प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच
एवं कपाली संजातो देवर्षे भगवान्हरः।
अनेन कारणेनासौ दक्षेण न निमन्त्रितः।। ४-१

कपालिजायेति सतीं विज्ञायाथ प्रजापतिः।
यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता।। ४-२

एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी।
जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम्।। ४-३

तामागतां सती दृष्ट्वा जयमेकामुवाच ह।
किमर्थं विजया नागाज्जयन्ती चापराजिता।। ४-४

सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम्।
गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः।। ४-५

समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया।
अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका।। ४-६

किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः।
नामन्त्रिताऽसि तातेन उताहोस्विद् व्रजिष्यसि।। ४-७

गतास्तु ऋषयः सर्वे ऋषिपत्न्यः सुरास्तथा।
मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम्।। ४-८

चतुर्दशसु लोकेषु जन्तवो ये चराचराः।
निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता।। ४-९

पुलस्त्य उवाच
जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती।
मन्युनाऽभिप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः।। ४-१०

जया मृतां सतीं दृष्ट्वा क्रोधशोकपरिप्लुता।
मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह।। ४-११

आक्रन्दितध्वनिं श्रुत्वा शूलपाणिस्त्रिलोचनः।
आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः।। ४-१२

आगतो ददृशे देवीं लतामिव वनस्पतेः।
कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम्।। ४-१३

देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शंकरः।
किमियं पतिता भूमौ निकृत्तेव लता सती।। ४-१४

सा शंकरवचः श्रुत्वा जया वचनमब्रवीत्।
श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह।। ४-१५

आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः।
मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती।। ४-१६

पुलस्त्य उवाच
एतच्छ्रुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ।
क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसाऽर्चिषः।। ४-१७

ततः क्रोधात् त्रिनेत्रस्य गात्ररोमोद्भवो मुने।
गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः।। ४-१८

गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम्।
गतः कनखलं तस्माद् यत्र दक्षोऽयजत् क्रतुम्।। ४-१९

ततो गणानामधिपो वीरभद्रो महाबलः।
दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने।। ४-२०

जया क्रोधाद् गदां गृह्य पूर्वदक्षिणतः स्थिता।
मध्ये त्रिशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने।। ४-२१

मृगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः।
ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन्।। ४-२२

ततस्तु धनुरादाय शरांश्चाशीविषोपमान्।
द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत्।। ४-२३

तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः।
करेणैकेन जग्राह त्रिशूलं वह्निसन्निभम्।। ४-२४

कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान्।
चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः।। ४-२५

ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम्।
तस्थावष्टभुजो भूत्वा नानायुधधरोऽव्ययः।। ४-२६

खड्गचर्मगदाप्रासपरश्वधवराङ्कुशैः।
चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम्।। ४-२७

गणेश्वरोऽपि संक्रुद्धो हन्तुं धर्म सनातनम्।
ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः।। ४-२८

तावन्योन्यं महात्मानौ शरचापधरौ मुने।
रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः।। ४-२९

ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य।
पराङ्मुखोऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् ।। ४-३०

यज्ञवाटं प्रविष्टं तं वीरभद्रं गणेश्वरम्।
दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने।। ४-३१

वसवोऽष्टौ महाभागा ग्रहा नव सुदारुणाः।
इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि।। ४-३२

विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः।
यक्षाः किंपुरुषाश्चैव खगाश्चक्रधरास्तथा।। ४-३३

राजा वैवस्वताद्वंशाद् धर्मकीर्तिस्तु विश्रुतः।
सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः।। ४-३४

दितिजा दानवाश्चान्ये येऽन्ये तत्र समागताः।
ते सर्वेऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः।। ४-३५

तानापतत एवाशु चापबाणधरो गणः।
अभिदुद्राव वेगेन सर्वानेव शरोत्करैः।। ४-३६

ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन्।
गणेशोऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च।। ४-३७

शरैः शस्त्रैश्च सततं वध्यमाना महात्मना।
वीरभद्रेण देवाद्या अपहारमर्कुत।। ४-३८

ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम्।
जुह्वाना ऋषयो यत्र हवींषि प्रवितन्वते।। ४-३९

ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम्।
भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम्।। ४-४०

तानार्ताश्चक्रभृद् दृष्ट्वा महर्षींस्त्रस्तमानसान्।
न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः।। ४-४१

समानम्य ततः शार्ङ्ग शरानग्निशिखोपमान्।
मुमोच वीरभद्राय कायावरणदारणान्।। ४-४२

ते तस्य कायमासाद्य अमोघा वै हरेः शराः।
निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः।। ४-४३

शरास्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः।
दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः।। ४-४४

तानस्त्रान्वासुदेवेन प्रक्षिप्तान्गणनायकः।
वारयामास शूलेन गदया मार्गणैस्तथा।। ४-४५

दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः।
त्रिशूलेन समाहत्य पातयामास भूतले।। ४-४६

मुसलं वीरभद्राय प्रचिक्षेप हलायुधः।
लाङ्गलं च गणेशोऽपि गदया प्रत्यवारयत्।। ४-४७

मुसलं सगदं दृष्ट्वा लाङ्गलं च निवारितम्।
वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः।। ४-४८

तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु।
शूलं परित्यज्य जगाद चक्रं यथा मधुं मीनवपुः सुरेन्द्रः।। ४-४९

चक्रे निगीर्णे गणनायकेन क्रोधातिरक्तोऽसितचारुनेत्रः।
मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद् भुवि निष्पिपेष।। ४-५०

हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले।
सहितं रुधिरोद्गारैर्मुकाच्चक्रं विनिर्गतम्।। ४-५१

ततो निःसृतमालोक्य चक्रं कैटभनाशनः।
समादाय हृषीकेशो वीरभद्रो मुमोच ह।। ४-५२

हृषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम्।
गत्वा निवेदयामास वासुदेवात्पराजयम्।। ४-५३

ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम्।
निश्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः।। ४-५४

ततः क्रोधाभिभूतेन वीरभद्रोऽथ शंभुना।
पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः।। ४-५५

वीरभद्रमथादिश्य भद्रकालीं च शंकरः।
विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत्।। ४-५६

ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि।
दक्षस्य यज्ञं विशति क्षयंकरे जातो ऋषीणां प्रवरो हि साध्वसः।। ४-५७

इति श्रीवामनपुराणे चतुर्थोऽध्यायः ।। ४ ।।