञया तु या।
भार्या ह्यनातुरा पुत्रं जनयेत् क्षेत्रजस्तु सः।। ६१.४०

मातापितृभ्यां यो दत्तः स दत्तः परिगीयते।
मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः।। ६१.४१

न ज्ञायते गृहे केन जातस्त्विति स गूढकः।
बाह्यतः स्वयमानीतः सोऽपविद्धः प्रकीर्तितः।। ६१.४२

कन्याजातस्तु कानीनः सगर्भोढः सहोढकः।
मूल्यैर्गृहीतः क्रीतः स्याद् द्विविधः स्यात् पुनर्भवः।। ६१.४३

दत्त्वैकस्य च या कन्या हृत्वाऽन्यस्य प्रदीयते।
तज्जालस्तनयो ज्ञेयो लोके पौनर्भवो मुने।। ६१.४४

दुर्भिक्षे व्यसने चापि येनात्मा विनिवेदितः।
स स्वयंदत्त इत्युस्तथान्यः कारणान्तरैः।। ६१.४५

ब्राह्मणस्य सुतः शूद्र्यां जायते यस्तु सुव्रत।
ऊढायां वाप्यनूढायां स पारशव उच्यते।। ६१.४६

एतस्मात् कारणात् पुत्र न स्वयं दातुमर्हसि।
स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय।। ६१.४७

ततः स मातापितरौ सस्मार वचनाद् विभोः।
तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने।। ६१.४८

धर्मोऽहिंसा च देवेशं प्रणिपत्य न्यषीदताम्।
उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत्।। ६१.४९

सनत्कुमार उवाच।।
योगं जिगमिषुस्तात ब्रह्माणं समचूचुदम्।
स चोक्तवान् मां पुत्रार्थे तस्मात् त्वं दातुमर्हसि।। ६१.५०

तावेवमुक्तौ पुत्रेण योगाचार्यं पितामहम्।
उक्तवन्तौ प्रभोऽयं हि आवयोस्तनयस्तव।। ६१.५१

अद्यप्रभृत्ययं पुत्रस्तव ब्रह्मन् भविष्यति।
इत्युक्त्वा जग्मतुर्स्तूर्णं येनैवाब्यागतौ यथा।। ६१.५२

पितामहोऽपि तं पुत्रं साध्यं सद्धिनयान्वितम्।
सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम्।। ६१.५३

शिखासंस्थं तु ओङ्कारं मेषोऽस्य शिरसि स्थितः।
मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम्।। ६१.५४

नकारो मुखसंस्थो हि वृषस्तत्र प्रकीर्तितः।
ज्येष्ठमासाश्च तत्पत्रं द्वितीयं परिकीर्तितम्।। ६१.५५

मोकारो भुजयोर्युग्मं मिथुनस्तत्र संस्थितः।
मासो आषाढनामा च तृतीयं पत्रकं स्मृतम्।। ६१.५६

भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः।
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम्।। ६१.५७

गकारं हृदयं प्रोक्तं सिंहो वसति तत्र च।
मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम्।। ६१.५८

वकारं कवचं विद्यात् कन्या तत्र प्रतिषिठता।
मासश्चाश्वयुजो नाम षष्ष्ठं तत् पत्रकं स्मृतम्।। ६१.५९

तेकारमस्त्रग्रामं च तुलाराशिः कृताश्रयः।
मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृतम्।। ६१.६०

वाकारं नाभिसंयुक्तं स्थितस्तत्र तु वृश्चिकः।
मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम्।। ६१.६१

सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः।
पौषेति गदितो मासो नवमं परिकीर्तितम्।। ६१.६२

देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः।
माघो निगदितो मासः पत्रकं दशमं स्मृतम्।। ६१.६३

वाकारो जनुयुग्मं च कुम्भस्तत्रादिसंस्थितः।
पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम्।। ६१.६४

पादौ यकारो मीनोऽपि स चैत्रे वसते मुने।
इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि।। ६१.६५

द्वादशारं तथा चक्रं षष्णाभि द्वियुतं तथा।
त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः।। ६१.६६

एतत् तवोक्तं देवस्य रूपं द्वादशपत्रकम्।
यस्मिन् ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत्।। ६१.६७

द्वितीयमुक्तं सत्त्वाढ्यं चतुर्वर्णं चतुर्मुखम्।
चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम्।। ६१.६८

तृतीयस्तमसो माम शेषमूर्तिः सहस्रपात्।
सहस्रवदनः श्रीमान् प्रजाप्रलयकारकः।। ६१.६९

चतुर्थो राजसो नाम रक्तवर्णश्चतुर्मुखः।
द्विभुजो धारयन् मालं सृष्टिकृच्चादिपूरुषः।। ६१.७०

अव्यक्तात् संभवन्त्येते त्रयो व्यक्ता महामुने।
अतो मरीचिप्रमुखास्तथान्येऽपि सहस्रशः।। ६१.७१

एतत् तवोक्तं मुनिवर्य रूपं विभोः पुराणं मतिपुष्टिवर्धनम्।
चुतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात् पुनराससाद।। ६१.७२

तमागतं प्राह मुने मधुघ्नः प्राप्तोऽसि केनासुर कारणेन।
स प्राह योद्धुं सह वै त्वयाऽद्य तं प्राह भूयः सुरशत्रुहन्ता।। ६१.७३

यदीह मां योद्धुमुपागतोऽसि तत् कम्पते ते हृदयं किमर्थम्।
ज्वरातुरस्येव मुहुर्मुहुर्वै तन्नास्मि योत्स्ये सह कातरेण ।। ६१.७४

इत्येवमुक्तो मधुसूदनेन मुरुस्तदा स्वे हृदये स्वहस्तम्।
कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः।। ६१.७५

हरिश्च चक्रं मृदुलाघवेन मुमोच तद्ध्वत्कमलस्य शत्रोः।
चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रशंसन्ति च पद्मनाभम्।। ६१.७६

एतत् तवोक्तं मुरदैत्यनाशनं कृतं हि युक्त्या शितचक्रपाणिना।
अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः।। ६१.७७

इति श्रीवामनपुराणे पञ्चत्रिंशोऽध्यायः ।।